शमीमन्दारफलवर्णनं नाम एकोनपञ्चाशत्तमोऽध्यायः
क उवाच
एवं लब्धवरा कीर्तिः शेषां रात्रि निनाय च ।
उषः स्नात्वा प्रपूज्याशु मूर्तिं पुत्रयुता ययौ
॥१॥हर्षिता दुःखिता देव विरहान्नगरं स्वकम् ।
नानाध्वजपताकाभिः सेकैर्धूपरलङकृतम्
॥२॥ढुण्डिनाम जपन्तौ तौ नृपपत्नीसुतावुभौ ।
ज्ञात्वा गतौ नृयानेन सेनया वाद्यनिस्वनैः
॥३॥आनिन्ये नगरं कर्णपुरं नाम्ना सुविश्रुतम् ।
मूर्ध्न्याघ्रायाशु तनयं सस्वजे परमादरात्
॥४॥उवाच परमप्रीतो हर्षगद्गदया गिरा ।
क्षिप्रप्रसादन सुत श्रान्तोऽसि बहुवासरम्
॥५॥दृष्ट्वा त्वां परमाल्हादं प्राप्तो लब्ध्वा सुधामिव ।
विससर्जाखिलाँल्लोकान् दत्त्वा वस्त्राणि दक्षिणाः
॥६॥कीर्तिश्च स नृपः पश्चात्परस्परमथोचतुः ।
साऽपि सर्वं नृपायास्मै वृत्तान्तं संन्यवेदयत्
॥७॥परस्परालिङ्गनचुम्बनानि हास्यं विनोदं परिचक्रतुस्तौ ।
ताम्बूलविच्छेदमपि प्रहर्षात् कामस्य युद्धं निरपत्रपौ च
॥८॥ततः कतिपयाहस्सु ज्ञात्वा पुत्रं गुणाकरम् ।
विनीतं सर्वधर्मज्ञं नीतिशास्त्रविशारदम्
॥९॥अभिषेचनसम्भारान् कृत्वाहूय वरान् द्विजान् ।
सुहृदः सवैराजन्यानभिषेकं सुते ददौ
॥१०॥शुभे मुहूर्ते संलग्ने सप्तेष्टग्रहसंयुते ।
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम्
॥११॥नानाद्रव्ययुतैस्तोयैरभिषेकमकारयत् ।
नदत्सु सर्वतुर्येषु ऋग्यजुस्साममन्त्रतः
॥१२॥सन्तोष्य ब्राह्मणानन्यान् दक्षिणारत्नदानतः ।
स्वयं च वनवासीयदीक्षां गृह्य च पृच्छय च
॥१३॥विससर्जाखिलान् राजा निजसाधनसंस्थितः ।
ततः परशुबाहुः स प्रशशास महीमिमाम्
॥१४॥धर्मशास्त्रीयनीत्या च त्यागेन यश आर्जयत् ।
विख्यातस्त्रिषु लोकेषु पराक्रमबलादभूत्
॥१५॥मन्दारमूर्तिं ढुण्ढेः स कृत्वा कण्ठे दधार ह ।
शमीं दूर्वां विना पूजां न करोति कदाचन
॥१६॥नानाभोगान् स्त्रियो नैका बुभुजे धर्मतस्तु सः ।
उत्पाद्य पुत्रान् दानानि दत्त्वा वर्षसहस्रकम्
॥१७॥चकार राज्यं पश्चात् तत्पुत्रेन्यस्य दिवं ययौ ।
कल्पाननेकान्स्वर्गे स स्थितो ढुण्ढिस्वरूपवान्
॥१८॥मुनिरुवाच
एवं शम्याः प्रभावस्ते सङ्क्षेपेण निरूपितः ।
तत्पूजनस्य पुण्यं च मन्दारस्य प्रसङ्गतः
॥१९॥तस्मात् त्वयाऽपि पूज्योऽहं शमीमन्दारतो मुने ।
भक्त्या समर्पितं पुष्पं पत्रमिष्टं सुधायते
॥२०॥निषिद्धपत्रपुष्पादि समर्प्य नरकं व्रजेत् ।
यस्य यद् दैवतं मुख्यं तदिष्टमितरेषु वा
॥२१॥समर्पयन्नभेदेन भक्तो दोषं न चाप्नुयात् ।
एवं पञ्चापि सम्पूज्य देवाँस्तत्परतामियात्
॥२२॥सात्त्विको लीयते देवे राजसस्तु सरूपताम् ।
उभाभ्यां चैव सान्निध्यं तामसस्तु सलोकताम्
॥२३॥प्राप्नुयाद्भजमानस्तु त्रेधा भक्तिर्न वै वृथा ।
व्यास उवाच ।
विनायकस्य को लोकः कस्मिन्लोके च तिष्ठति
॥२४॥एतं मे संशयं ब्रह्मन् छेत्तुमर्हसि साम्प्रतम् ।
कमन्यं परिपृच्छामि सर्वज्ञं त्वां विहाय भोः
॥२५॥ब्रह्मोवाच
मयाऽपि नारदायोक्तो मुद्गलाय च तेन च ।
काशीराजाय चाख्यातो लोको वैनायकः शुभः
॥२६॥स कामदायिनीशक्त्या तेनैव निर्मितः पुरा ।
निजलोकेतिनामास्य स्वयं चक्रे विनायकः
॥२७॥काशीराजो विमानस्थो दृष्ट्वांश्चर्मचक्षुषा ।
यं प्राप्य दुःखं न द्वन्द्वं प्राप्नुते स्त्री पुमानपि
॥२८॥ब्राह्मं कल्पं च वसति ज्योतिरूपं समाप्य च ।
इक्षुसागरसम्भोगं लभते तत्र यः स्थितः
॥२९॥महाप्रलयवेलायां तिष्ठत्येवाविनाशि यत् ।
तत्पीठं तस्य देवस्य निद्रास्थानं सनातनम्
॥३०॥सेवेते सिद्धिबुद्धी तं सामवेदस्तु गायति ।
कल्पवृक्षो यच्छति तत् कल्पितं मनुजेन यत्
॥३१॥अकल्पिताः सम्पदोऽत्र जायन्ते तत्प्रभावतः ।
मयैव वर्णिताः सर्वे देवलोका अनेकशः
॥३२॥गणेशनिजलोकस्य शक्तिर्नो मम वर्णने ।
सङ्क्षेपेण ततोऽख्यायि किमन्यच्छ्रोतुमिच्छसि
॥३३॥इति श्रीगणेशपुराणे क्रीडाखण्डे शमीमन्दारसमर्पणजनितफलवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥