नरान्तकनिर्गमनं नाम षट्पञ्चाशत्तमोऽध्यायः
मुनिरुवाज ।
तौ तु रौद्रपुरे रम्यां नरान्तकसभां गतौ ।
सहस्रस्तम्भरुचिरां मणिमुक्ताविभूषिताम्
॥१॥अनेकवीरसम्बधां नानाश्चर्यवतीं शुभाम् ।
शतयोजनविस्तीर्णां तावदायामसंयुताम्
॥२॥नानामणिमये रम्ये आसने स नरान्तकः ।
उपविष्टस्तत्समये तस्यामात्यौ वरासने
॥३॥उभौ गगनसंलेहिमूर्द्धानौ बलिनां वरौ ।
नत्वा तौ वदतः शूरश्चपलश्च गुणान्बहून
॥४॥वक्तव्यं दूतवर्येण यत्स्यात्साध्वितरच्च यत् ।
अन्यथा दूतदोषः स्यात् स्वमिकोपश्च दारुणः
॥५॥श्रुत्वा तत्स्वामिना कार्यं विचार्य स्वहितं शुभम् ।
आवां विनायके विघ्नान् कर्तुं यातः पुरीं तु ताम्
॥६॥अतिगुप्ततरौ तत्र स्थितौ बालप्रतीक्षकौ ।
विघण्टो दन्तुरश्चाथ प्रथमं बालरूपिणौ
॥७॥ताभ्यामालिङ्गतस्तौ स भस्म चक्रे विनायकः ।
पतङ्गश्च विधूलश्च वायुरूपधरौ ततः
॥८॥यातौ बालकमुत्क्षेप्तुं शिर आक्रम्य नाशितौ ।
पाषाणरूपी प्रबलः शतधा खण्डितोऽसुरः
॥९॥कामक्रोधौ द्वावसुरौ रासभं रूपमास्थितौ ।
हन्तु बालं तु मार्गे तो चूणितौ धरणीतले
॥१०॥ततः कुण्डियास्तुवरः कौन्जरं रूपमास्थितः ।
मार्गमावृत्य सन्तस्थौ तत्कुम्भस्य विदारणात्
॥११॥निहतः क्षणमात्रेण कुमारेण बलेन सः ।
धर्मदत्तगृहं पश्चाद् जृम्भिणी हन्तुमागता
॥१२॥नारिकेलेन शिरसि हता मृत्युमवाप सा ।
ज्वालासुरो व्याघ्रतुण्डस्तृतीयस्तु विदारणः
॥१३॥आगता नाशितुं बालमाद्यो जज्वाल तां पुरीम् ।
अन्त्यः साहाय्यमकरोद् वायुरूपतयाऽस्य ह
॥१४॥विदार्यास्यं व्याघ्रतुण्डोऽभक्षयच्चाखिलान् जनान् ।
त्रयोऽपि निहतास्तेन बालेनाऽनन्तमायया
॥१५॥मेघनामा महादैत्यो गाणकं रूपमास्थितः ।
निहतो मुद्रिकाघातात् तदद्भुतमिवाभवत्
॥१६॥कूपश्च कन्दरश्चोभौ निहतौ मायिनौ बलात् ।
अम्भासुरोऽन्धकस्तुङ्गो नाशितुं बालमागताः
॥१७॥एकेनाकारि तु तमो धाराभिर्ववृषे परः ।
अपरस्तुङ्गशिखरो न्यपतद्बालकोपरि
॥१८॥महाविहङ्गरूपेण दूरे क्षिप्तात्रयोऽपि च ।
तेषां प्रतिकृतिं कर्तुं भ्रमरा नाम राक्षसी
॥१९॥आगता भक्षितुं बालं दुष्टाशयवती शुभा ।
तदुरःस्थलमाक्रम्य प्राणान् जग्राह विघ्नराट्
॥२०॥तत आवां तडिद्रूपमास्थाय बालकं गतौ ।
विहन्तुं तेन विधृतौ करयोर्बलशालिना
॥२१॥कृपावता विमुक्तौ च पृष्ट्वा सर्व चिकीर्षितम् ।
कथयित्वोदन्तममुमागतौ स्वामिनं प्रति
॥२२॥एकदा नगरे तत्र सर्वैरेकः समाहृतः ।
भोजनाय च शुक्लेन दरिद्रेण विनायकः
॥२३॥विशीर्णमोदनं भुक्त्वा सह तैलेन प्राग्विभुः ।
पश्वाद् गतोऽनन्तकायो भोक्तुं सर्वगृहेष सः
॥२४॥सर्वत्र काशिराजेन सहितो बुभुजे हि सः ।
काशिराजेन मूढेन न ज्ञातं तद्विचेष्टितम्
॥२५॥स्वामिन्नेतादृशी शक्तिः क्वापि दृष्टा न च श्रुता ।
इदानीं यद्धितं ते स्यात् तद्धि सम्यग्विधीयताम्
॥२६॥जानीवहे न जेताऽस्य त्रैलोक्ये विद्यते पुमान् ।
मुनिरुवाच ।
इत्थं श्रुत्वा तयोर्वाक्यं प्रजज्वाल सुरान्तकः ।
वमति स्म मुखादग्निं विश्वमत्तुं प्रसारितात्
॥२७॥कपिरुड्डानशीलोऽपि न सिंहं बाधते क्वचित् ।
बद्ध्वा तु भ्रुकुटीमुग्रामुवाच स नरान्तकः
॥२८॥ग्रासशीलश्चाजगरो न महीं ग्रसते क्वचित् ।
आश्चर्यं ममचित्ते तु भवद्वाक्यादुपागतम्
॥२९॥खद्योतो राजते तावद्यावच्चन्द्रो न दृश्यते ।
चन्द्रोऽपि राजते तावद् यावत्सूर्यो न दृश्यते
॥३०॥न दृश्यते यदा राहुस्तावत् सूर्योऽपि राजते ।
न दृष्टः कालरूपोऽहं तावद् बालो महानयम्
॥३१॥सकाशिराजं तं बालं जानीयातां दिवं गतम् ।
यत्र ते निहता दैत्या गतास्तत्र गमिष्यति
॥३२॥मुनिरुवाच
एवमुक्त्वा समुत्तस्थौ जगर्ज गर्जयन् दिशः ।
च कम्पे पृथिवी सर्वा तद्गर्जनरवाकुला
॥३३॥तत आज्ञापयत् सर्वान्वीरान् सज्जीभवन्त्विति ।
काशिराजस्य नगरीं यामि युद्धाय दंशितः
॥३४॥तस्मिन्वदति सेनेत्थं सन्नद्धा समुपागता ।
सर्वशान्तिकरा घोरा चतुरङ्गध्वजान्विता
॥३५॥सैन्येन रजसा सर्वं व्याप्तमासीद् दिगन्तरम् ।
आच्छादिते दिनकरे न प्राज्ञायत किञ्चन
॥३६॥पदातयोऽप्यसङ्ख्येयाः सिन्दूरारुणमस्तकाः ।
उड्डीयोड्डीय धावन्तो मिथ्यायुद्धं प्रचक्रिरे
॥३७॥मुक्तकेशाः खड्गहस्ता भृशुण्डीचर्मपाणयः ।
पाषाणद्रुमखट्वाग्ङशक्तिपाशकराः परे
॥३८॥ततो ययौ गजानीकं घण्टानादविभूषितम् ।
सिन्दूरारुणसद्गण्डं दन्तावरणराजितम्
॥३९॥नानाधातुविचित्रो नु पर्वतानां व्रजो व्रजन् ।
चीत्कारेण नदद्दन्तैर्भिदन्निव गिरिव्रजम्
॥४०॥आधोरणा यदा न स्युस्तदा सर्वं हतं भवेत् ।
दानोदकेन तु रजः प्रशान्तमभवत् तदा
॥४१॥अश्वारोहास्तयोर्जग्मुर्मुकुटाटोपमस्तकाः ।
शस्त्रिकाचर्मनिस्त्रिंशधनुर्बाणविभूषिताः
॥४२॥बृंहितैर्हेषितैर्व्योम कुर्वन्तः सगुणं भृशम् ।
कङ्कालैश्च तनुत्राणैस्त्रिशूलैश्च विराजिताः
॥४३॥गदामुद्गरपट्टीशमहापरशुपाणयः ।
चक्रतोमरभल्लासिपाशसृणिकराः परे
॥४४॥अश्वा अलङ्कृता नानालङ्कारैश्चामरैरपि ।
मनोजवा वायुवेगा व्योमैवाक्रान्तुमिच्छवः
॥४५॥ततः सुवर्णरजतमुक्तामणिविभूषितम् ।
सुवर्णाक्षैर्ध्वजैर्युक्तं नानालङ्कृतवाजिभिः
॥४६॥नानायुद्धसमूहैश्च धनुर्बाणशतैर्युतम् ।
कार्तस्वरमहाचक्रं किङ्किणीजालमण्डितम्
॥४७॥महारथी महामात्यो रथमास्थाय निर्ययौ ।
कृष्णदेहो महाकायो वीरकङ्कणशोभितः
॥४८॥लसत्कुण्डलसुश्रोत्रो महामुकुटमण्डितः ।
मुक्तासुवर्णमालाढ्यो मुद्रिकाखड्गमण्डितः
॥४९॥केशरागरुकस्तूरीकर्पूराङ्गविलेपनः ।
शुचिरस्राणि सस्मार न प्रयुक्तानि कुत्रचित्
॥५०॥वीरावेशेन स बभौ रोगी शोफां गतो यथा ।
नानावादित्रनिर्घोषैर्नादयन् विदिशो दिशः
॥५१॥वीरा विनायकं जेतुं हृष्टा गर्जन्त्यनेकशः ।
बृंहितैर्हषितैःक्ष्वेडै रथनेमिस्वनैरपि
॥५२॥निनादं तं समाकर्ण्य त्रस्ता देवा दरीं ययुः ।
एवं नरान्तकः काशीराजस्य नगरीं ययौ
॥५३॥इति श्रीगणेशपुराणे क्रीडाखण्डे नरान्तकनिर्गमनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥