मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 44

3
क्रीडाखण्डः · 44

बालचरिते चतुश्चत्वारिंशोऽध्यायः

कीर्तिरुवाच

ढुण्डिराजावतारोऽयं ख्यातस्ते शक्तिसम्भवः ।

दुरासदवधार्थाय त्रिलोकीपालनाय च

॥१॥

एकपादः स्थितस्तुण्डनगरे चैकपादतः ।

स्थितो दैत्यं समाक्रान्त्य वाराणस्यामिति श्रुतम्

॥२॥

उभाभ्यामपि पादाभ्यामुभयत्र स्थितिः कथम् ।

एवं मे संशयं ब्रह्मन् नुद त्वं सर्वविद्यतः

॥३॥

मुनिरुवाच

किमसाध्यं विश्वरूपे विश्वकर्तरि विश्वपे ।

विश्वव्यापिनि विश्वेशे ढुण्डिराजे च शासति

॥४॥

विश्वान्तर्यामिणि परे विश्वसंहारकारिणि ।

सप्तपातालचरणे स्वर्गव्यापि शिरोरुहे

॥५॥

सर्वतः पाणिचरणे सर्वतः श्रोत्रचक्षुषि ।

मनसश्च श्रुतीनां च ब्रह्मादीनां च योगिनाम्

॥६॥

अगम्ये तत्त्वतो वायुपृथिवीजलरूपिणि ।

यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः

॥७॥

भ्रमन्ति पवनोद्भूताः पतङ्गा इव व्योमनि ।

संशयो वा वितर्को वा तस्मिन् मातर्न विद्यते

॥८॥

अनेकरूपिणि विभौ प्रभुः कर्तुं चराचरम् ।

यदिच्छया भवेद् राज्ञि सुधा विषस्वरूपिणी

॥९॥

अमृतं विषरूपं च तत्र किं किं न सम्भवेत् ।

अवतारस्य देवस्य विचित्रा गतिरुच्यते

॥१०॥

कियन्तो ह्यवतारा वै कदा कुत्रेति निश्चितुम् ।

न शक्यते सुरैः सर्वैः सशेषैरपि सर्वदा

॥११॥

अतस्त्यक्त्वा तु सन्देहं कथां शुणु मयेरिताम् ।

यां श्रुत्वा सर्वधर्मज्ञे मुच्यते पापसञ्चयात्

॥१२॥

सूर्यवंशोद्भवो राजा दिवोदासोऽभवत्पुरा ।

वदान्यश्च महामानी मान्यो भूमण्डलेऽखिले

॥१३॥

वक्ता बृहस्पतिसमः सर्वज्ञः सर्वदा शिवः ।

वेदशास्त्रपुराणानां ज्ञानी विज्ञजनप्रियः

॥१४॥

कामिनीमोहनतनुर्जितेन्द्रियतया स्थितः ।

उपकारपरो नित्यं परद्रोहपराङ्मुखः

॥१५॥

निस्पृहः परवित्तषु स्थूललक्ष्यः पराक्रमी ।

तपसा तस्य तुष्टेन ब्रह्मणा राज्यमुत्तमम्

॥१६॥

काश्यां वृष्टिविहीनायां दत्तं लोकोपकारिणा ।

सर्वदेवबहिष्कारात् सोऽपि जग्राह बुद्धिमान्

॥१७॥

स्वयमेवाभवत्सोऽथ रविरिन्द्रो हुताशनः ।

मरुच्चन्द्रश्च धर्मेण पालयामास तां पुरीम्

॥१८॥

तपसा तस्य सञ्जाता वृष्टिर्लोका इतस्ततः ।

अविमुक्तं समायाताः प्रशशंसुर्नृपं च तम्

॥१९॥

तस्य पत्नी सुशीला सा नाम्ना नाम पतिव्रता ।

धर्मशीला दानपरा पतिवाक्यपरायणा

॥२०॥

आचारं व्यवहारं वा प्रायश्चित्तमसौ नृपः ।

पण्डितैः कारयामास राजदण्डं न चाददे

॥२१॥

शिवेन मरुतः सर्वे मन्दारगिरिमन्वयुः ।

नापमृत्युर्न शोको वा नैव दुःखं हि कस्यचित्

॥२२॥

उत्पातास्त्रिविधा नासँस्तस्मिन् राज्यं प्रशासति ।

हाहाकारः शमं यातो नाऽवृष्टिविहितो महान्

॥२३॥

पशुपक्षिमनुष्याणां सस्यानि च बहून्यपि ।

यदा यत्तं प्राणिमात्रं जातानि वृष्टियोगतः

॥२४॥

स्वाहास्वधावषट्काराः सर्व आसन् यथा पुरा ।

ते च देवाः सुखं प्राप्ता ये प्रार्थयन्नृपं पुरा

॥२५॥

यं तुष्टुवुः सुराः सर्वे ब्रह्मवाक्यप्रणोदिताः ।

सोऽपि नाना स्तुतिं चक्रे देवानां दर्शनाद्भृशम्

॥२६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दिवोदासोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥