बालचरिते शमीमन्दारप्रशंसानाम पचत्रिंशोऽध्यायः
क उवाच
ततस्तुष्टः पाशपाणिर्दृष्ट्वा क्लेशं तथा तयोः ।
आविरासीन्महातेजा दशबाहुर्विनायकः
॥१॥किरीटं कुण्डले मालामङ्गदे कटिसूत्रकम् ।
बिभ्रत् सर्पोपवीतं च सिंहारूढोऽग्निसन्निभः
॥२॥पश्यतः स्म परां मूर्तिं कोटिसूर्यसमप्रभाम् ।
तुष्टवतुरुभौ देवं नत्वा बद्धाञ्जली उभौ
॥३॥तावुचतुः ।
विश्वस्य बीजं परमस्य पाता नानाविधानन्दकरः स्वकानाम् ।
निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता
॥४॥परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयातिगोपी (हृदयेतिगुप्तः) ।
सर्वश्रुतीनां च न गोचरोऽसि नमाव इत्थं निजदैवतं त्वाम्
॥५॥न पद्मयोनिर्न हरो हरिश्च हरिः षडास्यो न सहस्रमूर्द्धा ।
मायाविनस्ते न विदुः स्वरूपं कथं न शक्यं परिनिश्चितुं तत्
॥६॥तवानुकम्पा महती यदा स्याद् विभुञ्जतः कर्म शुभाशुभं स्वम् ।
कायेन वाचा मनसा नमे त्वां जीवंश्च मुक्तो नर उच्यते सः
॥७॥त्वं भावतुष्टो विदधासि कामान् नानाविधाकारतयाऽखिलानाम् ।
संसृत्यकूपारविमुक्तिहेतुरतो विभुं त्वां शरणं प्रपद्ये
॥८॥गणेश उवाच
तुष्टोऽहं परया भक्त्या तपसा परमेण च ।
अनया परया स्तुत्या ब्राह्मणौ वृणुतं वरान्
॥९॥कुजन्मनाशकमिदं मम स्तोत्रं पठेत्तु यः ।
त्रिसन्ध्यं च त्रिवारं च सर्वान्कामानवाप्नुयात्
॥१०॥षण्मासाज्जायते विद्या लक्ष्मीर्नित्यजपादपि ।
पञ्चवारजपान्मर्त्य आयुरारोग्यमाप्नुयात्
॥११॥क उवाच
श्रुत्वा गणेशवाक्यं तावूचतुः परमादृतौ ।
औरवस्य सुतो देव शमिका नामतः शुभा
॥१२॥मन्दाराय सुता दत्ता वेदशास्त्रार्थदर्शिने ।
शौनकस्य च शिष्याय धौम्यपुत्राय धीमते
॥१३॥उभौ प्रहसितौ मोहाद् दृष्ट्वा मार्गे भ्रुशुण्डिनम् ।
स च मत्वा निजावज्ञां शशाप परया रुषा
॥१४॥तच्छापाद्वृक्षतां यातौ मन्दारः शमिकाऽपि सा ।
तयोश्च मातापितरौ शोचन्तौ भृशदुःखितौ
॥१५॥आवां च क्लेशितौ देव सर्वेषां नः प्रियं कुरु ।
एतयोः कुजतां दूरीकुरु शीघ्रं गजानन
॥१६॥गजानन उवाच
असम्भावि वरं दास्ये कथं विप्रौ कथं वृथा ।
करिष्ये भक्तवचनं तस्मात्तुष्टो ब्रुवे वरम्
॥१७॥अद्यप्रभृति मन्दारमूले स्थास्यामि निश्चलः ।
मृत्युलोके स्वर्गलोके मान्योऽयं च भविष्यति
॥१८॥मन्दारमूलैर्मे मूर्तिं कृत्वा यः पूजयेन्नरः ।
शमीपत्रैश्च दूर्वाभिस्त्रितयं दुर्लभं भुवि
॥१९॥यतः शमीमधिष्ठाय सर्वदाऽहं स्थिरो मुनी ।
अयमेव वरो दत्तो वृक्षयोरतिदुर्लभः
॥२०॥भवद्वाक्यानुरोधेन न भ्रुशुण्डीवचोऽन्यथा ।
दूर्वाभावेऽथ मन्दारो द्वयाभावे शमी मता
॥२१॥उभयो सा फलं दद्यानात्र कार्या विचारणा ।
नानायज्ञैर्न तत्पुण्यं नानातीर्थव्रतैरपि
॥२२॥दानैश्च नियमैश्चैव पुण्यं तत्प्राप्नुयान्नरः ।
यत्स्यान्मम शमीपत्रैः पूजनेन द्विजोत्तमौ
॥२३॥नाहं प्रीये धनकनकचयैर्नान्नदानैर्न वस्त्रैर्नानापुष्पैर्न च मणिगणैर्नैव मुक्ताफलैश्च ।
यद्वच्छम्या दलनिचयकृतैः पूजनैर्ब्राह्मणानां मन्दाराणां कुसुमनिचयैः सर्वकालं मुनीन्द्रौ
॥२४॥यः शमीं प्रातरुत्थाय पश्येद् वन्देच्च पूजयेत् ।
स सङ्कष्टं च रोगं च न विघ्नं न च बन्धनम्
॥२५॥प्राप्नोति मत्प्रसादेन दारान्पुत्रधनानि च ।
पशूनन्यांश्च कामांश्च मुक्तिमन्ते मदाश्रयाम्
॥२६॥इदमेव फलं प्रोक्तं मन्दारैरपि पूजने ।
मन्दारमूर्तिपूजाभिरहं गृहगतोऽभवम्
॥२७॥नालक्ष्मीर्न च विघ्नानि नापमृत्युर्न च ज्वरः ।
नाग्निचोरभयं तत्र कदाचिदपि जायते
॥२८॥वेदवेदाङ्गविद्विप्रः क्षत्रियो विजयी भवेत् ।
वैश्यस्तु वृद्धिप्राप्नोति शूद्रः सद्गतिमाप्नुयात्
॥२९॥क उवाच
एवमुक्त्वा स्थितो देवो मूले मन्दारके तदा ।
शमीमूलेऽपि तस्थौ स देवदेवो विनायकः
॥३०॥औरवोऽपि सपन्नीकस्तपस्तप्तुं स्थिरोऽभवत् ।
तस्य मूले तपस्तप्त्वा त्यक्त्वा देहं दिवं गतः
॥३१॥शमीगर्भगतो दुःखादौरवो दृढ्योगतः ।
शमीगर्भ इति ख्यातो जातोऽसौ हव्यभुक्ततः
॥३२॥अत एव शमीकाष्ठं मथ्नन्तीहाग्निहोत्रिणः ।
शौनकोऽपि वचः श्रुत्वा गजाननसमीरितम्
॥३३॥कृत्वा मन्दारमूलस्य मूर्तिं चारुगजाननीम् ।
मन्दारैश्च शमीपत्रैर्दूर्वाभिश्चार्चयन्मुदा
॥३४॥ददौ वरान् शौनकाय परितुष्टो गजाननः ।
ततः स्वमाश्रमं यातः सर्वदाऽपुपूजच्च तम्
॥३५॥गृत्समद उवाच
तदारभ्य शमी तस्य गणेशस्य प्रियाऽभवत् ।
इति ते सर्वमाख्यातं पुनश्च कथयामि ते
॥३६॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारप्रशंसानाम पचत्रिंशोऽध्यायः ॥ ३५ ॥