मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 27

3
क्रीडाखण्डः · 27

बालचरिते सप्तविंशतीतमोऽध्यायः

व्यास उवाच

पूर्वजन्मनि व्याधोऽसौ क आसीद् राक्षसोऽपि सः ।

किं शीलं किं समाचारस्तन्ममाचक्ष्व नाभिज

॥१॥

अनुष्ठानं कृतं तेन वामनेन कथं प्रभो ।

कथं तस्मै वरो दत्तो गजाननस्वरुपिणा

॥२॥

लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।

कथं शमी प्रिया तस्य सर्वमेतद् वदाशु मे

॥३॥

क उवाच

श‍ृणु वक्ष्यामि ते सर्वं यद् यत् पृष्टं त्वया मुने ।

राजाऽसीत् पूर्वजनुषि स व्याधो वेदपारगः

॥४॥

सर्वशास्त्रप्रवक्ता च सर्वलक्षणलक्षितः ।

यज्वा विनीतो ह्रीमांश्च देवताऽतिथिपूजकः

॥५॥

गजाश्वरथपत्तीनां सङ्ख्या यस्य न विद्यते ।

दाता शूरश्च मेधावी समृद्धो मघवानिव

॥६॥

ध्वजश्च शत्रुजिद् यस्य प्रधानौ बुद्धिमत्तरौ ।

यतोऽधरीकृतः काव्यो गिरां पतिरपि स्फुटम्

॥७॥

यौ तौ क्षितितले जेतुं समर्थौ शस्त्रतेजसा ।

पत्नी सुलक्षणाऽस्यासीत् नाम्ना च मदनावती

॥८॥

पतिव्रता धर्मशीला सुमुखी सर्ववेदिनी ।

न तया सदृशी काचित्त्रिषु लोकेषु कामिनी

॥९॥

दीनानाथवृद्धजने कृपालुरतिथिष्वपि ।

यजतोर्ददतोरेवं रतयोः पूजने सताम्

॥१०॥

तयोर्वृत्तेन तुतुषः पौराजानपदा जनाः ।

अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसम्मतान्

॥११॥

एवं स पुण्यकीर्तिः सन् शशास पृथिवीमिमाम् ।

बहुसंवत्सरं दैवात् कालधर्ममुपेयिवान्

॥१२॥

मरिष्यमाणश्चक्रेऽसौ गोसहस्रं यथाविधि ।

महादानान्यपि ददौ दशाष्टौ चेतराणि च

॥१३॥

मृतेऽस्मिन्नगरी सर्वा शुशोच नृपतिं तदा ।

अपुत्रत्वात् सहैवास्य पत्नी सहगतिं ययौ

॥१४॥

मन्त्रिणौ सर्वसंस्कारान् कारयामासतुर्द्विजैः ।

एकादशाहे दददुर्नाना दानानि भक्तितः

॥१५॥

गते मासे मन्त्रयतो राज्यार्हं कुलजं नरम् ।

धीमन्तं सत्त्वसम्पन्नं शूरं सत्यपराक्रमम्

॥१६॥

दुर्धर्षस्य सुतं तस्य दायादस्य महाबलम् ।

क्षेत्रजं साम्बनामानं राज्ञाशिष्टं च तावुभौ

॥१७॥

अमात्यौ निश्चयं कृत्वा राज्यं दातुं तु तस्य ह ।

पौरजानपदान् सर्वान् ब्राह्मणान् परिपृच्छ्य च

॥१८॥

शुभे मुहूर्ते लग्ने च नानासम्भारसञ्चयैः ।

कारयामासतुरुभावभिषेकं द्विजैः सह

॥१९॥

मुनिरुवाच

कथं क्षेत्रात् समुत्पन्नः किञ्जातीयः पितामह ।

स साम्बस्तन्ममाचक्ष्व सर्वज्ञोऽसि कृपानिधे

॥२०॥

क उवाच

दूर्धर्षेण कृता यत्नाः पुत्रार्थं बहुधा मुने ।

न च जातः सुपुत्रोऽस्य दुष्टदैवयुतस्य ह

॥२१॥

तस्य पत्न्या प्रमदया कैवर्तासक्तचित्तया ।

जनितः सुमुहर्ते स न ज्ञातो जारजस्त्विति

॥२२॥

यावन्ति राजचिन्हानि तावन्ति ददतुश्च तौ ।

निवेद्य कोशसहितं सर्व राज्यं सराष्ट्रकम्

॥२३॥

अमात्यपदनिष्ठौ तो जातावास्तां यथा पुरा ।

स राज्यं प्राप्य दुर्द्धर्षसुतो मत्तः श्रियाऽभवत्

॥२४॥

स्त्रीमांसमदिरासक्तो मत्तो गज इवालसः ।

दुराचाररतो नित्यं नयमार्गपराङमुखः

॥२५॥

आदाय धनिनां सर्वं धनं तान् निरवासयत् ।

अपमानं चकाराशु ब्राह्मणानां सतामपि

॥२६॥

बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्ततिम् ।

शिष्टः स्म प्रकृती नीतिं न तद्वाक्यं समाददे

॥२७॥

वारंवारं यदा तौ तं शिष्टः स्म करुणायुतौ ।

अमात्यौ स बबन्धाशु निगडाभ्यां रुषान्वितः

॥२८॥

शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतम् ।

यत् प्रसादात् त्वया प्राप्तं राज्यं निहतकण्टकम्

॥२९॥

विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल ।

अनादृत्य तु तद्वाक्यं पीयूषमिव पामर

॥३०॥

श‍ृङ्खलाभ्यां निबद्धौ तौ कारागारेऽध्यवासयत् ।

अतिदुष्टो दुष्टबुद्धिनामाऽभूत् तत् सखाऽनिशम्

॥३१॥

तमेव सचिवं चक्रे दत्त्वाऽश्वं काञ्चनं गजम् ।

रत्नानि दिव्यवासांसि राङ्कवास्तरणानि च

॥३२॥

दासीदासानसङ्ख्यातान् पानान्यन्नं च नारिकम् ।

न करोत्यस्य वाक्यं यस्तस्य छेत्स्ये शिरो बलात्

॥३३॥

इत्युक्त्वा सर्वलोकेषु साम्बोऽन्तःपुरमाययौ

॥३४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते साम्बदुःशासनवर्णनं नाम सप्तविंशतीतमोऽध्यायः ॥ २७ ॥