मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 69

3
क्रीडाखण्डः · 69

एकोनसप्ततितमोऽध्यायः

क उवाच

ततो देवान्तकोऽतीव विस्मितोऽतर्कयत् तदा ।

यथा यथा मया माया क्रियतेऽस्य निवृत्तये

॥१॥

तथा तथाऽप्ययं बालो दर्शयत्येव पौरुषम् ।

कदायं निधनं यायात् कदा स्वप्स्ये गतश्रमः

॥२॥

इत्येवं चिन्तयाविष्टो धनुः सज्यमथाकरोत् ।

अभिमन्त्र्य शरं घोरं विससर्ज विनायके

॥३॥

स सायको बाणवर्षमनन्तं कृतवान् विभौ ।

शक्तिं च निर्ममे घोरां त्रैलोक्यग्राससाहसाम्

॥४॥

ददर्श विघ्नराजस्तं तदङ्के दैत्यपुङ्गवम् ।

वर्षन्तं शरजालानि तीक्ष्णानि सुबहून्यपि

॥५॥

ततोऽष्टसिद्धयः शीघ्रमुड्डीय बलवत्तरम् ।

दध्रुस्तां सहसा शक्तिमानिन्युस्तां विनायकम्

॥६॥

आनीयमाना सा हस्तान्निःसृत्याऽथ पलायिता ।

रोषात् ताभिर्दैत्यपतिरानायि स कचग्रहात्

॥७॥

अणिमानं ततो दैत्यो जघान मुष्टिना दृढम् ।

मुष्टिघातं समासाद्य मूर्छिता निपपात ह

॥८॥

लघिमा गरिमा चाथ वशिमा तं महासुरम् ।

यावल्लत्ताप्रहारैस्तु निजघ्नुस्तावदेव हि

॥९॥

दैत्येन विधृताः वेगाच्चरणेषु पृथक्पृथक् ।

यावदास्फालयत् पृथ्व्यां निःसृतास्तावदेवताः

॥१०॥

प्राकाम्यं चैव भूतिश्च जघ्नतुस्तं ततो बलात् ।

पपात भूतले दैत्यो वमन्नग्निं मुखात्ततः

॥११॥

क्षणाल्लभ्य ततः संज्ञामारुरोह हयं दृढम् ।

शस्त्रपाणिर्वायुवेगो निजघान विनायकम्

॥१२॥

दृढासिघाताद् देवोऽथ किञ्चिन् मूर्च्छामवाप्तवान् ।

निमेषात्सावधानोऽभूदधावद् दैत्यनायकम्

॥१३॥

हिरण्यकशिपुं विष्णुर्यथा वृत्रं शचीपतिः ।

शरं च कमलं पाशमङ्कुशं च चतुःकरैः

॥१४॥

बिभ्राणः शुशुभे वीरश्रिया परमया ज्वलन् ।

गर्जित्वा घनवद् देवो जघान दैत्यपुङ्गवम्

॥१५॥

चतुर्भिरायुधैर्वेगान्न चचाल तथापि सः ।

आश्चर्यं परमं प्राप दृष्ट्वा शस्त्रं वृथागतम्

॥१६॥

वज्रात् सारतरं मेने दैत्यदैहं विनायकः ।

ततो देवो राक्षसस्य धूम्राक्ष्यस्य महायुधम्

॥१७॥

वज्रं सञ्चूर्णयन् सूर्यमण्डलादागतं तु यत् ।

तदादायाऽहनत्तेन दैत्यं तच्छतधाऽभवत्

॥१८॥

न रोमापि चचालाऽस्य तदप्याश्चर्यमुत्तमम् ।

ततो नानाशस्त्रघातैर्जघ्नतुस्तौ परस्परम्

॥१९॥

मस्तके पृष्ठभागे च हृदये बाहुमण्डले ।

तयोः शस्त्रविघातेन जातो वह्निर्वसुन्धराम्

॥२०॥

ददाह न च तौ भीतौ युद्धमेवान्वपद्यत ।

निशीथे तमसा व्याप्ते विरामं न समीयतुः

॥२१॥

ततः कृत्रिमदीप्त्या तौ परस्परमयुध्यताम् ।

ततो मायां रौद्रकेतुश्चक्रे सुरविमोहिनीम्

॥२२॥

अदितिं सुन्दरां कृत्वा दैत्यहस्ते न्यवेशयत् ।

पद्मनेत्रां पीनकुचां कुङ्कुमारक्तभालिकाम्

॥२३॥

मुक्तहारां सुवलयां दिव्यांशुकविराजिताम् ।

लावण्यलहरीं रुक्मविलसद्दिव्यकञ्चुकाम्

॥२४॥

विनायकं निरीक्ष्यैव रुरोद दैत्यहस्तगा ।

धाव धावेति तं प्राह त्रासिताऽहं किमीक्ष्यसे

॥२५॥

एवं ब्रुवत्या दैत्योऽस्याश्चिच्छेद कञ्चुकीं बलात् ।

अंशुकं च चकर्षांस्या मदेनाविष्टचेतसा

॥२६॥

उच्चैरुवाच देवं सा क्व गता पुरुषार्थता ।

लोकलज्जाभयान्मां त्वं निःस्नेहाशु विमोचय

॥२७॥

विनायको निरीक्ष्यैतां बाष्पकण्ठो रुषान्वितः ।

न सस्मार विचारं स शस्त्राणि जगलुः करात्

॥२८॥

शुशोच मम मातेयं कथमस्य करे गता ।

धिग्जन्म यस्य जननि गताऽवस्थां दुरत्ययाम्

॥२९॥

देवानां जननी चैव सम्प्राप्ता दृष्टसङ्गतिम् ।

काशिराजोऽपि तं दृष्ट्वा शोचन्तं गणनायकम्

॥३०॥

स्वयं शुशोच बहुधा लोकोऽपि नगरे स्थितः ।

ततो देवान्तको देवं जगर्हे बहुधा तदा

॥३१॥

धिग्जन्म पौरुषं तेऽद्य न प्राणं त्यजसे कथम् ।

निर्लज्जोऽसि मुखं लोके दर्शयस्येव योऽधुना

॥३२॥

त्वत्समीपं हनिष्येऽस्याः शिरः कायात्खलाधुना ।

क उवाच ।

इति तं निष्ठुरं वाक्यं श्रुत्वा देवो विनायकः

॥३३॥

तर्कयामास मनसि सत्यमेव वदत्ययम् ।

प्राणत्यागाय किं कार्यं विषं वा पाशबन्धनम्

॥३४॥

उदरे शस्त्रसङ्घातः कार्यो वा मृत्युहेतवे ।

इत्थं यावच्चिन्तयते दुःखशोकसमन्वितः

॥३५॥

तावदाकाशवाणीं स शुश्राव च विनायकः ।

सोवाच ।

मायेयं रचिता देव दैत्येन दुष्टबुद्धिना

॥३६॥

अवधेहि रणंयत्तो भूत्वा जहि निजं रिपुम् ।

ततः स सावधानोऽभूज्ज्ञात्वा मायामयीं तु ताम्

॥३७॥

जहर्ष च महाबुद्धिर्दैत्यं हन्तुं प्रचक्रमे ।

स्मृत्वा च तद्वरं शम्भुदत्तं तस्मै दुरात्मने

॥३८॥

उषःकालं विना सर्वशस्त्रास्त्राणि वृथा त्वयि ।

एवं तस्य वरं ज्ञात्वा प्रातर्युद्धाय निर्ययौ

॥३९॥

दैत्योऽपि पुरतोऽपश्यद् युद्धान्ते तं विनायकम् ।

आरक्तनयनं भ्राजन्मुकुटं कुण्डलोज्वलम्

॥४०॥

दन्तप्रकाशरुचिरं मुक्तादामविभूषितम् ।

दिव्याम्बरं सुधामानं व्योमस्पृक्पुष्करं विभुम्

॥४१॥

दृष्ट्वा देवान्तको रूपं बिभाय च विसस्मरे ।

अर्द्धं नरशरीरं किमर्द्धं गजसमं परम्

॥४२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे मायाप्रदर्शनं नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥