मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 100

3
क्रीडाखण्डः · 100

भगासुरवधो नाम शततमोऽध्यायः

क उवाच

अनेकरूपवान् देवो मयूरेशोऽखिलेश्वरः ।

अतिसुन्दरदेहः सन्नागकन्याभिराहृतः

॥१॥

गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तरात् ।

सुगन्धतैलोद्वर्तनैः स्नाप्योष्णैरपि तं जलैः

॥२॥

दिव्यवस्त्रैरलङ्कारैश्चन्दनैरपि पूज्य च ।

धूपदीपैश्च नैवेद्यैः फलताम्बुलकाञ्चनैः

॥३॥

ऊचुः करपुटं बद्ध्वा वयं धन्यतमा विभो ।

यद् दृष्टन्ते पदं देव ब्रह्माद्यैरपि काङ्क्षितम्

॥४॥

नागलोको धन्यतमो जीवितं नः सुजीवितम् ।

आनन्दहृदमग्नं नो मानसं तापमत्यजत्

॥५॥

यद्यत्ते ईप्सितं देव तत्तदत्रापि गृह्यताम् ।

अत्र स्थित्वा कति दिनं पश्चात्त्वं गन्तुमर्हसि

॥६॥

मयूरेश उवाच

वाञ्च्छितं वो विधास्येऽहं गिरिजा मां प्रतीक्षते ।

मद्वियोगेन तप्ता सा न भक्षयति किञ्चन

॥७॥

यूयं कस्यात्मजास्तस्य दर्शनं चेद् भवेन्मम ।

क उवाच ।

तत ऊचुर्नागकन्या वासुकेः पुत्रिका वयम्

॥८॥

ब्रह्माद्या मुनयो देवा यान्ति यस्य गृहं सदा ।

यस्य विषभवा ज्वाला दहत् त्रिभुवनं विभो

॥९॥

क उवाच

इत्युक्त्वा तं पुरस्कृत्य पितरं प्रापुरङ्गनाः ।

रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युतम्

॥१०॥

सूर्यकोटिनिभं रत्नमालया शोभितं तदा ।

मूर्धस्थरत्नकिरणैर्भासयन्तं दिशोऽखिलाः ।

तं दृष्ट्वा वासुकिं देवो गर्वितं बलवत्तरम्

॥११॥

उड्डीय तत्फणासंस्थं मणिं जग्राह सत्वरम् ।

येन पातालविवरे नान्धकारोऽभवत्किल

॥१२॥

आन्दोलयामास शिरः कम्पयन् सप्तपर्वतान् ।

उदधीन् सप्तस्वर्गांश्च पातालानि रसातलम्

॥१३॥

हस्तेनैकेन तं गृह्य मयूरेशः स्वलीलया ।

वासुकिं निजकण्ठे तं बबन्ध सर्पभूषणः

॥१४॥

विख्यातः स्वर्गलोकेऽभूज्जगर्जानन्दतो विभुः ।

तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयम

॥१५॥

ततः सर्पगणाः शेषं नीतुं वासुकिमब्रुवन् ।

स च क्रोधसमाविष्टो विस्तार्य निखिलान्फणान्

॥१६॥

विषाग्निमुत्सृजन्दग्धुं त्रैलोक्यमुपचक्रमे ।

उवाच कः क्षमो जेतुं मम बन्धुं तु वासुकिम्

॥१७॥

आवेशेन ययौ रोषाद् दावानल इव ज्वलन् ।

शीघ्रं यातो मयूरेशं तिष्ठ तिष्ठेति चाब्रवीत्

॥१८॥

ततो नागकुलान्याशु तं शेषमन्वयुस्तदा ।

ततः पन्नगवृन्दं तं दृष्ट्वा देवो व्यतिष्ठत

॥१९॥

शिखण्डिमस्तके हस्तं न्यधाद् युद्धाय पन्नगैः ।

स ययौ तं नमस्कृत्य ग्रसन्निव महाद्भुतः

॥२०॥

दुधाव पक्षौ तद्वाताद् भ्रामयन् भुजगोत्तमान् ।

काँश्चित् स भक्षयामास चुचूर्ण चापरानपि

॥२१॥

मारयामास कांश्चित्स भुजगान्बलवत्तरान् ।

निरीक्ष्य तं मृताः केचित् पन्नगा भयविव्हलाः

॥२२॥

दृष्ट्वा पराक्रम तस्य शेषः श्वासमपासृजत् ।

शिखण्डी पतितस्तेन मूर्छितो धरणीतले

॥२३॥

मयूरेशं ततः शेषो ययौ क्रोधाद् दहन्निव ।

त्रैलोक्यं विषवन्हिस्थं समालोक्य गुणेश्वरः

॥२४॥

विराट्रूपं समास्थाय रुरोह तत्फणोपरि ।

उड्डीय बालभावेन गर्जन्मेघ इवापरः

॥२५॥

ननर्त करतालेन पादाघातेन मर्दयन् ।

अनन्तकोटिब्रह्माण्डभारेण परिपीडितः

॥२६॥

एकब्रह्माण्डवाही स कथं तद्भारमावहेत् ।

बबन्ध शेषं हि कटौ रज्जुं बालो यथा रमन्

॥२७॥

ततस्ते भुजगाः सर्वे योद्धु कामास्तमन्वयुः ।

हुङ्कारेणैव तान् सर्वान् पातयामास विघ्नराट्

॥२८॥

अबध्नान्मस्तके कांश्चित्कांश्चिच्च कर्णयोर्विभुः ।

परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरम्

॥२९॥

न स्वरूपं विदुर्देवा ब्रह्माद्या मुनयोऽपि च ।

त्वमेव सृजसे विश्वं पासि हंसि त्वमेव हि

॥३०॥

नानावतारकर्ता त्वं नानादैत्यविमर्दनः ।

त्वमेव साक्षी सर्वस्य सर्वान्तर्यामितां दधत्

॥३१॥

सर्वत्रकारणं त्वं हि कारणानां च कारणम् ।

अज्ञानादभिमानेन योद्धुकामान् क्षमस्व नः

॥३२॥

सम्पातिञ्च जटायुं च श्येनमानीय सर्पराट् ।

निवेद्य च नमस्कृत्य शेषस्तूऽणीं बभूव ह

॥३३॥

तेऽपि तं प्रणिपत्याहुर्दीननाथ प्रसादतः ।

बन्धान्मुक्ताः सर्पकृतान्नमस्ते परमेश्वर

॥३४॥

क उवाच

एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः ।

आलिलिङ्गुर्मुदा युक्तास्तदा गद्गदभाषिणः

॥३५॥

पप्रच्छुः कुशलं मात्रे ते च क्षेममथाब्रुवन् ।

ततः शिखण्डिनं सोऽथ रुरोह गणनायकः

॥३६॥

पातालाद् धरणीं प्रायात् स्त्रीभिश्च संयुतो वशी ।

भगासुरं ददर्शार्द्धमार्गे शिशुहरं च तम्

॥३७॥

उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु ।

तत्याज कण्ठे तं तस्य पशुमारममारयत्

॥३८॥

तच्छिरः परिबभ्राम श‍ृङ्गं वज्राहतं यथा ।

ततस्तदुत्थिता बाला योगमायाविमोहिताः

॥३९॥

मयूरेशः क्व चास्तीति प्राकोशन् सर्व एव ते ।

आसने क्रीडने स्वापे जागृतौ भोजनेऽपि च

॥४०॥

तमेव ध्यायमानास्ते तन्मुखाद्बहिराययुः ।

गर्भवासादिवोत्तीर्णा ददृशुस्तं गुणेश्वरम्

॥४१॥

दृष्ट्वा ते रुरुदुः स्नेहादालिलिङ्गुर्मदाखिलाः ।

ते ऊचुः ।

त्यक्त्वाऽस्मान्दैत्यजठरे मृतान् क्वास्ति गतो भवान्

॥४२॥

त्वत्स्मृतेस्तस्य जठरे जीविता निर्गतास्ततः ।

मयूरेश उवाच ।

सर्वव्यापी सर्वगतः सर्ववेत्ताऽखिलेश्वरः

॥४३॥

न त्यक्त्वान्कदाचिद् वो मा चिन्तां कर्तुमर्हथ ।

क उवाच ।

ततो ययौ मयूरेशो बालकैः परिवेष्टितः

॥४४॥

केचिद् धावन्ति पुरतो नानाशब्दकरा भृशम् ।

केचिच्छत्रधराः केचिद् दण्डचामरधारिणः

॥४५॥

धूलिध्वजं समालोक्य ययुर्मुनिगणा बहिः ।

शिख्यारूढं मयूरेशं बालकैः परिवेष्टितम्

॥४६॥

ऊचुः परस्परं सर्वे मुनयो विस्मयान्विताः ।

गृहेऽस्मिन् शिशवश्चामी कुतोऽन्येऽस्य समीपतः

॥४७॥

तांश्च तान् मीलिताः सर्वेऽपश्यन् ते देवरूपिणः ।

विचारेण च तान् सर्वे परब्रह्मस्वरूपिणः

॥४८॥

आनन्दहृदमग्नास्ते न विदुः स्वपरं पुनः ।

नापश्यँस्ते पुनस्ताँस्तान्भ्रान्ता इव व्यलोकयन्

॥४९॥

मायया मोहिताः सर्वे स्वान् स्वान् बालान् व्यलोकयन् ।

कश्चित् पितरमासाद्य पठति स्म यथा पुरा

॥५०॥

कश्चिन्मातरमासाद्य पिबतिस्म स्तनं मुदा ।

आलिलिङ्गाथ जननीं पितरं वापि कश्चन

॥५१॥

भ्रातरं ताडयित्वाऽन्यो रुरोद ताडनादिव ।

उमापि तनयं दृष्ट्वालिङ्ग्य प्रादात् स्तनं मुदा

॥५२॥

कथं चिरतरं यात इति क्रोधादभाषत ।

आदाय हस्ते गिरिजा मयूरेशं गृहं ययौ

॥५३॥

सर्वे ते मुनयो जग्मुः शिशुभिः स्वं स्वमाश्रमम्

॥५४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः ॥ १०० ॥

आदित श्लोकानां समष्ट्यङ्काः ८६४२ + ५४ = ८६९६