मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 127

3
क्रीडाखण्डः · 127

सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः

व्यास उवाच

चतुरानन देवेश गुणेशचरितं शुभम् ।

कथितं विस्तराद् देव नाहं तृप्तोऽस्मि तच्छ्रवात् ।

सुधया तु विरक्तः स्यान्न कथा श्रवणान्नरः ।

त्रेतायुगकथा सर्वा गुणेशस्य श्रुता मया

॥२॥

गजाननेति नामास्य द्वापपरे तु कुतोऽभवत् ।

मूषको वाहनं चास्य कथं यातो महाविभो

॥३॥

कृपया संशयममुं छिन्धि त्वं कमलासन ।

क उवाच ।

सम्यक्पृष्टं त्वया वत्स मम चित्तगतं मुने

॥४॥

यतः श्रोता च वक्ता च पृच्छकः सिद्धिमाप्नुयात् ।

तां कथा कथयिष्यामि विनायककृतां मुने

॥५॥

द्वापरे यत्कृतं तेन चरितं श‍ृणु साम्प्रतम् ।

यथा गजाननो देवो रक्तवर्णश्चतुर्भुजः

॥६॥

गजाननश्चाखुवाहस्तत्सर्वं कथयामि ते ।

कदाचिद्ब्रह्मभुवनं यातः शम्भुर्यदृच्छया

॥७॥

उत्थापयामास तदा प्रसुप्तं कमलासनम् ।

स उत्थितो महाजृम्भां चकार क्रोधसंयुतः

॥८॥

तत एको महाघोरः पुरुषः समपद्यत ।

स च चक्रे महाघोरं शब्दं सर्वभयङ्करम्

॥९॥

च कम्पे पृथिवी तेन साब्धिद्वीपा सपर्वता ।

दिक्पालाश्चकिताः सर्वे शेषः क्षुब्धोऽसृजद् विषम्

॥१०॥

विशीर्णा गिरयः सर्वे भूतान्याकुलतां ययुः ।

कल्पान्त इव तत्रासीत् त्रैलोक्यवासिनां नृणाम्

॥११॥

ब्रह्माण्डं मस्तकेनासौ स्फोटयन्निव तस्थिवान् ।

यद्देहतश्चारुगन्धो व्यानशे भुवनत्रयम्

॥१२॥

जपाकुसुमदेहस्य प्रभयारुणिता दिशः ।

अयं किं मदनो जातो द्वितीयो ब्रह्मसम्भवः

॥१३॥

कामस्तु लज्जितस्तस्य सद्यो रूपनिरीक्षणात् ।

पुरस्तं सन्निरीक्ष्यैनं विस्मितः कमलासनः

॥१४॥

कस्य त्वं कुत उत्पन्नः किं चिकीर्षसि तद्वद ।

पुरुष उवाच ।

अनेकानि सुरेश त्वं ब्रह्माण्डानि सृजस्यपि

॥१५॥

विभ्रान्त इव कस्मान्मां सर्वज्ञः सन् हि पृच्छसि ।

जृम्भायास्ते समुत्पन्नं कथं मां नावबुध्यसे

॥१६॥

अनुगृह्णिष्व पुत्रं मा देहि नाम यथामति ।

स्थानं च देहि मे नाथ भक्ष्यं कार्यं च मे वद

॥१७॥

इत्याकर्ण्य वचस्तस्य प्रोवाच चतुराननः ।

रक्तं वपुर्यतस्तेऽस्ति सिन्दुराख्यो भविष्यसि

॥१८॥

सामर्थ्यं च महत् ते स्यात् त्रैलोक्याकर्षणक्षमम् ।

क्रोधादालिङ्गसे यं त्वं शतधा स भविष्यति

॥१९॥

पञ्चभ्योऽपि च भूतेऽभ्यो न भयं ते कदाचन ।

देवदानवयक्षेभ्यो मानुषेभ्यो भयं न ते

॥२०॥

इन्द्रादिलोकपालेभ्यः कालादपि भयं न ते ।

न नागेभ्यो न रक्षोभ्यो नाहोरात्रे भयं न ते

॥२१॥

सजीवान्न च निर्जीवाद् भयं सिन्दूर ते भवेत् ।

वस यत्र मनस्ते स्यात् स्थातुं त्रिभुवनेष्वपि

॥२२॥

ततः स वरदानेन तुतोष चतुरास्यजः ।

चक्रन्द कम्पयन् शब्दैस्त्रैलोक्यं सचराचरम्

॥२३॥

चुक्षुभुः सागराः सर्वे लोकपालाश्च दुद्रुवुः ।

उवाच स तदा देवं नमस्कृत्य पितामहम्

॥२४॥

सिन्दूर उवाच

तव वाक्यामृतेनाहं प्रीतो ब्रह्माण्डनायक ।

त्वमेव विश्वं सृजसि पासि हंसि गुणैस्त्रिधा

॥२५॥

त्वयि सुप्ते जगत्सुप्तमन्धकारश्च जायते ।

महत्भाग्यं मम विभो तपोदानव्रतैर्विना

॥२६॥

पुत्रस्नेहात्प्रसन्नस्त्वं नान्यथा ते प्रसन्नता ।

कल्पकोटिततोभिस्त्वं प्रसन्नो जायसे विभो

॥२७॥

क उवाच

इत्युक्त्वा तं प्रणम्यासौ कृत्वापि च प्रदक्षिणम् ।

जगाम मनसा भूमिं मार्गे तर्कमथाकरोत्

॥२८॥

न मे तपो वा ध्यानं वा जपः स्वाध्याय एव च ।

कथं तेन वरा दत्ताः सत्या उत वृथा नु ते

॥२९॥

(मिथ्या उत ऋता नु ते) गत्वा द्रक्ष्यामि पितरमित्युक्त्वाऽगात् पितामहम् ।

तुलयित्वा तु दोर्दण्डौ जगर्ज स भयानकः

॥३०॥

तमेवालिगितुं चैच्छत् तत ऊचे पितामहः ।

पुत्रस्नेहान्मया दत्ता वरा अन्यस्य दुर्लभाः

॥३१॥

दुष्टभावान्ममैव त्वमपकर्तुमिहागतः

॥३२॥

भुजगस्य पयो दत्तं विषमेव हि जायते ।

दुष्टभावं गतो यस्मात् तस्माद्दैत्यो भविष्यसि

॥३३॥

परमात्माऽवतीर्याशु हनिष्यति गजाननः ।

तवान्तं सुरभि ज्ञात्वा स्वाङ्गे तन्मर्दयिष्यति

॥३४॥

सिन्दूरारुणदेहश्च सिन्दूरप्रिय एव च ।

भविष्यति स देवोऽपि सिन्दूरवध एव च

॥३५॥

एवमुक्त्वा पपालाशु भयेन कमलासनः ।

मनोवायुमहावेगो निश्वासश्वाससङ्कुलः

॥३६॥

दैत्योऽपि पृष्ठतो याति शापमाकर्ण्य मन्युमान् ।

स्वेदेनार्द्रतनुर्दुष्टो दृष्ट्वा दृष्ट्वा पुरो व्रजन्

॥३७॥

धरिष्यामि पदेऽन्यस्मिन्निति दैत्योऽभ्यधावत ।

वैकुण्ठमगमद् ब्रह्मा कम्पमानस्त्वरान्वितः

॥३८॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्दूरोत्पत्तिवर्णनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥