मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 2

3
क्रीडाखण्डः · 2

द्वितीयोऽध्यायः

व्यास उवाच

अनुष्ठानं कथं ब्रह्मन् कुत्र वा तौ प्रचक्रतुः ।

तत्सर्वं विस्तराद्ब्रूहि सादरं मम पृच्छतः

॥१॥

ब्रह्मोवाच

साधु पृष्टं त्वया व्यास सर्वं ते कथयेऽधुना ।

चक्रतुस्तावनुष्ठानं देवान्तकनरान्तकौ

॥२॥

पित्रौराज्ञां गृहीत्वैव जग्मतुर्गहनं वनम् ।

न सञ्चारो यत्र वायोर्नानाद्रुमलताकुलम्

॥३॥

वापीकासारसहितं पुष्पपल्लव शोभितम् ।

विशालगव्हरगिरिनानाप्रस्तरशालि च

॥४॥

तत्र स्थितावुभावेतौ प्रारभेतां महत्तपः ।

एकाङ्गुष्ठे स्थितौ चौभौ तत्र तौ स्थिरचेतसा

॥५॥

जपन्तौ नारदप्रोक्तां विद्यां पञ्चाक्षरीं शुभाम् ।

ध्यायन्तौ शङ्करं देवं सहस्रपरिवत्सरान्

॥६॥

निराहारौ वायुभक्षौ शरदां द्विसहस्रकम् ।

सहस्रवर्षं पत्राणि पक्वानि जक्षतुश्च तौ

॥७॥

एवं दशसहस्राणि वर्षाणि जपतोर्ययुः ।

विवृद्धे भूरितपसि ततश्च तेजसा तयोः

॥८॥

सूर्योऽभून्मन्दकिरणो भस्मोद्धूलित देहयोः ।

व्याघ्राजिने चाक्षमाले बिभ्रतोगजचर्मणी

॥९॥

पुपूजतुरुषःकाले शम्भुं कुसुमपल्लवैः ।

तस्मिंस्तपोवने तात तयोरद्भुततेजसा

॥१०॥

जातिवैराः सुनिर्वैरा आसन् सिंहगजादयः ।

एवं तत्तपसा तुष्ट पञ्चवक्त्रस्त्रिलोचनः

॥११॥

दशबाहूरपणाङ्गो व्याघ्रेभचर्मशूलवान् ।

बिभ्रच्छिरसि गङ्गां च डमरुं दक्षिणे करे

॥१२॥

फणिहारसमायुक्तो रुण्डमालालसद्गलः ।

वृषारुढो नीलकण्ठः प्रभया भासिताम्बरः

॥१३॥

नानालङ्कारसंयुक्तः श्वेताङ्गश्चन्द्रशेखरः ।

दृष्ट्वा तौ तादृशं देवं हर्षमापतुरुत्तमम्

॥१४॥

ननर्ततुरुभौ पश्चात् साष्टाङ्गं प्रणिपेततुः ।

बद्धाञ्जलिपुटौ तौ तं देवदेवं समूचतुः

॥१५॥

धन्यौ नौ पितरौ देवजनुषी नयने तपः ।

धन्यं कुलं च देहौ च यतो दृष्टो महेश्वरः

॥१६॥

वेदान्ताऽगोचरोऽगम्यो वाचो यस्मादुपावृत्ताः ।

आगमः कुण्ठितो यत्र षट्शास्त्राण्यथ मानसम्

॥१७॥

सहस्रवदनः स्तोतुं न क्षमः सनकादयः ।

न शक्ताः सर्वजगतः कर्ता पाताऽपहारकः

॥१८॥

रङ्कं करोति राजानं राजानं रङ्कमेव च ।

सर्पं करोति वलयं वलयं सर्पमेव च ।

मृतं करोति जीवन्तं मृतमेवच

॥१९॥

अधनं यो धनाढ्यं च धनाढ्यमधनं तथा ।

श्रुत्वैवं स तयोर्वाणीं प्रोवाच च उमापतिः

॥२०॥

साधु साधु श्रुतं वाक्यामृतं वां समुदा मया ।

तपसा परितुष्टो वां वृषारूढः सहोमया

॥२१॥

आगतो ध्याननिष्ठाभ्यां याचेतां वाञ्छितान् वरान् ।

क उवाच ।

अन्धकारेरिदं वाक्यं श्रुत्वा तौ प्रोचतुस्तदा

॥२२॥

हर्षगद्गदया वाचा देवान्तकनरान्तकौ ।

यदि तुष्टोऽसि देवेश सर्वेश जगदीश्वरः

॥२३॥

यदि त्वया वरा देया यद्यनुग्राह्यता च नौ ।

तदा देवमनुष्येन्द्रयक्षरक्षः पिशाचतः

॥२४॥

मानवोरगगन्धर्वाप्सरः किन्नरतोऽपि च ।

सर्वशस्त्रास्त्रयोर्ववन्यग्राम्यपश्वादितोऽपि च

॥२५॥

ग्रहनक्षत्र भूतेभ्यो दानवासुरतोऽपि च ।

न दिवा न च रात्रौ वा कृमिकीटादितोऽपि वा

॥२६॥

मृत्युः कदापि नौ स्यात्ते प्रसादाज्जगदीश्वर ।

त्रैलोक्यराज्यं नौ यच्छ भक्तिं ते चरणेऽपि च

॥२७॥

क उवाच

तौ जगाद ततः शूली प्रसन्नस्तपसा तयोः ।

समाकर्ण्य वरान् सर्वान् निजभक्तामराङ्घ्रिपः (भक्तयोर्वृषभध्वजः)

॥२८॥

शिव उवाच

यद्यद्वांवाञ्छितं सर्वतत्तथा न तदन्यथा ।

अभयं सर्वतोऽमृत्युस्त्रैलोक्ये राज्यमेव च

॥२९॥

लप्स्यथो लप्स्यते चापि भवद्भ्यामन्तको भयम् ।

तयोः शीर्ष्णोरधाच्छम्भुरभयं करपङ्कजम्

॥३०॥

एवं प्राप्येप्सितान् कामानन्तर्धानं ययौ शिवः ।

तावनुज्ञां ततो गृह्य तस्मिन्नन्तर्हिते गृहम्

॥३१॥

ईयतुस्तं परिक्रम्य प्रणम्य च प्रपूज्य च ।

हर्षेण पितरौ दृष्ट्वा नेमतुर्भृशहर्षितौ

॥३२॥

आलिङ्ग्य पितरौ तौ तु निजवृत्तान्तमूचतुः

आघ्राय मस्तकं प्राह पिता तौ तनयौ मुदा

॥३३॥

युवयोः सुवरप्राप्त्या दर्शनाच्छङ्करस्य च ।

पावितं जन्म च कुलमर्जितं सुमहद्यशः

॥३४॥

श्रुत्वोदन्तं शीतलानि जातान्यङ्गानि मे सुतौ ।

जाता चामृतपानस्य परा तृप्तिर्न संशयः

॥३५॥

मात्राभ्यक्तौ बुभुजतुस्ततोऽन्नं विविधं शुभम् ।

पित्रासमं ब्राह्मणैश्च वेदशास्त्रविशारदैः

॥३६॥

ततः सा पूजयामास नानालङ्कारभूषणैः ।

तौ पुत्रौ ब्राह्मणांश्चैव तेभ्यो गृह्यशिषो बहु ।

विससर्ज प्रणम्यैतान् व्यतीयतुरुभौ निशाम्

॥३७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे देवान्तकनरान्तकवरप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥

आदितः श्लोकानां समष्ट्यङ्ङाः = ४१४८ + ३७ = ४१८५