मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 143

3
क्रीडाखण्डः · 143

``बुद्धियोगो'' नाम षष्टोऽध्यायः

६ त्रिचत्वारिंशादधिकशततमोऽध्यायः ।

गजानन उवाच ।

ईदृशं विद्धि मे तत्त्वं मद्गतेनाऽन्तरात्मना ।

यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम्

॥१॥

तत्तेऽहं श‍ृणु वक्ष्यामि लोकानां हितकाम्यया ।

अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप

॥२॥

ज्ञेया मत्प्रकृतिः पूर्वं ततः स्याज्ज्ञानगोचरः ।

ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत्

॥३॥

क्वनलौ खमहङ्कारः कं चित्तं धीः समीरणः ।

रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम

॥४॥

अन्यां मत्प्रकृतिं वृद्धां मुनयः सङ्गिरन्ति च ।

तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयाऽनया

॥५॥

आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् ।

सङ्गाद्विश्वस्य सम्भूतिः परित्राणं लयोऽप्यहम्

॥६॥

तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि ।

वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा

॥७॥

साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च ।

मत्तोऽन्यन्नेक्षते किञ्चिन्मयि सर्वं च वीक्षते

॥८॥

क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु ।

प्रभारूपेण पुष्ण्यब्जे रसरूपेण चाप्सु च

॥९॥

धीरूपो बलिनां चाहं धीस्तपो बलमेव च ।

त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः

॥१०॥

न मां विन्दन्ति पापीयान् मायामोहितचेतसः ।

त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम्

॥११॥

यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् ।

अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः

॥१२॥

अन्ये नानाविधान् देवान्भजन्ते तान् व्रजन्ति ते ।

यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः

॥१३॥

तथा तथाऽस्य तं भावं पूरयाम्यहमेव तम् ।

अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते

॥१४॥

अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः ।

नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम्

॥१५॥

यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः ।

स यात्यपुनरावृतिं प्रसादान्मम भूभुज

॥१६॥

यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् ।

तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप

॥१७॥

अतश्चाहर्निशं भूप स्मर्त्तव्योऽनेकरूपवान् ।

सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा

॥१८॥

ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् ।

यो मामुपैत्यसन्दिग्धः पतनं तस्य न क्वचित्

॥१९॥

अनन्यशरणो यो मां भक्त्या भजति भूमिप ।

योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये

॥२२॥

द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा तथा नृप ।

एकया परमं ब्रह्म परया याति संसृतिम्

॥२१॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजानवरेण्यसंवादे ``बुद्धियोगो'' नाम षष्टोऽध्यायः

॥६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बुद्धियोगोनाम त्रिचत्वारिंशादधिकशततमोऽध्यायः ॥ १४३ ॥