मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 31

3
क्रीडाखण्डः · 31

बालचरिते एकत्रिंशोऽध्यायः

क उवाच

वेदाँश्च चतुरः साङ्गानध्यापयत तं मुनिः ।

एकस्मिन् दिवसे तातं वामनः पर्यपृच्छत

॥१॥

केनोपायेन देवानां पदप्राप्तिर्भविष्यति ।

भूभारहरणं तन्मे यथावद्वक्तुमर्हसि

॥२॥

कश्यप उवाच

उपदेशं करिष्यामि मन्त्रस्य सिद्धिदस्य ते ।

षडक्षरस्य विघ्नेशतोषकस्य ममात्मज

॥३॥

तस्मिन्प्रसन्ने विघ्नेशे जगत्स्थित्यन्तकारिणि ।

अनेकब्रह्माण्डविधौ सर्वकारणकारणे

॥४॥

सर्वे कामाः प्रसिध्यन्ति तदर्थे यत्नमाचर ।

क उवाच ।

एवमुक्त्वा ददौ तस्मै सुमुहुर्ते महामनुम्

॥५॥

तदैव चलितस्तस्मादाश्रमाद्धर्षसंयुतः ।

प्रणम्य तमनुज्ञाप्य जगाम तपसे शिशुः

॥६॥

भ्रमता ददृशे तेन विदर्भे स्थानमुत्तमम् ।

लतावृक्षसमाकीर्णं कासारपरिशोभितम्

॥७॥

तत्र पद्मासनं कृत्वा जजाप तं मनुं शुभम् ।

षडक्षरं वर्षमात्रं निराहारो जितेन्द्रियः

॥८॥

निर्वाणं तस्य तज्ज्ञात्वाऽऽविरासीत् सिद्धिबुद्धियुक्

॥९॥

मयूरवाहनो देवः शुण्डादण्डविराजितः ।

विलसद्दशदोर्दण्डो रत्नमाला विभूषितः

॥१०॥

आशीविषलसन्नाभिर्नानालङ्कारशोभितः ।

आगतो दृढभक्तं तं धेनुर्वत्समिवादरात्

॥११॥

वामनस्तं पुरो दृष्ट्वा सर्वतेजोऽभिभाविनम् ।

सर्वसिद्धिकरं देवं सर्वविघ्ननिवारणम्

॥१२॥

नुनाव परया भक्त्या देवदेवं गजाननम्

॥१३॥

वामन उवाच

अव्यक्तं व्यक्तहेतुं निगमनुततनुं सर्वदेवाधिदेवं ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् ।

मायातीतं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं सर्वेशं सर्वरूपं सकलभयहरं कामदं कान्तरूपम्

॥१४॥

तं वन्दे विघ्नराजं विधिहरमुनिभिः सेव्यमानं सनागैस्तेजोराशि त्रिसत्यं त्रिगुणविरहितं तत्त्वमस्यादिबोध्यम् ।

भक्तेच्छोपात्तदेहं निजजनसुखदं तत्त्वबुद्धि प्रकाशं साम्बाद्यैः स्तूयमानं सकलतनुगतं भुक्तिमुक्तिप्रदं तम्

॥१५॥

क उवाच

इति स्तुतो देवदेवः प्रसन्नः प्राह वामनम् ।

वरं वरय तुष्टोऽयं यत्ते मनसि वर्तते

॥१६॥

स्तोत्रेण तपसा चैव परितुष्टो ददामि तत् ।

वामन उवाच ।

न ते स्वरूपं विदुरब्जजाद्या ब्रह्मर्षयो ये सनकादिकाद्याः ।

दृष्टोऽसि स त्वं जगतामधीश त्वत्तः कमन्यं वरमद्य याचे

॥१७॥

अथापि ते वाक्यभिदाभयात् वा याचे वरं तं मम नाथ देहि ।

पराजयो मे न भवेत् कदापि कार्येऽखिले विघ्नभयं न च स्यात्

॥१८॥

उद्यतोऽस्ति बलिः शक्रपदमत्तुं क्रतोर्बलात् ।

स च मां शरणं यातस्तस्य सिद्धिर्यथा भवेत्

॥१९॥

तथा कुरु जगत्कर्तर्यदि तुष्टोऽसि मेऽनघ ।

गजानन उवाच ।

एतत्ते भविता सर्वं स्मरणान् मम सुव्रत

॥२०॥

सेत्स्यन्ति सर्वकार्याणि महान्ति च लघूनि च ।

क उवाच ।

एवमुक्त्वा गते देवे वामनोऽकारयच्छुभाम् ।

काश्मीरोपलजां सोऽथऽस्थापयन्मूर्तिमुत्तमाम्

॥२१॥

चतुर्भुजां त्रिनयनां शुण्डादण्डविराजिताम् ।

प्रसन्नकरिहस्तेन भक्तानामभयप्रदाम्

॥२२॥

स्मरणाद्दर्शनाद्ध्यानात्पूजनात्सर्वकामदाम् ।

प्रासादं कारयामास रत्नकाञ्चननिर्मितम्

॥२३॥

तत्रैकं ब्राह्मणं स्थाप्य ग्रामं दत्वा धनानि च ।

त्रिकालं पूजनै तस्य कारयामास तेन सः

॥२४॥

आगतः स्वगृहं नत्वा पितरं सर्वमब्रवीत् ।

तपश्च तत्फलं चाथ यज्ञं गन्तुमपृच्छत

॥२५॥

कश्यपेनाऽभ्यनुज्ञातो वामनो दर्भदण्डभृत् ।

सूत्रकृष्णाजिनधरो मेखली यज्ञमाययौ

॥२६॥

ह्रस्वाकृतिं मुनिं दृष्ट्वा मुनयो विस्मितास्तदा ।

नायं मुनिर्यतस्तेजो दृश्यते परमाद्भुतम्

॥२७॥

तं दृष्ट्वा परमायान्तं बलिरुत्थाय सत्वरम् ।

कोऽसि त्वमिति पप्रच्छ नत्वा तं कुत आगतः

॥२८॥

किं वाञ्छसि वद विभो पिता माता च कौ तव ।

वसतिस्तव कुत्रास्ति तत ऊचे स वामनः

॥२९॥

न स्मरे पितरौ राजन्ननाथं विद्धि मां कृशम् ।

त्रैलोक्ये वसतिर्मेऽस्ति याचे भूमिं त्रिभिः पदैः

॥३०॥

मितां कर्तुं पर्णकुटीं शक्तिश्चेदस्ति दीयताम् ।

क उवाच ।

इति वाक्यं मुनेः श्रुत्वा हृदि ज्ञात्वा कृपायुतम्

॥३१॥

तं दातुमुद्यतं भूमिमूचे काव्यो बलिं तदा ।

शुक्र उवाच ।

न ब्राह्मणो हरिरयं कपटं रूपमास्थितः

॥३२॥

हरिष्यति त्रिभुवनं पदत्रयमिषेण तु ।

मा दीयतामस्य किञ्चिदिति सत्यं ब्रवीमि ते

॥३३॥

तमुवाच महादैत्यो मूढ किं वदसे वचः ।

हरिश्चेद् विमुखो गच्छेत् सर्वं मे सुकृतं नयेत्

॥३४॥

अस्मात् पात्रं किमन्यत् स्यादस्मै दत्तमनन्तकम् ।

इत्युक्त्वा तं पुनः प्राह वामनं दैत्यपुङ्गवः

॥३५॥

ब्रह्मन् दत्ता मया भूमिः सङ्कल्पः क्रियतामिति ।

वामनः प्राह राजानं सङ्कल्पयितुमुद्यतम्

॥३६॥

तावद्धारां निरुध्यैव स्थितः शक्रोऽन्यदेहतः ।

ददौ शलाकां तत्पात्रे भग्ननेत्रो बहिर्गतः

॥३७॥

ततः पाणितले तस्य वामनस्य जलं ददौ ।

स्मृत्वा गणेशं ववृधे वामनो हर्षनिर्भरः

॥३८॥

मूर्ध्नाक्रम्य स्वर्गलोकमेकपादेन रोदसी ।

पातालान्यपरेणापि दत्तं तन्मस्तकेऽपरम्

॥३९॥

तत ऊचे बलिं देवो गच्छ त्वं धरणीतलम् ।

त्वां विनाऽहं कथं यामीत्येवमाह बलिस्तु तम्

॥४०॥

इत्याकर्ण्य वचस्तस्य पुनस्तं प्राह वामनः ।

सान्निध्यं मम तत्रापि भविता त्वदनुग्रहात्

॥४१॥

इन्द्रो मां शरणं यातः प्रियं कार्यं हि तस्य मे ।

तवापि मम भक्तस्य प्रियं पश्चाद् भविष्यति

॥४२॥

ऐन्द्रे पदे निवृत्तेऽस्य पदं दास्ये तवैव तत् ।

ततो ब्रह्मादयो देवास्तुष्टुवुर्वामनं विभुम्

॥४३॥

मुमुचुः पुष्पवर्षाणि वाद्यानि ववदुः सुराः ।

पुपूजुस्तेऽपि सर्वे च जगुश्च ननृतुः परे

॥४४॥

ततश्चान्तर्दधे देवो वामनोऽनन्तविक्रमः ।

स्वं स्वं स्थानं गता देवा यथापूर्वं मुदान्विताः

॥४५॥

क उवाच

एवं तेन कृता मूर्तिविख्याताऽभूज्जगत्रये ।

गजाननस्य देवस्य सर्वेषां कामदा नृणाम्

॥४६॥

इत्येतत् कथितं सर्व प्रसङ्गाद् बलिचेष्टितम् ।

लाघवं वामनस्यापि महिमा सुमुखस्य ह

॥४७॥

अदोषाख्ये पुरे तेन स्थापितस्य महात्मना ।

दशबाहोः प्रसिद्धस्य देवदक्षिणभागतः

॥४८॥

प्रियत्वं तस्य शम्यास्ते कथयिष्येऽधुना स्फुटम्

॥४९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते वामनविक्रमोनामैकत्रिंशोऽध्यायः ॥ ३१ ॥