सोमकान्तविमानप्राप्ति वर्णनं नाम एकपञ्चाशदधिकशततमोऽध्यायः
सूत उवाच
एवं श्रुत्वा कथां नित्यं सोमकान्तो मुनीश्वरात् ।
शुष्काम्रमूले तत्पुण्यं न्यक्षिपज्जलतो नृपः
॥१॥गते संवत्सरे चूतः पल्लवैः कुसुमैः फलैः ।
शुशुभेऽतीवरुचिरः पुराणश्रुतिपुण्यतः
॥२॥सोमकान्तो दिव्यकान्तिस्त्यक्त्वा कुष्ठभवां रुजम् ।
अक्षतश्चाभवत् पूतिगन्धं त्यक्त्वा सुगन्धवान्
॥३॥निःखेदः सुरभेर्गन्धाद् दशदिक्षु प्रसारिणः ।
दिव्यदेहं सूर्यकान्तिं कोटिचन्द्रनिभं नृपम्
॥४॥दृष्ट्वा विसिस्मिरे लोकाः कथमीदृक् च तादृशः ॥
गणेशाख्यपुराणस्य महिम्ना दोषहारिणा
॥५॥भृगुरुवाच
सिद्धिस्ते नृपशार्दूल पुराणश्रवणादभूत् ।
व्रजेदानीं निजं पुत्रं सामात्यं जनमेव च
॥६॥चिरोत्कण्ठं वर्षमध्ये दृष्ट्वा हर्षमवाप्स्यसि ॥
सूत उवाच ।
एवमाकण्यं तद्वाक्यं पादयोर्न्यपतन्मुनेः
॥७॥आनन्दार्णवमग्नः स सोमकान्तोऽवदद्भृगुम् ।
राजोवाच ।
अद्भुतस्तपसस्तेऽद्य महिमैक्षि मया मुने
॥८॥पुराणश्रवणस्यापि येनाहं पतितोऽपि च ।
गलत्कुष्ठो दिव्यदेहो जातो माता पिता मम
॥९॥अस्य देहस्य निर्माता त्वमेव मुनिसत्तम ।
नीरसश्चूतवृक्षोऽपि फलपुष्पयुतोऽभवत्
॥१०॥त्यक्तुं नेच्छाम्यतोऽहं त्वां किं मे पुत्रजनैर्भवेत् ।
एवं निशम्य तद्वाक्यं भृगुः पुनरथाब्रवीत्
॥११॥भृगुरुवाच
जन्मान्तरीयपुण्येन पुराणश्रवणं तव ।
सञ्जातं मन्मुखाद्धन्यं दुरितं येन तेऽनशत्
॥१२॥गणेशस्य पुराणस्य महिमा केन वर्ण्यते ।
न मां विस्मर गच्छ त्वं जनेश नगरं निजम्
॥१३॥एवं तयोः संवदतोस्तेजसो ज्वलदद्भुतम् ।
विमानं ददृशे ताभ्यां सूर्यकोटिनिभं महत्
॥१४॥भृगुरुवाच
त्वदर्थं यानमायातमिदं नृप महाद्भुतम् ।
इदमारुह्य गच्छ त्वं गणनाथस्य सन्निधिम्
॥१५॥न प्राप्नुवन्त्यनुष्ठानाद्विमानं यन्मुनीश्वराः ।
तत्पुराणश्रवाद् राजँस्त्वया प्राप्तं गणेश्वरात्
॥१६॥विमानं वदतोरेवं भूमण्डलमगात्क्षणात् ।
विनायकगणैर्युक्तं चतुर्बाहुविराजितैः
॥१७॥मुकुटाङ्गदहारादि भूषणैरूप शोभितैः ।
दिव्यचन्दनवस्त्रादिपद्मपरशुशोभिभिः
॥१८॥नृत्यत्किन्नरकन्याभिर्मृदङ्गतालपाणिभिः ।
किन्नरैर्गायनैर्युक्तं दृष्ट्वा राजाऽब्रवीत्पुनः
॥१९॥राजोवाच
श्रुतासीद् बहुधा वार्ता विमानानां मुनीश्वर ।
तदृष्टं पुरतो ब्रह्मन् तपोवीर्यबलात्तव
॥२०॥महिमा श्रुयते कर्णैर्बहुधा बहुवक्त्रतः ।
अनुभूतो मया सोऽपि पुराणश्रवणात्तव
॥२१॥एवं ब्रुवति भूपे तु दूता उत्तीर्य यानतः ।
प्रणिपत्याखिलाः प्रोचुः सोमकान्तं नृपं तदा
॥२२॥परात्परेण देवेन तव पुण्यात् स्मृतिः कृता ।
गजाननेन शुद्धात्मन् पुराणश्रवणादिना
॥२३॥वयं दूता आज्ञयाऽस्य विमानेन समागताः ।
नेतुं त्वां पुण्यकीर्तिं च याहि लोकमनुत्तमम्
॥२४॥तद्दर्शनाज्जन्ममृतेर्मुक्तस्तत्सन्न्निधिं गतः ।
सुखमात्यन्तिकं तत्र प्राप्स्यसे तत्प्रसादतः
॥२५॥निशम्य दूतवाक्यं तद् देहातीत इवाभवत् ।
रोमाञ्चाञ्चितसर्वाङ्गः प्राह गद्गदया गिरा
॥२६॥परात्परेण देवेन चराचरकृताऽमुना ।
निर्गुणेन गुणक्षोभकारिणा विश्वयोनिना
॥२७॥दीननाथेन भो दूताः स्मृतोऽहं कृपयाऽनघाः ।
ब्रह्माद्या न विदुर्यं हि ध्यात्वा च सनकादयः
॥२८॥अनन्तगणपूर्णः सोऽप्रेषयद् यानमुत्तमम् ।
नानावतारान् नानारूपी परममायिकः
॥२९॥तेन मे स्मरणं कस्मात् कृतमाश्चर्यकारकम् ।
एवमुक्त्वा नमस्कृत्य भृगुं तं प्राह भूमिपः
॥३०॥आज्ञया ते गमिष्यामि दूतैः सह विमानगः ।
प्रसादात् ते च देवस्य न मां विस्मर्तुमर्हसि
॥३१॥सूत उवाच
निशम्य गदितं तस्य भृगुः सम्भ्रमविव्हलः ।
आनन्दाश्रुः सरोमाञ्चः कण्ठे धृत्वा नृपस्य सः
॥३२॥प्राहाहं नृपते विप्रोऽभाग्यवांस्त्वं महाफलः ।
गणेशपुरगो भूत्वा न मां विस्मर कर्हिचित्
॥३३॥एवमुकत्वा बहिर्यातौ धृत्वा हस्तावुभावपि ।
नमस्कृत्य विमानं तन्नृपो मुनिवरं च तम्
॥३४॥आरुहत्परमप्रीतो दूतवाक्यात् त्वरान्वितः ।
द्वावमात्यौ सुधर्मा च रुरुहुर्यानमुत्तमम्
॥३५॥ततो दूताश्च वाद्यानां घोषैर्व्याप्तं दिगन्तरम् ।
विमानशोभां वीक्ष्यैव सोमकान्तो ननन्द ह
॥३६॥जन्मान्तरीयपुण्येन प्राप्तमेतदमन्यत ।
ततोऽस्मिन् पश्यति भृगौ विमानं यानमम्बरे
॥३७॥सर्वोत्तमपदं प्राप्तं मर्त्यदेहेन वीक्ष्य च ।
विस्मयं परमं प्राप नत्वा दूतान् ययौ पदम्
॥३८॥इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तविमानप्राप्तिवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥ १५१ ॥