मित्रकौस्तुभवधो नाम त्रयोदशाधिकशततमोऽध्यायः
क उवाच
पदातयः पुरो यान्ति कम्पयन्तो वसुन्धराम् ।
विकरालमुखा वीराः सिन्दूरारुणमस्तकाः
॥१॥केचिन्निबद्धकवचा मुक्तकेशाः सुदारुणाः ।
केचिन्निबद्धकटयः केचिच्चन्दनचर्चिताः
॥२॥नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ।
पुरो यान्ति गजा मत्ता धातुचित्रा इवादयः
॥३॥दीर्घदन्ता विभान्ति स्म भूषणैर्विविधैरपि ।
घण्टानादैर्जनं सर्वं बधिरं चक्रुरञ्जसा
॥४॥चूर्णयन्तो गिरीन् वृक्षान् ययुः शुण्डाप्रहारतः ।
लसत्कुम्भाः पताकाढ्याश्चित्रध्वजविराजिताः
॥५॥ततोऽश्वाश्च खुराघातैश्चूर्णयन्तो वसुन्धराम् ।
हेषितैर्नादयन्तो वै गगनं च दिशो दश
॥६॥सुवर्णरत्नमुक्ताभिर्भूषिता व्योमचारिणः ।
अधिष्ठिता महायोधैस्तनुत्राणप्रशोभिभिः
॥७॥नानाशस्त्रधरैर्वीरैः परसेनाविमर्दिभिः ।
ततस्तु रथिनो जग्मुः शस्त्रास्त्रै रिपुघातिनः
॥८॥सहिता युद्धमार्गज्ञैर्वरैः सारथिभिर्मृधे ।
मुक्तामणिमया माला वहन्तो गन्धमालिनः
॥९॥धनुस्कन्धास्तूणभृतो भल्लहस्ताः सखङ्गकाः ।
शस्त्रप्रभाभिर्नेत्राणि छादयन्तो जनस्य ह
॥१०॥एवं सेना समायाता गर्जयन्ती दिशो दश ।
भूतराजेन सा दृष्टा पुष्पदन्तेन वाहिनी
॥११॥मयूरेशमुभौ यातौ ततो भीत्या पलायितौ ।
तावूचतुः ।
तवाज्ञया पुरो यातावावाभ्यां निहता चमूः
॥१२॥गुल्मस्था नगरद्वारि दग्धं च नगरं बहु ।
प्रतापं नौ समाकर्ण्य सिन्धुः स्वयमुपागतः
॥१३॥चतुरङ्गा चमूं गृह्य नानाशस्त्रास्रधारिणीम् ।
ततो भीत्या भवन्तं च समायातौ महाबल
॥१४॥क उवाच
सिन्धुसैन्यसमुद्रोऽथ वदतोरेवमेतयोः ।
ददृशे पूर्वदिग्भागे दुस्तरः शस्त्रयोधिभिः
॥१५॥ततो हर्षयुतो ज्ञात्वा दैत्यवृत्तं समासतः ।
नीलकण्ठं समारुह्य मयूरेशो ययौ पुरः
॥१६॥आयुधानि च चत्वारि चतुर्दोषु प्रगृह्य सः ।
सन्नद्धा गणकोटयस्ता धनुर्बाणासिपाणयः
॥१७॥परिवार्य स्थिता देवं नीलकण्ठं वृषस्थितम् ।
मुनीश्वराः स्तुवन्ति स्म ददुराशीर्वचोऽपि तम्
॥१८॥उभयोः सेनयोर्वाद्यघोषकोलाहलो महान् ।
परस्परं सम्पदं तां वीक्ष्यसेने सुविस्मिते
॥१९॥असङ्ख्यात बलं वीक्ष्य तुतोष स मयूरराट् ।
यदुक्तं नन्दिना पूर्वं तदृष्टं सर्वमेवहि
॥२०॥ततो नन्दी मयूरेशं नत्वा गर्जन्मुहुर्ययौ ।
नभोमार्गेण सैन्येषु चिच्छेद वीरमस्तकान्
॥२१॥शृङ्गाघातेन महता हयमस्याहनद् दृढम् ।
शीघ्रमुड्डीय च ययौ मयूरेशं यथाऽक्षतः
॥२२॥आश्चर्यं चक्रिरे सर्वे गणाः साध्विति शंसिरे ।
छत्रं च पातयामास नन्दी शृङ्गप्रहारतः
॥२३॥पतितेऽश्वे च छत्रे च सिन्धुरश्वान्तरे गतः ।
धारयामास च तदा छत्रमन्यन्महाधनम्
॥२४॥आश्चर्यं परमं मेने नन्दिनः कर्मणाऽसुरः ।
चुक्रोध स महावीरान्क्व गतो वः पराक्रमः
॥२५॥एवमाकर्ण्य तद्वाक्यं कौस्तुभो मैत्र एव च ।
अमात्यौ तं नमस्कृत्य सेनया चतुरङ्गया
॥२६॥मा चिन्तां करु सिन्धो त्वं विधास्यावो रिपुक्षयम् ।
अन्यथा न मुखं नाथ दर्शयावः कथञ्चन
॥२७॥एवमुक्त्वा प्रचलितौ परसैन्यनिबर्हणौ ।
पदातीनां गणा याता ब्रह्माण्डास्फोटतत्पराः
॥२८॥न्युब्जतामिच्छवो नेतुं भूगोलं रणदुर्मदाः ।
कौस्तुभोऽथ मयूरेशं यातो मैत्रश्च पातितुम्
॥२९॥शरवर्षैः परिच्छाद्य यातावस्यान्तिकं यदा ।
वीरभद्रस्तदायातो योद्धुं स च षडाननः
॥३०॥असङ्ख्यसेनया युक्तौ गर्जयन्तौ दिशोदश ।
निजघ्नतुरुभौ रोषात् सिन्धुं नानाप्रहारतः
॥३१॥कौस्तुभोप्यथ मैत्रश्च जघ्नतुस्तौ परस्परम् ।
सहस्व मारयस्वेति व्याहरन्तः परस्परम्
॥३२॥शस्त्रैरस्त्रैरनेकैश्च ताभ्यां युद्धमकुर्वताम् ।
शरव्रातैर्भिभिण्डिपालैः परिघैर्मुसलैरपि
॥३३॥नानासेनाचरा जघ्नुः परस्परवधेप्सवः ।
नष्टेषु सर्वशस्त्रेषु शरेषु च परस्परम्
॥३४॥मल्लयुद्धं प्रचक्रुस्ते जीवग्राहममारयन् ।
व्यसवः पतिताः केचिद् केचिद् रक्तं मुखाद् बहु
॥३५॥पादं पादेन जघ्नुस्ते स्कन्धं स्कन्धेन चापरे ।
पृष्ठं पृष्ठेन केचिच्च हस्तं हस्तेन चापरे
॥३६॥मस्तकं मस्तकेनैव कूर्परं कूर्परेण च ।
पतिताः पात्यमानश्च मृता भग्नाश्च चूर्णिताः
॥३७॥छिन्नकण्ठा भिन्नभुजा भग्नजड़घोरुबाहवः ।
एवं नष्टेषु सैन्येषु सिन्धुसेना जयं ययौ
॥३८॥जयशब्दैः स्तूयमानैर्बन्दिभिर्वाद्यनिस्वनैः ।
सिन्धुदैत्येश्वरं यातौ अमात्यौ मित्रकोस्तुभौ
॥३९॥मयूरेशं समायातौ वीरभद्रषडाननौ ।
ततोऽस्तमगमत्सूर्यस्ततो युद्धमुपारमत्
॥४०॥अपरेऽह्नि न्यध्यन्त देवसैन्येन दानवाः ।
पलायमानां तां सेनां निजघ्नुः शरसञ्चयैः
॥४१॥पुनरावेशमापन्नौ वीरभद्रषडाननौ ।
गर्जन्तौ गर्जयन्तौ च गगनं च दिशो दश
॥४२॥निघ्नन्तौ रिपुसेनां तां निदर्हन्तौ कृतान्तवत् ।
अन्धकारे महाघोरे न प्राज्ञायत किञ्चन
॥४३॥स्वान् परानपि जघ्नुस्ते युध्यमाना महाबलाः ।
भग्नायां सिन्धुसेनायां चक्रतुर्जयनिस्वनम्
॥४४॥दैत्यामात्यौ पुनर्यातौ मरणे कृतनिश्चयौ ।
प्रेरयामासतुरुभौ निजाश्वौ परवाहिनीम्
॥४५॥किरन्तौ शरजालानि जघ्नतुः करवालतः ।
ततः षडाननो दृष्ट्वा तयोरतिपराक्रमम् ।
मुष्टिघातेन तौ हत्वा निजसेनामगाज्जवात्
॥४६॥मित्रस्तु भूमिमगमद् वमनक्तं मुखाद्बहु ।
तथाविधं च तं दृष्ट्वा कौस्तुभो योद्धुमागतः
॥४७॥षडाननमथो रोषान्निजघ्ने करवालतः ।
तस्मिन् मूर्च्छामवाप्ते तु वीरभद्रोऽप्ययुध्यत
॥४८॥कौस्तुभः प्राहनद् रोषाच्छराघातैरनेकशः ।
सोऽपि तं प्राहनन्मुष्टया भूमौ चैनमघातयत्
॥४९॥हते तस्मिन्ननन्दासौ वीरभद्रो महाबलः ।
पपाल दैत्यसेना सा हते मित्रे च कौस्तुभे
॥५०॥तमुदन्तं शस्त्रहताः स्रवन्तो रुधिरं बहु ।
न्यवेदयन् दैत्यराजसिन्धवे देवशत्रवे
॥५१॥वाचा विस्पष्टया दुःखाच्छस्राघातकृताद् भृशम् ।
जयमाकाङ्क्षते नित्यं मित्रकौस्तुभयोर्भृशम्
॥५२॥इति श्रीगणेशपुराणे क्रीडाखण्डे मित्रकौस्तुभवधो नाम त्रयोदशाधिकशततमोऽध्यायः ॥ ११३ ॥