रविजगर्वपरिहारो नामाष्टाधिकशततमोऽध्यायः
क उवाच
ततः पञ्चदशे वर्षे मयूरेशोऽर्भकैः सह ।
गतः स्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुम्
॥१॥स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते हृदिस्थं गणनायकम्
॥२॥केचित्पद्मासनगतं केचिद्बर्हिगतं च तम् ।
दिव्यगन्धैदिव्यवस्त्रैः दिव्यैः पुष्पैरपूजयन्
॥३॥गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्वितेऽर्चयत् ।
एतस्मिन्नन्तरेऽकस्मात् पिदधे द्वारमस्य तत्
॥४॥यावदुद्धाटत्येव तावत् तत् दृढतामगात् ।
तत्र आक्रन्दनं चक्रे स च ते बालका अपि
॥५॥बालका ऊचुः
त्वमेव जननी तातः कथमभ्यन्तरे स्थितः ।
दत्त्वा कपाटं देवेश नोऽपराधान्क्षमस्व च
॥६॥क उवाच
एतस्मिन्नन्तरे दैत्यो महाबलपराक्रमः ।
यस्य शब्देन महता कम्पते भुवनत्रयम्
॥७॥सटाभिन्नघनो दुष्टो व्याघ्ररूपी समभ्यगात् ।
व्यादाय वदनं घोरं ग्रसन्निव जगत्त्रयम्
॥८॥दृष्ट्वा तं दुद्रुवुर्बालाः क्रन्दन्तस्ते दिशो दश ।
स तु द्वारं विनिर्भिद्य मयूरेशं तमाययौ
॥९॥शार्दूलसदृशं रूपं कृत्वायात्सोऽपि तं क्षणात् ।
पपाल सहसा व्याघ्रः पृष्ठे लग्नो ययौ च सः
॥१०॥भ्रमन्स तु वनं यातो निकुञ्जे लीयतस्थिवान् ।
देवो वृक्षं समारुह्य कुञ्जमध्ये पपात ह
॥११॥उभाभ्यां वदनं तस्य कराभ्यां जगृहे दृढम् ।
अन्याभ्यां बहिरानीय ततः परशुनाऽच्छिनत्
॥१२॥नासिकां श्रवणे पादौ पुच्छमग्रभुवावुभौ ।
न मुखं दर्शयेत्युक्त्वा विससर्ज गुणेश्वरः
॥१३॥निजं रूपं समास्थाय तथैव विकृतोऽभवत् ।
एवमेव करिष्यामि त्वद्देहमित्युवाच तम्
॥१४॥ययौ निजालयं दैत्यो देवः स्वं धाम चाययौ ।
ततो मुनिसुता भ्रेमुः क्रदन्तः क्व मयूरराट्
॥१५॥अतिश्रान्ता द्रुमतले सुच्छाये प्रास्वपँस्तदा ।
अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्बुजम्
॥१६॥पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोध भानुजः ।
अत्यारक्तदृशौ रोषाद् ब्रह्माण्डग्राससाहसः
॥१७॥बद्धवा तान्स्वस्थलं यातो मयूरेशस्ततोऽगमत् ।
नापश्यत् तत्तटे बालान्विस्मयं परमं ययौ
॥१८॥चिन्तां परमिकां प्राप्तो विना तैः स मयूरराट् ।
न सुखं क्वापि सम्प्रायात्ततो मुनिगणा ययुः
॥१९॥मुनय ऊचुः
क्वास्माकं बालका देव प्रातर्नीतास्त्वयाऽखिलाः ।
विना तैर्नो गमिष्यन्ति प्राणास्त्वय्यागतेऽधुना
॥२०॥क उवाच
न किञ्चिदूचे तान्देवो मुञ्चन्नश्रु मुहुर्मुहुः ।
विचार्य भास्करीं यातः पुरीं दूतैर्निवेदितः
॥२१॥दूता ऊचुः
कोऽपि यातो योद्धुकामो लोकत्रयविनाशकृत् ।
उग्रारावो महाबाहुर्वार्यमाणो बलाद् यम
॥२२॥यम उवाच
ब्रह्माण्डं चूर्णतां याति दण्डाघातेन यस्य मे ।
तस्य मे पुरतो युद्धं कथं बालो विधास्यसि
॥२३॥देव उवाच
त्वमात्मानं वर्णयसे रङ्कवद्भासि मे यम ।
मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति
॥२४॥एवमुक्त्वा मयूरेशो यमस्कन्धं रुरोह सः ।
पातयामास महिषात्पपातोपरि तत्क्षणात्
॥२५॥पराक्रमं तस्य बुद्ध्वा बद्धाञ्जलिपुटो यमः ।
तुष्टाव परया भक्त्या मयूरेशं सुरेश्वरम
॥२६॥यम उवाच
न ते रूपं विदुर्देवा ब्रह्माद्याः सनकादयः ।
नेति नेति च वेदात्स्वां वदन्ति परमेश्वरम्
॥२७॥स्रष्टारं पालकं सृष्टेः संहर्तारं निजेच्छया ।
दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम्
॥२८॥अकस्मादपराधं नः कृतं क्षन्तुं त्वमर्हसि ।
क उवाच ।
एवमुक्त्वा पुपूजासौ वस्त्रैः रत्नैः फलैरमुम्
॥२९॥बालानानीय तद्धस्ते निवेद्य पुरतः स्थितः ।
आलिलिङ्गुर्मुदा सर्वे परस्परमथाऽब्रुवन्
॥३०॥बाला ऊचुः
श्रान्तास्त्वद्दर्शनार्थाय बद्ध्वा नीता यमेन ह ।
त्वद्दर्शनाद् बन्धमुक्ता यास्यामो निजमन्दिरम्
॥३१॥क उवाच
ततस्ते स्वाश्रमं प्राप्ता मयूरेशपुरस्कृताः ।
मयूरेशपूरं याता नानावादित्रसङ्कुलम्
॥३२॥नानाध्वजपताकाढ्यं पुष्पमालाविभूषितम् ।
यमोऽपि पृष्ठतो याति द्रष्टुं तत्कौतुकं महत्
॥३३॥सम्मुखं तस्य ते सर्वे मुनयोऽपि ययुस्तदा ।
पुपूजुस्तुष्टुवुर्देवं लिलिङ्गुर्बालकानपि
॥३४॥उवाचदेवतान्सर्वान् मुनीन्पूर्वं प्रकुप्यतः ।
आनीता बालका लोकाद् यमस्य क्षणमात्रतः
॥३५॥मुनय ऊचुः
सर्वत्र रक्षसे त्वं हि सर्वशक्तिः सदा च नः ।
क उवाच ।
इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः
॥३६॥यमोऽपि तं नमस्कृत्य स्वालयं मुदितोऽगमत् ।
देवोऽपि स्वालयं प्राप्य हर्षयामास मातरम्
॥३७॥इति श्रीगणेशपुराणे क्रीडाखण्डे यमगर्वपरिहारो (रविजगर्वपरिहारो) नामाष्टाधिकशततमोऽध्यायः ॥ १०८ ॥