विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः
क उवाच
पूर्वमेव च दूतेन कथितोऽसौ विनायकः ।
अदित्यै काशिराजेन रथस्थेन सहागतः
॥१॥ततः सा तद्वियोगेन धावमाना ययौ पुरः ।
औत्सुक्यत्वरिता वेद नाञ्चलं पतितं स्वकम्
॥२॥दृष्ट्वा तां मुनिपुत्रोऽपि रथात्प्रस्कन्द्य सत्वरः ।
आययौ मातुरभ्याशमालिलिङ्ग च तां मुदा
॥३॥आनन्दाश्रु मुमोचासौ सोऽपि बाष्पं चिरागतः ।
मुहूर्तमेकभावं तौ प्रापतुः पयसी इव
॥४॥ददौ स्नेहात्स्वस्थचित्ता स्तनपानं मुदाऽदितिः ।
प्रमृज्य नेत्रे प्रोवाच श्रान्तोऽसि बहुवासरम्
॥५॥ततो ननाम तां राजा जगौ गद्गदभाषया ।
राजोवाच ।
नीत्वा विनायकं देवं यातास्तु बहुवासराः
॥६॥अतो न मातः कोपं त्वं मयि कर्तुमिहार्हसि ।
वियोगमपि सोढुं च न शक्तोऽहं मुनिप्रिये
॥७॥न तृप्तिरस्ति पीयूषे नौदासिन्यं निधावपि ।
दिने दिने नवप्रेम वर्धयत्येष नो गृहे
॥८॥उत्पाता बहवोऽनेन पुरे नो विनिवारिताः ।
असङ्ख्याता हता दैत्या देवाश्च मुदमापिताः
॥९॥बहुला च कृता कीर्तिः स्थापिता धर्मसेतवः ।
पौरुषं च तथाऽनेन कृतं नेन्द्रादिभिः कृतम्
॥१०॥क उवाच
एवं स सर्ववृत्तान्तं कथयामास सादरम् ।
ततोऽदितिस्तु दध्यन्नं भ्रामयित्वाऽत्यजद् बहिः
॥११॥दुष्टदृष्टिनिपातस्य शान्तये बालकोपरि ।
ततो बालं स नृपतिं निनायाश्रममण्डलम्
॥१२॥कश्यपो हि बहिर्यातो दृष्ट्वा पुत्रं स भूपतिम् ।
तौ तं च नेमतुर्भक्त्या बद्धाञ्जलिपुटावुभौ
॥१३॥आलिलिङ्ग मुनिस्तौ च मूर्ध्न्याघ्राय मुदा तदा ।
उवाच रुद्धकण्ठोऽसावङ्के कृत्वा विनायकम्
॥१४॥काशिराज नोचितं ते बालं नीत्वा विलम्बनम् ।
शीघ्रमेवानयिष्येऽहमित्युक्त्वा नीतवान्कथम्
॥१५॥वियोगेनास्य तप्तानामङ्गानां मेऽधुना नृप ।
जाता शीतलता पुण्याद् दर्शनादस्य साम्प्रतम्
॥१६॥क उवाच
तत ऊचे काशिराजो निपीय मुनिभाषितम् ।
उपविश्यासने रम्ये प्राप्यानुज्ञां मुनेनृपः
॥१७॥नृप उवाच
अस्यैव मायया जाता सत्यता मे मुनीश्वर ।
मद्गृहं देव देवेन स्वकीयमिति निश्चितम्
॥१८॥अवाप्तकामो देवोऽयं स्वकामवशगो मुने ।
सम्पाद्य मम पुत्रस्य विवाहं समुपागतः
॥१९॥क उवाच
तस्य दैत्यवधादीनि कर्माण्यस्मै न्यवेदयत् ।
ततो जहर्षतुरुभौ मुनिपत्नी मुनिश्च सः ।
ज्ञात्वा पराक्रमं तस्य स्वपुत्रस्य गुणान्बहून्
॥२०॥ततस्ते भोजनं चक्रुः षड्रसान्नेन सादरम् ।
दत्त्वाशीर्वचनं तस्मै विससर्ज नृपं मुनिः
॥२१॥सोऽपि तान्प्रणनामाथ प्रादक्षिण्येन निर्ययौ ।
प्राप्यानुज्ञां नेत्रयुग्मान् मुञ्चन्नश्रु सुदुःखितः
॥२२॥स्मरन् गुणगणं तस्य स्नेहनिर्भरमानसः ।
शीघ्रं प्रयातो नगरं वाद्यघोषसमन्वितः
॥२३॥सर्वे नागरिका बाला विनायकदिदृक्षया ।
आगता ददृशुस्तत्र ततो दुःखितमानसाः
॥२४॥निरीक्ष्य तं काशिराजं ययुः स्वं स्वं निकेतनम् ।
अपरेद्युः सर्वपौराः पप्रच्छुस्तं नृपं मुदा
॥२५॥यास्य इत्युक्तवान् देवो नागतः स कथं नृप ।
त्वं तु निष्ठुरभावेन त्यक्त्वा तं कथमागतः
॥२६॥राजोवाच
अत्यन्तं प्रार्थितो देव उक्तवान्मां मुनिप्रियः ।
मन्मूर्तिस्थापनं कृत्वा सेवध्वं सर्व एव माम्
॥२७॥वियोगो न च सर्वान्तर्यामिणा वः कथञ्चन ।
ततस्ते कारयामासुर्मूर्तिं धातुमयीं शुभाम्
॥२८॥चतुर्भुजां त्रिनयनां सर्वभूषणभूषिताम् ।
शूर्पकर्णां गजमुखीं सर्वावयवसुन्दराम्
॥२९॥ढुण्ढिराजेति नाम्ना तां स्थापयामासुरादरात् ।
ऋत्विग्भिर्ब्राह्मणैरन्यैर्वेदशास्त्रविशारदैः
॥३०॥प्रासादं परमं कृत्वा पुपूजुस्ते दिने दिने ।
येन येनैव कामेन पूजयेद् यो विनायकम्
॥३॥तं तं ददाति तस्मै स भक्त्या सम्पूजितो विभुः ।
एवं नानामूर्तिधरो भ्राजते स्म विनायकः
॥३२॥विश्वेश्वरे स्वनगरं याते सर्वसुरैः सह ।
दिवोदासे चाविमुक्ते काशिराजे सुखं स्थिते
॥३३॥विनायको मुनिं प्राह कश्यपं मातरं च ताम् ।
अहं ते पुत्रतां यातस्तपसाराधितः पुरा
॥३४॥भूभारश्च हृतः सम्यक् हतौ दैत्यौ महाबलौ ।
त्रैलोक्यपीडकौ दुष्टौ देवान्तकनरान्तकौ
॥३५॥देवाश्च साधवश्चैव रक्षिताः स्थापिताः परे ।
इदानीं तु गमिष्यामि निजलोकं चिरन्तनम्
॥३६॥क उवाच
श्रुत्वा वाक्यमुभौ खिन्नौ बाष्पकण्ठौ तमूचतुः
कदा ते दर्शनं देव पुनरत्र भविष्यति
॥३७॥ततः स मातरं प्राह दर्शनं मे भविष्यति ।
भवान्या मन्दिरे मातः सत्यं मे प्रियभाषितम्
॥३८॥एवं श्रुत्वा देववाक्यं पुनर्यावद् वदत्यसौ ।
तावदन्तर्हितो देवस्ततस्तौ खिन्नमानसौ
॥३९॥कारयामासातुर्मूर्तिं प्रासादं चातिशोभनम् ।
विनायकेति नामाऽस्य चक्रतुर्भक्तितत्परौ
॥४०॥तस्यां मूर्तौ ध्यातमात्रो नित्यं दर्शयते विभुः ।
स्वात्मानं सर्वगं नानारूपिणं स विनायकः
॥४१॥गृत्समद उवाच
एवं कीर्ते समाख्यातं चरितं ते मया शुभम् ।
विनायकस्य देवस्य श्रवणात्सर्व सिद्धिदम्
॥४२॥धन्यं यशस्यमायुष्यं सर्वोपद्रवनाशनम् ।
सर्वकामप्रदं सर्वपापसञ्चयनाशनम्
॥४३॥पुनस्ते कथयिष्यामि सिन्धुदैत्यवधाय सः ।
अवतीर्णः शिवगृहे मयूरेश्वरसंज्ञितः
॥४४॥बाल्यात्प्रभृत्यद्भुतानि नानाकर्माणि योऽकरोत्
॥४५॥इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥