मुनिविसर्जनं नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः
क उवाच
एवं पूजां सम्प्रगृह्य तत्रैव न्यवसद्विभुः ।
भक्तानां पूरयन्कामान्सदने राजपूजिते
॥१॥मुनिरुवाच
विनायकस्य माहात्म्ये कथा भिन्ना निरूपिताः ।
अवतीर्य वरेण्यस्य गृहे विघ्नासुरो हतः
॥२॥गजासुरमुखप्राप्तिर्वर्णिता चतुरानन ।
अत्रैव पार्वती गर्भादाविर्भावो निरूपितः
॥३॥गजाननतया देव संशयोऽतो ममाभवत् ।
त्वदन्यः संशयेच्छेत्ता नास्त्येव भुवनत्रये
॥४॥क उवाच
न कार्यः संशयो व्यास नानाशक्तियुते विभौ ।
निजेच्छावशतोऽनेकरूपकः कल्पभेदतः
॥५॥शम्भुवक्त्राच्च क्रोधाच्च प्रादुर्भूतो गजाननः ।
गौर्याश्च तेजसो जात उदराच्च क्वचिन्मुने
॥६॥क्वचिद् गौरीमलाच्चापि द्विमुखो द्विकरः क्वचित् ।
क्वचित् पञ्चमुखः क्वापि षण्मुखो दशबाहुकः
॥७॥क्वचिद् द्वादशहस्तश्च सहस्रभुजमण्डितः ।
आगमेषु समस्तेषु नानाध्यानानि सन्ति हि
॥८॥न चात्र संशयः कार्यो विस्मयो वा मुने प्रभौ ।
शिवाद्ब्रह्मा च विष्णुश्च लैङ्गे जातौ निरूपितौ
॥९॥स्कन्दे विधातुर्नेत्राच्च शिवोत्पत्तिर्निरूपिता ।
विष्णुः शिवं ध्यायति च शिवोऽपि विष्णुमेव च
॥१०॥पञ्चाक्षरं समन्त्रं च तारकं वदति प्रभुः ।
शतकोटिमितं रामचरितं च त्रिधाकृतम्
॥११॥मर्त्यलोके तारकं स स्थापयामास शङ्करः ।
क्वचिच्छिवात् सृष्टिरुक्ता ब्रह्मणश्च क्वचिद्धरेः
॥१२॥भगवत्याः क्वचित्प्रोक्ता क्वचित् सूर्याद्गजाननात् ।
क्वचिच्च ब्राह्मणः प्रोक्ता सर्वं तच्छास्त्रसम्मतम्
॥१३॥संशय कुरूते यस्तु स याति नरकं ध्रुवम् ।
क उवाच ।
एवं त्रेतायुगकथा प्रोक्ता सर्वा मुने तव
॥१४॥इदानीमभिधास्यानि कथां कलियुगाश्रिताम् ।
कलिप्रान्ते मुने लोका भ्रष्टाचारास्तथानृताः
॥१५॥ब्राह्मणा वेदरहिताः स्नानसन्ध्याविवर्जिताः ।
यजनं याजनं दानं न करिष्यन्ति कर्हिचित्
॥१६॥प्रतिग्रहं च दुष्टानां करिष्यन्ति सुदुर्लभम् ।
परापवादं तन्निन्दां परस्रीधर्षणं तथा
॥१७॥करिष्यन्ति जनाः सर्वे विधिलोपं च सर्वशः ।
विश्वासघातं सर्वत्र कुर्वन्ति च जना ध्रुवम्
॥१८॥विधिलोपे च शपथं करिष्यन्ति धरातले ।
न करिष्यन्ति मेघाश्च वृष्टिं क्वापि मुनीश्वर
॥१९॥महानदीतीरदेशे करिष्यन्ति कृषिं जनाः ।
यो बलि सोप्यबलिनो हरिष्यन्ति धनं बलात्
॥२०॥हरिष्यतस्ततो द्वौ च त्रयस्ताभ्यां बलात् पुनः ।
शुद्रा वेदं पठिष्यन्ति ब्राह्मणाः शूद्रकर्मिणः
॥२१॥क्षत्रियावैश्यकर्माणो वैश्याश्च शूद्रकर्मिणः ।
प्रतिग्रहं करिष्यन्ति चाण्डालस्य द्विजातयः
॥२२॥दरिद्राश्च भविष्यन्ति हाहाभूता विचेतसः ।
वदिष्यन्ति च न मया गृहीतं धनमण्वपि
॥२३॥गृहीत्वापि च कृत्याय याचितारो धनं परात् ।
उत्कोचं च गृहीत्वैव वृथा साक्ष्यं ब्रुवन्ति च
॥२४॥सतां निन्दा करिष्यन्ति मैत्री चासद्भिरेव च ।
वृथा मांसस्य भक्ष्यं च करिष्यन्ति द्विजातयः
॥२५॥उच्छेदः सज्जनानां स्यादितरेषां च वैभवम् ।
हित्वा देवान् भविष्यन्ति जनाः सर्वे तथैन्द्रियाः
॥२६॥भूतप्रेतपिशाचानां भजने सक्तमानसाः ।
वेषान्नानाविधान् कृत्वा भक्षयिष्यन्ति वाडवाः
॥२७॥केचिच्च क्षत्रिया भिक्षां चरिष्यन्त्यकुलोचिताम् ।
व्रतानि नियमांश्चापि नाचरिष्यन्ति कर्हिचित्
॥२८॥वर्णसङ्करकारीणि कर्ता कर्माणि भूजनः ।
पतिवव्रता भ्रष्टव्रता भविष्यन्ति कलौ युगे
॥२९॥म्लेच्छप्रायाः सर्वलोकाः परद्रव्यापहारिणः ।
निर्दयाः कुपथासक्ताः सर्वदा सत्यवर्जिताः
॥३०॥धरित्री सस्यहीना च रसहीना महीरुहाः ।
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्यां प्रसूयते
॥३१॥षोडशाब्दपरं चायुर्भविष्यति तदा युगे ।
तीर्थानि गुप्तरूपाणि देवतायतनानि च
॥३२॥एवं पापे प्रवृद्धे तु धर्मो विश्वार्थमात्रकः ।
भविष्यन्ति तदा देवा उपवासपरायणाः
॥३३॥स्वधास्वाहावषट्कारैर्वर्जिता भयविव्हलाः ।
यास्यन्ति शरणं देवं गजाननमनामयम्
॥३४॥स्तुतिं नानाविधां तस्य करिष्यन्ति नतिं बहु ।
प्रार्थयिष्यन्ति देवेशं सर्वविघ्नविनाशनम्
॥३५॥एवं सर्वं विचार्यासौ आविर्भावं करिष्यति ।
गजाननः शूर्पकर्णो धूम्रवर्णोऽपि नामतः
॥३६॥नीलमश्वं समारुह्य खड्गहस्तो रुषा ज्वलन् ।
कल्पयिष्यति सेनां स नानारूपां निजेच्छया
॥३७॥शस्त्राणि च महास्राणि कल्पयिष्यत्ययत्नतः ।
वधिष्यति महाम्लेछान् सेनया स्वेन तेजसा
॥३८॥म्लेच्छभूतांस्तथा लोकान् वधिष्यति तदाऽखिलान् ।
लीलान्कन्दरदेशेषु ब्राह्मणान् वन्यभक्षिणः
॥३९॥समानाय्य प्रपूज्यैतान्भूमिं दास्यति देवराट् ।
सत्कर्मकारिणः सर्वान् विधास्यति च सज्जनान्
॥४०॥तदा धर्ममयं विश्वं भविष्यति कृते युगे ।
एवं कृत्वा धूम्रवर्णस्ततोऽन्तर्द्धानमेष्यति
॥४१॥एवं चतुर्युगे व्यास विघ्नेशस्य महात्मनः ।
कथितानि च नामानि रूपाणि च तवानघ
॥४२॥कर्माण्यद्भुतरूपाणि तस्य चोक्तानि सर्वशः ।
येषां श्रवणमात्रेण मुच्यन्ते सर्वजन्तवः
॥४३॥अनन्यस्याणि रूपाणि न वक्तुं शक्तिरस्ति मे ।
यत्र वेदाश्च चत्वारो विकुण्ठास्तत्र का कथा
॥४४॥मम वा मद्विधस्यापि महिम्नस्तस्य वर्णने ।
अनुष्ठानाय गच्छ त्वं व्यवसायं करोम्यहम्
॥४५॥भृगुरुवाच
एवं श्रुत्वा सोमकान्त व्यासो ब्रह्ममुखात् कथाम् ।
अतिप्रीतमनाः प्राह सर्वपापप्रणाशिनीम्
॥४६॥मुनिरुवाच
न तृप्तिमधिगच्छामि श्रुत्वाख्यानं महाद्भुतम् ।
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वया सर्वसंशयाः
॥४७॥दूरीकृताः कथासङ्गाद् गणेशचरिताश्रयात् ।
अमृतस्येव मे तृप्तिः श्रुत्वा श्रुत्वा न जायते
॥४८॥अस्य श्रवणमात्रेण जन्मजन्मान्तरार्जितम् ।
वृजिनं नाशमायाति सर्वे कामा भवन्ति च
॥४९॥पूर्वपुण्यबलादस्य श्रवणं जायते नृणाम् ।
न श्राव्यं दुर्जनायेदं पुराणं सर्वसिद्धिदम्
॥५०॥एवमुक्त्वा नमस्कृत्य परिक्रम्य स्वयं भुवम् ।
गृहीत्वाज्ञां ययौ व्यासस्तपसे वनमुत्तमम्
॥५१॥यत्र कन्दफलान्यासन्नुत्तमानि जलानि च ।
न वायुः प्रबलो यत्र नातपो नाग्निरेव च
॥५२॥तत्रापविष्टैकनिष्ठो जपन्नैकाक्षरं मनुम् ।
व्यतीयुर्द्वादशाब्दानि मुनेस्तस्य तपस्यतः ।
ततः प्रादुरभूत्तस्य पुरतस्तु गजाननः
॥५३॥इति श्रीगणेशपुराणे क्रीडाखण्डे कलिदोषनिरूपण-मुनिविसर्जनं नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥