मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 101

3
क्रीडाखण्डः · 101

दैत्यसेनावधो नाम एकशततमोऽध्यायः

क उवाच

ततस्तु दशमे वर्षे सुखासीनं महेश्वरम् ।

गिरिजासहितं वामे सप्तकोटिगणान्वितम्

॥१॥

नृत्यन्तं तं मयूरेशं पश्यन्तं स्वाङ्गणे शिशुम् ।

आययुर्मुनयः सर्वे गौतमाद्याः प्रणम्य तम्

॥२॥

ऊचुः प्रबुद्धमतयो महादेवं महौजसम् ।

यावत्कालं शिवात्र त्वं मयूरेशसमन्वितः

॥३॥

स्थितोऽसि तावद् दैत्यानामनन्तानां समागमः ।

वयं तेन प्रपीडयामोऽन्यत्र याहि शिवाधुना

॥४॥

वयं वाऽन्यत्र गच्छामो यद्याज्ञा ते भवेद्धर ।

शिव उवाच ।

भवत्सङ्गेन च मया नववर्षाणि सौख्यतः

॥५॥

अतिक्रान्ताति विघ्नानि मयूरेशेन तानि च ।

भवतां गमनेऽस्माकं स्थित्वा किन्नु प्रयोजनम्

॥६॥

अहमेव प्रयास्यामि स्थलमन्यन्निराकुलम् ।

क उवाच ।

इति शम्भुवचः श्रुत्वा मुनयस्तं प्रणम्य ते

॥७॥

जय देव मयूरेशेत्युक्त्वा स्वस्थानमाययुः ।

शिवोऽपि गणसंयुक्तो वृषारूढोऽम्बिकायुतः

॥८॥

बर्ह्यारूढं मयूरेशं पुरस्कृत्य मुदान्वितः ।

नानावादित्रनिर्घोषैर्नादयन्विष्टपं ततः

॥९॥

अन्वयुर्मुनयः सर्वे मयूरेशं शिवान्वितम् ।

पत्न्योऽपि बालकैः सार्द्धं स्नेहगद्गदभाषिभिः

॥१०॥

रजसा व्योमनि तते न प्राज्ञायत किञ्चन ।

परावृत्य शिवः सर्वान्दक्षिणाभिमुखो ययौ

॥११॥

ददृशुर्मार्गमध्ये तं द्वादशाक्षौहिणीयुतम् ।

कमलासुरमायान्तं धूलिधूसरिताम्बरम्

॥१२॥

गजाश्च पुरतो यान्ति रथाश्वपादचारिणः ।

न ज्ञायते रवेस्तेजः शस्त्रदीप्त्याथ किञ्चन

॥१३॥

कोलाहलो महानासीद् गजाश्वरथपत्तिजः ।

नानाविधानां शस्त्राणां सङ्घट्टस्वनमिश्रितः

॥१४॥

ददृशुस्तं महादैत्यं शिवचाराः पुरो गताः ।

शङ्खासुरस्य तं बन्धु नानाभूषाविराजितम्

॥१५॥

नानायुधधरं प्रोचुरागत्य तु शिवं गणाः ।

पादाघातेन तस्याशु कम्पते कमठादयः

॥१६॥

मुनयोऽग्रेचराः पेतुर्भयभीतास्तमब्रुवन् ।

मयूरेश महाभाग कथं रक्षसि नोऽखिलान्

॥१७॥

क उवाच

इति तद्वचनं श्रुत्वा प्रावदत् स गुणेश्वरः ।

विद्यमाने शिवे चिन्ता न कार्या मुनिपुङ्गवा

॥१८॥

मयूरेशो हरं प्राह नमस्कृत्य ततः पुनः ।

देव उवाच ।

महासेनायुतो दैत्यो नाम्नाऽसौ कमलासुरः

॥१९॥

यदि तेऽनुग्रहो मे स्याद् युद्धायाशु व्रजाम्यहम् ।

शिव उवाच ।

सम्यगुक्तं त्वया पुत्र हृदयानन्दनं वचः

॥२०॥

द्वादशाक्षौहिणीसेनायुतोऽसौ दैत्यपुङ्गव ।

एकाकी कथमायासि सप्तकोटिगणैर्युतः

॥२१॥

व्रजाप्नुहि जयं शीघ्रं जहि शत्रुं महाबलम् ।

देव उवाच ।

तव प्रसादात् त्रैलोक्यं दहेयमिति मे मतिः

॥२२॥

कियन्तो न हता दैत्या न ज्ञातास्ते त्वया नु किम् ।

अस्य का गणना स्वामिन्नायास्ये जयवानहम्

॥२३॥

क उवाच

एवमाकर्ण्य तद्वाक्यं शम्भूरालिङ्ग्य तं ददौ ।

त्रिशूलं पुत्रहस्ते तन्मूर्ध्नि न्यस्य करं शुभम्

॥२४॥

आज्ञां ददौ स्वपुत्राय गणयुक्ताय शङ्करः ।

क्ष्वेडितैर्जयशब्दैश्च नादयन्स दिशो दश

॥२५॥

प्रययौ प्रमथैर्युक्तो विघ्नहा युद्धलालसः ।

वृषारूढः शिवायुक्तो हरोऽपि द्रष्टुमन्वगात्

॥२६॥

दृष्ट्वाऽपारां दैत्यसेनां मयूरेशः शरीरतः ।

निर्ममे बहुलां सेनां ततो युद्धमवर्तत

॥२७॥

कालानुरूपास्ते वीरा ब्रह्माण्डाशनतत्पराः ।

मेरोरधिकमानास्ते शब्दतः श‍ृङ्गपातिनः

॥२८॥

परस्परं निजघ्नुस्ते तुमुले संयुगे ततः ।

अन्धकारो महानासीद् रजसाच्छादिता दिशः

॥२९॥

विस्मयं चक्रिरे दैत्या इदानीमयमेकलः ।

अनेकतां कथं यातस्तस्मादेष परः पुमान्

॥३०॥

भूभारं हर्तुकामोऽयमवतीर्णः शिवालये ।

सोऽपि दीर्घतरं रूपं दधार सहसा विभुः

॥३१॥

दृष्ट्वा दीर्घं दैत्यरूपं योगमायासमावृतः ।

दशायुधधरो देवो दशहस्तो महाबलः

॥३२॥

मयूरेशश्च दैत्यश्च युध्यमानौ विरेजतुः ।

नानाशस्त्रप्रहरणैर्नानायुद्धविशारदैः

॥३३॥

व्यस्ताव्यस्तमयुध्यन्त गणाः सेनाचराश्च ते ।

मुष्टिप्रहारैर्दन्तैश्च शस्त्रास्त्रैरितरेतरम्

॥३४॥

केषाचिन् मस्तका भग्ना अपरेषां मुखानि च ।

जानुजङ्घाविरहिता निपेतुरपरे रणे

॥३५॥

गर्जयन्तो दश दिशः शस्त्रास्रघातनिस्वनैः ।

स्वामिस्वनामतो जघ्नुरन्धकारे रजस्कृते

॥३६॥

कबन्धामारयँस्तत्र परान्स्वानपि सम्मुखम् ।

दैत्यसेनाचरा भग्ना दैत्यमेवान्वयुस्तदा

॥३७॥

असङ्ख्यातान् मृतान्प्राहुर्नद्यस्तु रक्तसम्भवाः ।

दैत्य उवाच ।

इन्द्रादयो लोकपाला ब्रह्माद्या देवतागणाः

॥३८॥

निर्जिता येन तेनेह को युद्धं कुर्तुमुत्सहेत् ।

भूगोलं न्युब्जतां नेतुं कोऽन्यः शक्तो भविष्यति

॥३९॥

क उवाच

इत्युक्त्वान्दोलयामास शस्त्रान्दोलनतो जगत् ।

क्रोधसंरक्तनयनो मारयामास दैत्यराट्

॥४०॥

मयूरेशगणान् सर्वान् नानावाहनहेतिकान् ।

शिरःपादाकृत्तिहस्तान् भित्त्वाऽपातयदाहवे

॥४१॥

उत्कर्षं तस्य तं दृष्ट्वा मयूरेषो ययु पुरः ।

स्वर्गं च गर्जयन् व्योम दशशस्रैर्द्विषोऽहनत्

॥४२॥

असङ्ख्याता हता दैत्या मुक्तिं प्रापुः सुदुर्लभाम्

॥४३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यसेनावधो नामैकशततमोऽध्यायः ॥ १०१ ॥