सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः
सूत उवाच
तदमात्याश्च चत्वारः सोमकान्तं पुरो ययुः ।
प्रणिपत्याखिलान् प्रोचुरागतस्ते सुतो नृप
॥१॥सर्ववीरैर्नागरिकैरिन्द्रः सुरगणैरिव ।
वृतो हर्षेण शोकेन दृष्ट्वा नृयानमेव च
॥२॥एवं निवेदितोऽमात्यैः सोऽपि शीघ्रं समागतः ।
आबालवनितावृद्धैः सेवकैश्च समन्वितः
॥३॥दृष्ट्वा शोभां विमानस्य सर्व आनन्दनिर्भराः ।
तन्मध्ये सोमकान्तं ते दृष्ट्वा नेमुर्धरातले
॥४॥युक्तं दूतैर्गणेशस्य कान्तयाप्यतिकान्तया ।
तत उत्तीर्य यानात् स आलिलिङ्ग सुतं मुदा
॥५॥आनन्दाश्रूणि मुञ्चन्तौ सरोमाञ्चावुभावपि ।
विदेहाविव सञ्जातौ न किञ्चिदूचतुः क्षणम्
॥६॥तत ऊचे पिता पुत्रं स्नेहेन वत्सरागतम् ।
त्वामेव नित्यं ध्यायामि सत्पुत्रं वंशभूषणम् ।
न त्वया सदृशं पश्ये पुत्रेषु जनवर्तिषु ।
ततः सुधर्मा सस्नेहा धावमाना सुतं ययौ ।
आलिलिङ्ग मुदा युक्ता गलदश्रू उभावपि ।
तत ऊचे सुतं माता चिरदृष्टोऽसि बालक ।
न में सुखीं किञ्चिदभूत् त्वदुत्कण्ठितचेतसः ।
इदानीं ते मुखं दृष्ट्वा सानन्दं मे मनोऽभवत्
॥७॥वियोगेन च ते देहो मम जातः कृशो भृशम् ।
तत आलिङ्गनं चक्रुर्नागरा नामधारकाः
॥८॥केचित् प्रदिक्षिणां चक्रुः केचित् पादौ तदाऽस्पृशन् ।
केचिच्च दर्शनादेव प्रतियाताः पुरं प्रति ।
तत ऊचे नृपः सर्वान् भृगुणाऽनुग्रहान्मम ।
गणेशस्य पुराणं यच्छ्रावितं पापनाशनम्
॥७॥अभवं तेन निष्पापो दिव्यदेहो विमानगः ।
सर्वेषां दर्शनं जातं पुनर्यास्यामि यानगः
॥८॥कृपावता गणेशेन यानं मे प्रेषितं भुवि ।
राज्यं च परिभुक्तं मे स्वेच्छया सम्पदः सुत
॥९॥धामं यास्यामि परमं प्रसादाद् भृगुसम्भवात् ।
एवं ते शुश्रुवुर्वाणीं सोमकान्तसमीरताम्
॥१०॥रुरुदुः सुस्वरं सर्वे पतिता भुवि केचन ।
श्रेणी मुख्यास्ततः प्रोचुः सोमकान्तं कृपानिधम्
॥११॥नो विना जगतीपाल कथं यास्यसि धाम तत् ।
प्राणांस्त्यक्त्वा वयं सर्वे यास्यामोऽप्यनु ते नृप
॥१२॥हत्या त्वन्मस्तके राजन्सर्वेषां नो भविष्यति ।
न नः पुण्यं तथा येन द्रक्ष्यामस्तं गुणेश्वरम्
॥१३॥तव प्रसादाद् देवस्य यास्यामो लोकमुत्तमम् ।
न संसारे सुखं किञ्चिदायुर्नाशो वृथाऽत्र हि
॥१४॥अस्माकं न भवेत् किञ्चित्साधनं धामसाधनम् ।
ततोऽवदद् हेमकण्ठो जनकं वाक्यमादृतः
॥१५॥कथं त्यक्त्वाऽर्भकं तात यासि द्रष्टुं गजाननम् ।
मन राज्येन को हेतु राज्ञया तव वत्सरम्
॥१६॥पालितं राज्यमखिलं नेच्छेदानीं ममापि च ।
शपथस्ते तथा राजन् अतो नेतुं ममार्हसि
॥१७॥सोमकान्त उवाच
सर्वेषामेव सन्द्रष्टुमिच्छा देवपदाम्बुजम् ।
अहं च परवानत्र कथं कार्यं मया जनाः
॥१८॥भवत्स्नेहन शोचामि पुत्रस्नेहाद्विशेषतः ।
अत एवोर्ध्वगं यानमुत्तार्य द्रष्टुमागतः
॥१९॥सूत उवाच
ततः शोचत्सु लोकेषु सोमकान्ते रुदत्यपि ।
पुत्रे च देवदूतानां दया प्रादुरभूत् तदा
॥२०॥ते ऊचुः सोमकान्तं तं धन्यो राजन् यतो जनाः ।
त्वयि सङ्कल्पितप्राणा यथा त्वं जगदीश्वरे
॥२१॥अतः सर्वान् गृहीत्वैव यामः शीघ्रं गजाननम् ।
राजोवाच ।
यदि सर्वा पुरी नीता तदा कीर्तिर्दृढा मम
॥२२॥भविष्यति रसायां मे नान्यथा तु भविष्यति ।
सूत उवाच ।
एवमुक्त्वा पुराणस्य गणेशस्य श्रवोद्भवम्
॥२३॥पुण्यं हस्ते जले नैषां ददौ राजा तदाज्ञया ।
तोये हस्ते गते लोका निष्पापाः पुण्यमूर्तयः
॥२४॥आबालवनितावृद्धा रुरुहुर्यानमुत्तमम् ।
गणेशस्य तु ये दूतास्ततोऽगुरूर्ध्वमार्गतः
॥२५॥ततः केचिन्नराः पापा यैर्नापि च जलं करे ।
ते पुनर्नगरे याताः शशंसुः शेषितं जनम्
॥२६॥ततो ददृशिरे सर्वे ऊर्ध्वगं नगरं बहु ।
ऊचुः परस्परं शेषा द्रव्यलाभेन तोषिणः
॥२७॥नानाव्यवसायरता बभूवुर्हृष्टमानसाः ।
कांश्चित्पलायनपरान् दूता दण्डप्रहारिणः
॥२८॥बलाद्गृहीत्वा प्राक्षिपन् यानमध्येति कौतुकात् ।
नानामिषेण जग्मुर्ये तांस्तथैव निचिक्षिपुः
॥२९॥उपविष्टा मध्यदेशे राजपत्नीसुतादयः ।
अमात्याः परितो लोका नागरा विविशुः सुखम्
॥३०॥मयूरेश मयूरेश जय त्वमिति घोषिणः ।
वाद्यत्सु देववाद्येषु नृत्यत्यप्सरसां गणे
॥३१॥प्रतिनादेन गर्जन्ति मण्डलानि दिशामपि ।
अतिवेगेन ते प्राप्ता गणेशस्य पदं शुभम्
॥३२॥सुषमां परिपश्यन्तो विस्मयेनाब्रुवन्निति ।
अहो महत् पुण्यमस्य येन दृष्टो गजाननः
॥३३॥समीपतां ययुः सर्वे राजा सायुज्यमाप च ।
सूत उवाच ।
एवं वः कथिता विप्रा गणेशस्य पुराणना
॥३४॥कथा सर्वजनस्यापि श्रवणात्पापनाशिनि ।
शृणुध्वं देवदूतेभ्यो विमाने पृष्टवान् नृपः ।
तत्सर्वं भवतां विप्राः कथयामि कथानकम्
॥३५॥इति श्रीगणेशपुराणे क्रीडाखण्डे सोमकान्तस्य देवपदप्राप्तिवर्णनं नाम त्रिपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥