विनायकाश्रमं प्रतिगमनं नामकसप्ततितमोऽध्यायः
क उवाच
अपरस्मिन्दिने ब्रह्मन् राजा भद्रासनं गतः ।
अमात्यान् वीरमुख्यांश्च वृद्धांश्च सुहृदो द्विजा
॥१॥आकार्य च नमस्कृत्य जगाद हृदि संस्थितम् ।
राजोवाच ।
विवाहाय तु पुत्रस्य समाहूतो विनायकः
॥२॥उत्पाता बहवो जातास्ते च तेन निराकृताः ।
अदित्यै च मया प्रोक्तं शीघ्रं ते तनयं शुभम्
॥३॥आनयिष्ये तत्र बहुदिवसा जग्मुरञ्जसा ।
स्वस्थेषु त्रिषु लोकेषु विवाहोऽस्य विचिन्त्यताम्
॥४॥अमात्या ऊचुः
सम्यगुक्तं महाराज विलम्बो विघ्नकारितः ।
जातो विवाहकार्येऽस्मिन् गतेऽस्मिन् स विधीयताम्
॥५॥विनायकप्रसादेन सर्वमव्याकुलं जगत् ।
दूरस्थानां च सुहृदां प्रेष्यन्ता लग्नपत्रिकाः
॥६॥दूतांश्च सर्वसम्भारान्कर्तुं ग्रामेषु युज्यताम् ।
क उवाच ।
इति प्रकृतिवाक्यानि श्रुत्वा लोकाः सभासदः
॥७॥साधूक्तमिति तत्रोचुस्ततो राजा जहर्ष च ।
ज्योतिर्विद्भिर्लग्नदिनं निश्चिकाय तदैव सः
॥८॥प्रेषयामास सुहृदो दूतानाकारितुं शुभान् ।
सामग्रीं कारयामास दूतैराप्तैर्यथाविधि
॥९॥ततो मगधराजोऽपि सुतामादाय तां पुरीम् ।
आययुः सर्वसुहृदो नानादिग्भ्यः समागताः
॥१०॥उपायनानि भूरीणि ददुस्तेऽन्योन्यमादरात् ।
देवतास्थापनं तौ च चक्रतुः सुमहोत्सवान्
॥११॥साङ्गोपाङ्ग विवाहं तौ सम्यक् सम्पाद्य यत्नतः ।
तोषयामासतुर्विप्रान् सर्वलोकान् धनादिभिः
॥१२॥विसृज्य सुहृदः सर्वांस्ततो राजा विनायकम् ।
भूषयामास विविधैर्भूषणैरंशुकैर्वरैः
॥१३॥अभ्यज्य भोजयामास स्वाद्वन्नं सह बन्धुभिः ।
ततो रथं समारुह्य सह तेन नुसत्तमः
॥१४॥ययौ वादित्रनिर्घोषैः कश्यपाश्रममुत्तमम् ।
ततो नागरिकाः सर्वे हित्वा कृत्यानि निर्ययुः
॥१५॥भोजनं पठनं निद्रा व्यासङ्ग तत्यजुस्तदा ।
अकृत्वा स्वस्ववेषं ते त्वरया निर्ययुः पुरात्
॥१६॥ततो बालसहस्राणि रुरुधुस्तं विनायकम् ।
अस्माँस्त्यक्त्वा कथं यासि कथं निष्ठुरतां गतः
॥१७॥गमिष्य इति पूर्वं नः कथं नोक्तं प्रसङ्गतः ।
अभुक्त्वाऽस्मद्गृहे यासि कथं तं निजमाश्रमम्
॥१८॥कश्चिद्बालो दधाराऽस्य पादपद्मं रुदन्मुहुः ।
कश्चित्स्नेहात्समालिङ्ग्य दधार करपङ्कजम्
॥१९॥पौराङ्गनास्तथैवैनं बाला मुन्धाः सयौवनाः ।
विपर्यस्य निजा भूषा आययुस्तं विलोकितुम्
॥२०॥यथा पाथोनिधिं सर्वां वर्षाकाले समुद्रगाः ।
यान्ति हंसा यथा मुक्तासमूहं मरुतो हरिम्
॥२१॥अतिप्रीतियुताः प्रोचुः कथं यासि विनायक ।
अकस्मात्स्नेहमुत्सृज्य कथं निष्ठुरतां गतः
॥२२॥क उवाच
रथादवतताराऽसौ दृष्ट्वा तान् नृपसंयुतः ।
परिश्रान्तान्धावमानान्स्खलतः पततोऽपि च
॥२३॥तानुवाच ततः सर्वान्मुहूर्तं त्वरया जनाः ।
नृपेण सहितः शीघ्रमागतो नगराद्बहिः
॥२४॥इदानीं प्रार्थये सर्वान् न त्याज्या करुणा मयि ।
अपराधास्तु क्षन्तव्या मया वः सदने कृताः
॥२५॥न च त्याज्यः परिचयो यदि वो दर्शनं भवेत् ।
एवं तद्वाक्यमाकर्ण्य पौराः सर्वे शुचान्विताः
॥२६॥रोमाञ्चाञ्चितगात्रास्ते प्रोचुर्गद्गदया गिरा ।
जना ऊचुः ।
न माया मायिनस्तेऽस्ति सर्वस्य जगतः पितुः
॥२७॥न पिता त्यजते बालान् सापराधानपि ध्रुवम् ।
न चन्द्र उष्णतां याति सुवर्णं नीलतामपि
॥२८॥कथं निष्ठुरतां यातः कथं गन्तुं समुत्सुकः ।
पूर्वमेव न चागाश्चेत्तदा शोको न सम्भवेत्
॥२९॥चोरयित्वा कथं यासि सर्वेषां नो मनांसि च ।
कथं कार्यं करिष्यामो नीतेषु नो मनस्सु च
॥३०॥जले नष्टे जलचराः कथं जीवन्ति तद्वद ।
प्राणे गते शरीरेण किं प्रयोजनमस्ति नः
॥३१॥कस्तत्र प्रतिकारः स्यादिक्षुश्चेत्स्रवते विषम् ।
तस्मान्नो नय यत्र त्वं यासि तत्र स्वकिङ्करान्
॥३२॥तद्वचः परिकर्ण्याऽसौ प्रोचे गद्गदया गिरा ।
मुञ्चन्नेत्राश्रु बहुलं सर्वान् स्त्रीवृद्धबालकान्
॥३३॥देव उवाच
न खेदः सर्वदा कार्यो न वियोगो मम क्वचित् ।
सर्वान्तर्यामिणोऽपायहीनस्यानन्दरूपिणः
॥३४॥न चित्तस्य समाधानं भवेद्वै चिन्तनेन मे ।
मम मूर्तिं मृदा कृत्वा पूजयन्तु गृहे गृहे
॥३५॥सङ्कटं वो यदा तु स्यात्स्मर्तव्योऽहं तदा जनाः ।
साक्षात्कारं प्रदास्यामि नाशयिष्यामि सङ्कटम्
॥३६॥क उवाच
वचनं तत्समाकर्ण्य ननन्दु सर्वनागराः ।
नेमुः प्रदक्षिणीकृत्य जयशब्दैः प्रतुष्टुवुः
॥३७॥गृहीत्वाज्ञां ययु सर्वे पौराः स्वं स्वं निवेशनम् ।
विनायकोऽपि शीघ्रं स रथारूढो ययौ पुरः
॥३८॥काशिराजेन सहितो मातृदर्शनलालसः ।
स ददर्श परावृत्यं मुखं पौरकुमारकान्
॥३९॥आक्रन्दतस्तानुवाच पुनर्यास्ये व्रजन्तु हि ।
चिन्ता न कार्या सत्यं वो ब्रवीमि नानृतं क्वचित्
॥४०॥एवं तान् स परावृत्य क्षणात् स्वाश्रममाप्तवान्
॥४१॥इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाश्रमप्रतिगमनं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥
आदितः श्लोकानाम् समष्ट्यङ्काः - ७२५० + ४१ = ७२९१