मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 94

3
क्रीडाखण्डः · 94

चतुर्नवतितमोऽध्यायः

क उवाच

ततो मुनिसुता याताः प्रतीक्षन्तः स्थिताश्च ये ।

तेषां जयरवैर्व्योम गर्जितं च दिगन्तरम्

॥१॥

चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः ।

एवं रमत्सु बालेषु सार्द्धयामे दिवाकरे

॥२॥

पितरौ तानदृष्ट्वैव ग्राममध्ये क्वचिद्गृहे ।

प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति

॥३॥

रमन्तो विविधाः क्रीडा मध्ये कृत्वा गुणेश्वरम् ।

नृत्यन्तं नर्तयन्तं च तं च ते निरभर्त्सयन्

॥४॥

पितर ऊचुः

त्वया विना नो बालाश्च नाचरन् स्नानभोजने ।

आचाराध्ययने चापि ब्राह्मण्यं विनयं तथा

॥५॥

ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्यतम् ।

एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः

॥६॥

कथयामो यदि शिवौ तावस्य किं करिष्यतः ।

अनेके निहता दैत्या बालेनैव महाबलाः

॥७॥

वयं देशान्तरं यामो भीत्या तव गुणेश्वर ।

क उवाच ।

एवं वदत्सु लोकेषु पिदधे स गुणेश्वरः ।

आविरासीद् दूरदेशे ततो बाला व्यलोकयन्

॥८॥

धावयित्वा पितॄंस्त्यक्त्वा गुणेशं ते ययुः पुनः ।

क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममुत्तमम्

॥९॥

ध्यानस्थं तं मुनिं वीक्ष्य पचन्ती तत्स्रियं च ते ।

गुणेशोऽगान्मध्यदेशं जग्राहौदनपात्रकम्

॥१०॥

ददौ तेभ्यो विभज्यान्नं प्रार्थयामास सादरम्

॥११॥

मत्सङ्गेन चिरङ्कालं यूयं सर्वे बुभुक्षिताः ।

सावकाशं प्रभुञ्जध्वं ततः क्रीडामहे पुनः

॥१२॥

अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान्कथम् ।

न कृतो वैश्वदेवो वा नैवेद्यं चपलार्भकाः

॥१३॥

विसृज्य ध्यानं किं कुर्याद् गौतमो मुनिसत्तमः ।

उत्थापयामास तदा ध्यानस्थं मुनिसत्तमम्

॥१४॥

स उत्थाय ददर्शाऽथ गौतमः सकलार्भकान् ।

जक्षतोऽन्नं क्षुधा युक्तान् बभाषे च गुणेश्वरम्

॥१५॥

गौतम उवाच

महतोः पुत्रतां प्राप्य कथमन्यायकृद् भवान् ।

अत्यद्भुतानि कर्माणि श्रुत्वा ते त्वां वयं पुरा

॥१६॥

परात्परतरं देवं परब्रह्मस्वरूपिणम् ।

मन्यामहे बालभावं कुरुषे त्वं गुणेश्वर

॥१७॥

क उवाच

धृत्वा करं स च मुनिः पावत्या गृहमागमत् ।

करे धृत्वाऽन्नसहितं तत्पात्रं निजमन्दिरात्

॥१८॥

उवाच मातस्ते बालो नित्यमन्यायकृन्मम ।

अद्य त्वां कथितुं यातः किं कार्यं गौर्यतः परम्

॥१९॥

इतो वा गमनं दूरे मन्यसे यदि तद्वद ।

क उवाच ।

ततो रुषो समायुक्ता श्रुत्वा वाक्यं मुनीरितम्

॥२०॥

ताडयामास यष्टया तं वमन्ती नेत्रतोऽनलम् ।

उवाच च मुनिं गौरी प्रणता क्रोधसंयुता

॥२१॥

ममापि च मुने त्रासो जायतो जन्मतोऽस्य ह ।

द्रष्टव्या राक्षसकृताः कियन्तो विघ्नसञ्चयाः

॥२२॥

स्त्रियः प्रवक्तुं कुत्रापि नायान्ति मुनिपुङ्गवाः ।

अयं तु सर्वतो दुष्टो मुनिपुत्रविभेदकः

॥२३॥

ममात्मज इति जनो नैनं शापं प्रयच्छति ।

बद्ध्वैनं हस्तपादेषु तत्समक्षं शिवा सुतम्

॥२४॥

गृहमध्ये तु संस्थाप्य तद्गृहं पिदधे दृढम् ।

मैवं मैवं वदन्यातो गौतमः स्वाश्रमं प्रति

॥२५॥

ततस्ते बालकाः सर्वे शोचन्तस्तं गुणेश्वरम् ।

कथं नो दर्शनं चास्य भविष्यति कदा नु वा

॥२६॥

द्वार दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया ।

एवं तेषु वदत्सेव तन्मध्ये स ययौ क्षणात्

॥२७॥

जनन्याः कटिदेशेऽपि दृश्यते तद्गृहोऽपि च ।

ऊचुस्तां गौरि पुत्रस्ते निःसृतो गृहमध्यतः

॥२८॥

पश्यति स्म गेहमध्ये बद्धमेव गुणेश्वरम् ।

बहिस्तान मुनिपुत्रान् सा तत्स्वरूपानपश्यत

॥२९॥

यं कञ्चित्स्तनपानाय जुहाव विव्हला शिवा ।

निषिद्धा सा सुतैस्तैस्तु गृहमध्ये शिवे स्थितः

॥३०॥

उद्घाट्य द्वारं सा बालं मुक्त्वा स्तन्यं ददौ मुदा ।

गौतमः स्वाश्रमं यातो देवतार्चनमारभत्

॥३१॥

गुणेशरूपान्सोऽपश्यत् तृप्तान्देवांस्तथाऽखिलान् ।

पुरः प्रकीर्णमन्नं च ततो विस्मितमानसः

॥३२॥

चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया ।

उमायै कथितं सर्वमन्नपात्रं प्रदर्शितम्

॥३३॥

तया स ताडितो बद्धोऽव्यक्तो व्यक्तस्य कारणम् ।

परात्परतरो देवो यस्मिंस्तृप्ते महाफलम्

॥३४॥

आगत्य बुभुजे बालैः सार्द्धन्तु मुनिसम्भवैः ॥

मोहितो मायया चास्यऽपूर्वज्ञासिषं न तम्

॥३५॥

क उवाच

अहल्यापि पुनः पाकं चकाराद्भुतमानसा ।

सोऽपि ध्यानस्थितो भूत्वा नित्यकर्म समापयत्

॥३६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे गौतमभोजनहरणं नाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥