बालचरिते पुरप्रवेशो नामसप्ततितमोऽध्यायः
क उवाच
एवं वदति यावत्स भयभ्रान्तः सुरान्तकः ।
तावद् देवो दधारैनमुत्सङ्गे लघुबालवत्
॥१॥कृत्वा पद्मासनं चारु गणेशः स्वप्रभावतः ।
उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभम्
॥२॥स दैत्यो रदनं चास्य धृत्वा हस्तद्वयेन ह ।
दोलयामास देहं स्वमन्तरिक्षे मुहूर्मुहुः
॥३॥यावत् पपात भूपृष्ठे भङ्क्त्वा दन्तं सुरान्तकः ।
तावद् दधार तं देवः स्वदन्तं लाघवाद् विभुः
॥४॥अहनत् तेन दन्तेन मस्तके तं सुरान्तकम् ।
जगर्ज च महारावैर्गर्जयन् विदिशो दिशः
॥५॥चालयन् पृथिवीं सर्वां पातालान्यखिलानि च ।
द्विजाघातेन शतधाऽकारि देहोऽस्य तत्क्षणात्
॥६॥असृग्वृष्टिः पपाताशु गगनान्मेघवृष्टिवत् ।
उत्पातं मेनिरे लोकाः सर्वे भूतलवासिनः
॥७॥दैत्यदेहगतं ज्योतिस्तं विवेश विनायकम् ।
पश्यतां सर्वदेवानां प्रधनालोकितं पुनः
॥८॥देहस्तु निपपाताऽस्य धरापृष्ठे त्रियोजनम् ।
चूर्णयन्वृक्षसङ्घातान् पर्वतान् पादपैर्युतान्
॥९॥एवं दृष्ट्वा गतिं तस्य सैनिकाश्च दिशो दश ।
याताश्च कतिचिन्नाशं प्राप्तास्तद्देहपाततः
॥१०॥मुमुचुः पुष्पवर्षं ते देवाः स्वस्थानमागताः ।
देवदुन्दुभयो नेदुर्नृपदुन्दुभिनिस्वनैः
॥११॥दिशश्च विमला आसन् ववुर्वाताः सुखावहा ।
तेजांसि वह्नेर्लोकानां प्रसन्नानि तदाऽभवन्
॥१२॥प्रतिकूलवहा नद्य आसन्सन्मार्गगास्तथा ।
ततः शक्रादयो देवा मुनयस्तं पुपूजिरे
॥१३॥तुष्टुवुः परया भक्त्या देवदेवं विनायकम् ।
विमोचिता वयं बन्धाद् देवान्तककृताद् विभो
॥१४॥उपेन्द्र इव देवेन्द्र कार्यं यस्मात्कृतं त्वया ।
उपेन्द्र इति नाम्ना त्वं ख्यातिं लोके गमिष्यसि
॥१५॥वयं स्वस्वाधिकारेषु निरातङ्का वसामहे ।
स्वाहास्वधावषट्कारा भविष्यन्ति गृहे गृहे
॥१६॥एवमुक्त्वा नमस्कृत्य देवं ते च प्रदक्षिणम् ।
अनुज्ञाता ययुः सर्वे स्वं स्वं स्थानं मुदान्विताः
॥१७॥मुनयश्च तदा देवैर्हृषीकेशेति नाम च ।
कृत्वा नत्वा ययुः स्वं स्वमाश्रमं हर्षनिर्भराः
॥१८॥ततः सर्वे धराधीशाः सम्पूज्य च प्रणम्य च ।
ऊचुविनायकं देवमुद्धृता धरणी त्वया
॥१९॥दैत्यभार भराक्रान्ता तस्मात् त्वं धरणीधरः ।
इत्युक्त्वा ते गताः स्वस्वपत्तनानि तदाज्ञया
॥२०॥ततः पश्चात् पश्चति स्म काशिराजो विनायकम् ।
सिंहारूढं बालरूपं क्रीडन्तं बालकैः सह
॥२१॥बालोऽपितं नृपं दृष्ट्वा लिलिङ्ग परमादरात् ।
उभावानन्दभरितौ मुञ्चतोऽश्रूणि नेत्रतः
॥२२॥तत ऊचे नृपो देवं महद् भाग्यं ममोदितम् ।
ब्रह्मादीनामगम्यं यत्परं ब्रह्म सनातनम्
॥२३॥तन्मे दृग्गोचरं नित्यं पूर्वपुण्यफलोदयात् ।
विश्वस्य कारणानां च कारणं तद्विवर्जितम्
॥२४॥वेदान्तवेद्यं सत् ज्योतिर्ज्योतिषामपि भास्वरम् ।
नानारूपमरूपं यद् बालरूपेण मे गृहे
॥२५॥क्रीडते स्वेच्छया पृथ्वी भारहारि मनोहरम् ।
क उवाच ।
एवं श्रुत्वा स्तुतिं तस्य प्रमृज्याश्रूणि विघ्नराट्
॥२६॥उवाच न क्षणं त्वत्तो यामि दूरं कदाचन ।
ततो राजा पुपूजैनमुपचारैरनेकशः
॥२७॥ततो वादित्रनिर्घोषैर्बन्दिशब्दैर्विमिश्रितैः ।
सुरान्तकवधाद्धर्षयुक्तैः सेनाचरैः सह
॥२८॥विनायकं बालरूपं स्तुवद्भि स्वपुरं ययौ ।
विसृज्य सर्वलोकाँश्च दत्त्वा वासांसि चैकशः
॥२९॥ताम्बुलानि च केषाञ्चित् पुरस्कृत्य विनायकम् ।
विवेश स्वगृहं रम्यं हर्षनिर्भरमानसः
॥३०॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते पुरप्रवेशो नामसप्ततितमोऽध्यायः ॥ ७० ॥