वृकासुरवधो नाम पञ्चनवतितमोऽध्यायः
क उवाच
षष्ठे वर्षे प्रवृत्ते तु क्वचिद्यातो बहिः शिशुः ।
उमाया बालकैः सार्द्धं चिक्रीडानेकधा पुनः
॥१॥तं दिदृक्षुर्विश्वकर्मा ययावन्तर्गृहं प्रति ।
पार्वती बहिरागत्य मानयामास तं बहु
॥२॥चित्रासने समावेश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ प्रादाद् गन्धं ताम्बूलमेव च
॥३॥ततस्तदादरं दृष्ट्वा विश्वकर्मा तुतोष ह ।
तुष्टाव परया भक्त्या प्रणिपत्य शिवां मुदा
॥४॥विश्वकर्मोवाच
नमामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे ।
त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे
॥५॥त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परिपासि तच्च ।
त्वमेव सर्वं तमसाऽथ हंसि त्रैगुण्यमेतत्तव नित्यरूपम्
॥६॥त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात् प्रपन्नाः ।
त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया
॥७॥सतोऽसतो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम् ।
सम्मोह्य लोकान्सकलान्सुरेशान्काष्ठाकलाभिश्च ददासि भोगम्
॥८॥ये त्वां प्रपन्ना न भयं तु तेषां मृत्योस्तस्था दैत्यकृतं कदाचित्
॥९॥त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा ।
विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम्
॥१०॥य आश्रितास्ते जगदाश्रयास्ते विपत्तिलेशो न च तेषु मातः ।
त्वमेव विश्वेश्वरि विश्वमेतद्धरस्यथाप्यायसि वारिरूपा
॥११॥अनादिमध्याऽनिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् ।
तेऽनुग्रहात्त्वाप्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके
॥१२॥अभक्तिकामान् विनिहंसि रुष्टा त्वामेव मातः शरणं प्रपन्नः ।
धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव
॥१३॥कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके मया ।
क उवाच ।
एवं स्तुता जगन्माता वरमस्मै न्यवेदयत्
॥१४॥स वव्रे परमां भक्तिं सात तथेति तमब्रवीत् ।
इदं स्तोत्रं पठेद् यस्तु सर्वान् कामाँल्लभेच्च सः
॥१५॥सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् ।
शिवोवाच ।
विश्वकर्मन् महाबुद्धे ज्ञानवानसि सर्वतः
॥१६॥यच्छ्रुतं शिववाक्येन दृष्टं तत्सकलं त्वयि ।
सिन्धुना पीडिता देवाः सर्वे कारागृहे स्थिताः
॥१७॥शिवश्चात्र समायातः कैलासे तु हृते सति ।
दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते
॥१८॥त्वं तु सम्यक् समायातो बहुकालेन दर्शनम् ।
विश्वकर्मोवाच ।
किमाश्चर्यं जगन्मातर्बालो मातरमाव्रजेत्
॥१९॥द्रष्टुं देवं महाभक्तो विद्याकामो गुरुं शिवे ।
पुत्रस्य ते श्रुतो मातर्महिमा परमाद्भुतः
॥२०॥तमहं द्रष्टुमायातो युवयोर्दर्शनोत्सुकः ।
क उवाच ।
एवं तयोस्तु वदतोरागतोऽसौ विनायकः
॥२१॥असङ्ख्यशशिसङ्काशो रजसाऽरुणविग्रहः ।
प्रसन्नवदनो बालसमूहपरिवारितः
॥२२॥तन्मध्ये शोभते स्मासौ मरुन्मध्ये यथा हरिः ।
तं दृष्ट्वा प्रणिपत्यासौ कृताञ्जलिपुटः स्थितः
॥२३॥तुष्टाव परमात्मानं ज्ञात्वा तं गिरिजासुतम् ।
विश्वकर्मोवाच ।
नमामि परमात्मानं सच्चिदानन्दविग्रहम्
॥२४॥चराचरगुरुं सर्वकारणानां च कारणम् ।
गुणेश च गुणातीतं सृष्टिस्थित्यन्तकारिणम्
॥२५॥सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम् ।
अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम्
॥२६॥सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् ।
अभक्तकामदहनं सहस्ररविसन्निभम्
॥२७॥अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् ।
अनादिमव्ययं शान्तं जरामरणवर्जितम्
॥२८॥त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् ।
क उवाच ।
एवं स्तुतिं समाकर्ण्य सन्तुष्टः स गुणेश्वरः
॥२९॥स्वासने तमुपाविश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ गन्धमक्षतान् पुष्पमेव च
॥३०॥धूपं दीपं च नैवेद्यं निवेद्य तमथा ब्रवीत् ।
गुणेश उवाच ।
विश्वकर्मन्नागतोऽसि मम दर्शनकाङ्क्षया
॥३१॥किमानीतं मम मुदेह्युपायनमनुत्तमम् ।
विश्वकर्मोवाच ।
निजस्वानन्दपूर्णानां परवाञ्छाविधायिनाम्
॥३२॥निस्पृहाणां सर्वकृतां सर्वशक्तिमतामपि ।
समलोष्टाश्महेम्नां च कल्पवृक्षाधरी कृताम् ।
कर्तुमकर्तुं शक्तानामन्यथाकर्तुमेव च
॥३३॥स्वाधीनानां च तुष्टानां स्वसत्तावर्तिनामपि ।
पराधीनैरशक्तैश्चाकिञ्चनैर्मर्त्यधर्मभिः
॥३४॥किं देयं परितोषाय स्वशक्त्या किञ्चिदाहृतम् ।
क उवाच ।
एवमुक्त्वा विश्वकर्माऽस्थापयत्पुरतः सृणिम्
॥३५॥पद्मं च परशुं पाशं सहस्रादित्यसन्निभम् ।
सर्वशत्रुहरं तीक्ष्णं दधार स गुणेश्वरः
॥३६॥उवाच विश्वकर्माणं कुत एतानि विश्वकृत् ।
आनीतानि मम प्रीत्यै तद्वदस्वाधुनाऽनघ
॥३७॥विश्वकर्मोवाच
संज्ञा नामेति नाम्ना मे कन्या चारुस्वरूपिणी
॥३८॥लज्जितो यन्मुखं वीक्ष्य सहसा शशलाञ्छनः ।
रमा शची च सावित्री शारदाऽरुन्धती रतिः
॥३९॥त्रिलोक्यां न समा कापि परा यस्या गुणेश्वर ।
सा मया त्वये दत्ता त्रिवेदाय त्रिरूपिणे
॥४०॥आगतेषु त्रिलोकेषु साङ्गोपाङ्गेषु सर्वशः ।
महोत्सवो महानासीद् दिनाष्टकमहर्निशम्
॥४१॥यां दृष्ट्वा स्खलिता देवा लज्जयाऽधोमुखा गताः ।
सविता तामथादाय ययौ स्वस्थानमुत्तमम्
॥४२॥तेजसा तस्य तप्ता मे कन्यका कृशतामगात् ।
सा ततो निर्ममे छायां संज्ञा तु स्वप्रभावतः
॥४३॥सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गता ।
गते कियति काले सा छाया ज्ञाता तु भानुना
॥४४॥नेयं संज्ञेति स प्रायाद् गृहं सद्यो ममार्यमा ।
ततो भीता पुनः संज्ञा मामुवाच न मां पितः
॥४५॥निवेदय रवेर्हस्ते तेजोऽहं न क्षमेऽस्य च ।
ततः पित्रा धिक्कृता सा बहिरेव ययौ किल
॥४६॥अश्विनीरूपमास्थाय गुप्तरूपा वनेऽवसत् ।
ततस्तु विश्वकर्मा तामनवेक्ष्य क्वचिद्गृहे
॥४७॥प्रोवाचार्यमणं सोऽथ तेजस्ते सोढुमक्षमा ।
क्व गता न च जाने तामुपायं ते ब्रवीमि च
॥४८॥यदि ते तेजसो भागो न्यूनः किञ्चिद्भविष्यति ।
तदा सा प्रकटीभूयाद् विहरस्व ततस्तया
॥४९॥रविरुवाच
यथा तव भवेच्चेतस्तथा कर्तुं त्वमर्हसि ॥
क उवाच ।
विश्वकर्मा ततश्चैनं यन्त्रे स्थाप्योल्लिलेख ह
॥५०॥तेजोह्रासं चकाराशु किञ्चित्सौम्योऽभवच्च सः ॥
यत्र गुप्ताऽभवत्संज्ञा तत्र यातोऽर्यमा विभुः
॥५१॥अश्वोभूत्वा तया रेमे सा नासत्यावसूत च ॥
तामादायार्यमा लोकं निजं हर्षयुतोऽगमत्
॥५२॥विश्वकर्मोवाच
तेजःशेषेण तस्याथ प्रबलेन गुणेश्वर ।
निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर
॥५३॥अतितीक्ष्णानि कालस्य सदा जयकराण्यपि ।
चत्वारि ते प्रदत्तानि दत्ते चक्रगदे हरेः
॥५४॥त्रिशूलः शम्भवे दत्तः सर्वशत्रुनिबहर्णम् ।
गुणेश उवाच ।
सम्यक् कृतं विश्वकर्मन्नायुधानि शुभानि मे
॥५५॥दत्तानि दैत्यनाशाय परोपकृतये सताम् ।
क उवाच ।
एवमुक्त्वायुधान्याशु दधार च दुधाव च
॥५६॥तदा चकम्पे पृथिवी पर्वताश्च वनानि च ।
शुशुभे सोऽपि तैः शस्त्रैः कोटिसूर्यनिभैर्विभुः
॥५७॥विश्वकर्मा नमस्कृत्य ययौ स्वस्थानमाज्ञया ।
उमात्मजोऽपि चिक्रीड मुनिबालैर्वृतः पुनः
॥५८॥तत्राययौ वृकोनाम महान् दुष्टतमोऽसुरः ।
भयङ्कराननो मत्तो ग्रसन्निव महाबली
॥५९॥पुच्छाघातेन च भुवं कम्पयन् हलदन्तवान् ।
दुष्ट्वा भयङ्करं दैत्यं मुनिपुत्राः पलायिताः
॥६०॥स आयुधानि गृह्ययाशु तं वृकं समताडयत् ।
अङकुशाघातमात्रेण पतितो भुवि सोऽसुरः
॥६१॥वमन् रक्तं निजं रूपमास्थितश्चूर्णयन् द्रुमान् ।
संहरञ्जीवसङ्घातान् दशयोजनविस्तृतः
॥६२॥स ततोऽस्तमिते सूर्ये ययौ बालयुतो गृहम् ।
बालाः प्राहुरुमायै तेऽनेनाद्य निहतोऽसुरः
॥६३॥वृको नामाङ्कुशाघाताद् दशयोजनमायतः ।
तानुवाचाद्रिजा रोषाद् व्रजन्तु निजमन्दिरम्
॥६४॥ततस्तद्वाक्यमाकर्ण्य ते बालाः स्वालयान् ययुः
॥६५॥इति श्रीगणेशपुराणे क्रीडाखण्डे वृकासुरवधो नाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥