मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 146

3
क्रीडाखण्डः · 146

``क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः

९ षट्चत्वारिंशादधिकशततमोऽध्यायः ।

वरेण्य उवाच ।

अनन्यभावस्त्वां सम्यक् मूर्तिमन्तमुपासते ।

योऽक्षरं परम व्यक्तं तयोः कस्ते मतोऽधिकः

॥१॥

असि त्वं सर्ववित् साक्षी भूतभावन ईश्वरः ।

अतस्त्वां परिपृच्छामि वद मे कृपया विभो

॥२॥

श्रीगजानन उवाच

यो मां मूर्तिन्धरं भक्त्या मद्भक्तः परिसेवते ।

स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि

॥३॥

खगणं स्ववशं कृत्वाऽखिलभूतहितार्थकृत् ।

ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम्

॥४॥

सोऽपि मामेत्य निर्देश्यं मत्परो य उपासते ।

संसारसागरादस्मादुद्धरामि तमप्यहम्

॥५॥

अव्यक्तोपासनादुःखमधिकं तेन लभ्यते ।

व्यक्तस्योपासनासाध्यं तदेवाव्यक्तभक्तितः

॥६॥

भक्तिश्चैवादरश्चात्र कारणं परमं मम ।

सर्वेषां विदुषां श्रेष्ठो ह्य किञ्चिज्ज्ञोऽपि भक्तिमान्

॥७॥

भजन् भक्त्या विहीनो यः स चाण्डालोऽभिधीयते ।

चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मम

॥८॥

शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।

भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः

॥९॥

अतो भक्त्या मयि मनो निधेहि बुद्धिमेव च ।

भक्त्या यजस्व मां राजँस्ततो मामेव यास्यसि

॥१०॥

असमर्थोऽर्पितुं स्वान्तं ध्रुवं मयि नराधिप ।

अभ्यासेन च योगेन ततो गन्तुं यतस्व माम्

॥११॥

तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् ।

ममानुग्रहतश्चैवं परां निर्वृतिमेष्यसि

॥१२॥

अथैवमप्यनुष्ठातुं न शक्नोषि तदा कुरु ।

प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम्

॥१३॥

श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं वरं मतम् ।

ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी

॥१४॥

निरहं ममताबुद्धिरद्वेषः करुणःसमः ।

लाभालाभे सुखेदुःखे मानामाने स मे प्रियः

॥१५॥

यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।

उद्वेगभीकोपमुद्भीरहितो यः स मे प्रियः

॥१६॥

रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् ।

मौनी निश्चलधीर्भक्तो ह्यसङ्गः स च मे प्रियः

॥१७॥

संशीलयति यश्चैनमुपदेशं मया कृतम् ।

स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा

॥१८॥

अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ न च तुष्यति ।

क्षेत्रतज्ज्ञौ च यो वेत्ति स मे प्रियतमो भवेत्

॥१९॥

वरेण्य उवाच

किं क्षेत्रं कश्चतद्वेत्ति किं तज्ज्ञानं गजानन ।

एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे

॥२०॥

श्रीगणेश उवाच

पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ।

अहङ्कारो मनो बुद्धिः पञ्चज्ञानेद्रियाणि च ।

इच्छाऽव्यक्तं धृतिद्वेषो सुखदुःखे तथैव च

॥२१॥

चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ।

तज्ज्ञं त्वं विद्धि मां भूप सर्वान्न्तर्यामिणं विभुम्

॥२२॥

अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ।

आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः

॥२३॥

शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ।

समदृष्टीर्दृढा भक्तिरेकान्तित्वं शमो दमः

॥२४॥

एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ।

तज्ज्ञानविषयं राजन् ब्रवीमि त्वं श‍ृणुष्व मे

॥२५॥

यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ।

यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम्

॥२६॥

अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ।

विश्वभृच्चाखिलव्यापि एकं नानेव भासते

॥२७॥

बाह्याभ्यन्तरतः पूर्णमसङ्गं तमसः परम् ।

दुर्ज्ञेयं चाति सूक्ष्मत्वाद् दीप्तानामपि भासकम्

॥२८॥

ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ।

एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः

॥२९॥

गुणान्प्रकृतिजान् भ्ङ्क्ते पुरुषः प्रकृतेः परः ।

गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम्

॥३०॥

यदा प्रकाशः क्षान्तिश्च वृद्धे सत्त्वं तदाऽधिकम् ।

लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः

॥३१॥

मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ।

सत्त्वाधिकः सुखं ज्ञानं कर्मसङ्गो रजोधिकः

॥३२॥

तमोधिकश्च लभते निद्रालस्यं सुखेतरत् ।

एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतिः

॥३३॥

प्रयान्ति मानवा राजंस्तस्मात् सत्त्वयुतो भव ।

ततश्च सर्वभावेन भज त्वं मां नरेश्वर

॥३४॥

भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ।

अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम्

॥३५॥

विदुषी ब्राह्मणे तेजो विद्धि तन्मामकं नृप ।

अहमेवाखिलं विश्वं सृजामिविसृजामिच

॥३६॥

ओषधीस्तेजसासर्वा विश्वं चाप्याययाम्यहम् ।

सर्वेन्द्रियाण्यधिष्ठाय जाठरञ्च धनञ्जयम्

॥३७॥

भुनज्मिचाखिलान् भोगान् पुण्यपापविवर्जितः ।

अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः

॥३८॥

इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ।

येन येन हि रूपेण जनो मां पर्युपासते

॥३९॥

तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ।

इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम्

॥४०॥

अखिलं भूपते सम्यगुपपन्नाय पृच्छते

॥४१॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतर्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``क्षेत्रक्षेत्रज्ञविवेकयोगो'' नाम नवमोऽध्यायः

॥९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे क्षेत्रक्षेत्रज्ञविवेकयोगोनाम षट्चत्वारिंशादधिकशततमोऽध्यायः ॥ १४६ ॥