षडधिकशततमोऽध्यायः
क उवाच
ततस्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्माङ्गरागरुचिरं पञ्चास्यं दिग्भुजं शुभम्
॥१॥रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम्
॥२॥क्रीडन् बहिः समायातो बालकैः परिवारितः ।
सुहृद्भिः परिनृत्यद्भिर्वद्भिश्च परस्परम्
॥३॥एतस्मिन्नन्तरे तत्र दैत्यो मङ्गलसंज्ञकः ।
करालवदनः क्रोडी विजेता मरमाद्भुतः
॥४॥वराहरूपो बलवान्दन्तच्छिन्नमहीरुहः ।
वज्रसारसटाभिः स भिन्दन्व्योमपदैर्धराम्
॥५॥अञ्जनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः ।
दृष्ट्वा तं विद्रुता बाला वर्षाघननिभस्वनः
॥६॥न दृष्टः सूकरः क्वापीदृश इत्यब्रुवंश्च ते ।
यावन् मारयते बालांस्तावद् देवो मयूरराट्
॥७॥दधार दन्तयोर्दुष्टं तदा सूकरदानवम् ।
अथापरेण हस्तेन दधाराधरपोत्रकम्
॥८॥पाटयामास सहसा वंशखण्डमिवार्भकः ।
पूर्वदेहं समास्थाय दशयोजनविस्तृतम्
॥९॥पतितश्चूर्णयन्वृक्षान्दारयन्धरणीतलम् ।
ततस्तमब्रुवन् बाला धन्योऽयं पार्वतीसुतः
॥१०॥क्षणेन नाशितो दैत्यो लीलयाऽसौ महाबलः ।
अस्य दर्शनतस्त्रस्ता वयं याता दिशो दश
॥११॥पतमानेन येनेह चूर्णितानि गृहाणि च ।
क उवाच ।
ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा
॥१२॥क्रोधासंरक्तनयनो विष्टपं प्रदहन्निव ।
गणानूचे रुषाविष्टो रक्षणं क्रियते कथम्
॥१३॥केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी ।
क उवाच ।
ततो लीना गणाः सर्वे कम्पमाना भयातुराः
॥१४॥अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति ।
उमाकान्त भवत्पुत्रो मयूरेश्वरसंज्ञकः
॥१५॥क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः ।
चन्द्रस्तेन कदा नीतो न जानीमो वयं विभो
॥१६॥इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः ।
कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः
॥१७॥चन्द्रो वा चन्द्रहर्ता वा यद्यानीतस्तदा शुभम् ।
नो चेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः
॥१८॥ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः ।
मयूरेशं समभेत्य प्राभणन् रुष्टचेतसः
॥१९॥याहि दुष्टं शिवं देवं चन्द्रं वा यच्छ तस्कर ।
गणवाक्यं परिश्रुत्य चुकोप गणनायकः
॥२०॥न मेऽस्ति गणना कापि भवतां तस्य वा गणाः ।
जगत् त्रय जनन्या मे तनयस्य प्रभाविनः
॥२१॥क उवाच
तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः ।
पेतुः शिवस्य पुरतो गणा दीनास्तदाऽखिलाः
॥२२॥अतिरोषान्महादेवः प्रमथादीनथाब्रवीत् ।
आनीयता स दुष्टात्माबद्ध्वोमातनयो लघुः
॥२३॥ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः ।
ददृशुस्तं शिशुगतं क्रीडन्तमकुतो भयम्
॥२४॥वेष्टितुं तान्समायातान् मोहयित्वा विनायकः ।
अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन्
॥२५॥गृहे गृहे काननेषु नापश्यंस्ते विनायकम् ।
क्वचिदृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान्
॥२६॥गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम् ।
एवमन्तर्हितो दृश्यो वारंवारं बभूव सः
॥२७॥ततः खिन्नान्गणान् दृष्ट्वा परमात्मा कृपान्वितः ।
तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः
॥२८॥बबन्धुर्गिरिजासूनुं निन्युस्ते शङ्करं प्रति ।
पृथिवीभारसदृशमुपविष्टं तु ते गणाः
॥२९॥न शेकुरुत्थापयितुं ततो विस्मितमानसाः ।
हतोद्यमा गणाः सर्वे शिवमेत्य समूचिरे
॥३०॥सर्वे वयं समानेतुमेकं शक्ता न शङ्कर ।
आज्ञापयामास शिवो नन्दिनं पुरतः स्थितम्
॥३१॥झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम् ।
नन्द्युवाच ।
शेषं सूर्यं शशाङ्कं च हनिष्येऽहं तवाज्ञया
॥३२॥कनीयसो न मे काचिद् गणनाऽस्ति महेश्वर ।
क उवाच ।
इत्युक्त्वाऽगाद्वायुवेगो भञ्जन्वृक्षांश्च पर्वतान्
॥३३॥क्रोधसंरक्तनयनस्तीक्ष्णशृङ्गोग्रसन् दिवम् ।
उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति
॥३४॥नो चेदद्य नयिष्यामि न समो हि गणैरहम् ।
(नो चेदद्यैव नेष्यामि) एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः
॥३५॥श्वासचक्रेऽक्षिपत्तं तु गमनागमसङ्कुले ।
तत्याज तं दृढं श्वासादतिखिन्न शिवान्तिके
॥३६॥वमन्तं रुधिरं वक्त्रात् पृथिव्यां पतितं तु तम् ।
ब्रुवन्तं पौरुषं नाना मूर्च्छितं द्विमुहूर्ततः
॥३७॥अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः ।
देदीप्यमानं वपुषादिव्यभूषासमन्वितम्
॥३८॥गणा ऊचुः शिवं दृष्ट्वा भालचन्द्रं यथा पुरा ।
ललाटे ते शशीदेव वृथाज्ञप्ता वयं शिव
॥३९॥मयूरेशं गणांश्चाह शशिनं वीक्ष्यमस्तके ।
शिव उवाच ॥
श्रान्तास्तेच गणास्त्वञ्च नन्दीचापि ममाज्ञया
॥४०॥चन्द्रे स्थिते ललाटे मे वृथा युद्धमभूद्धि यत् ।
प्रमथा ऊचुः ।
अद्यप्रभृति देवेश स्वामी नोऽस्तु मयूरराट्
॥४१॥क उवाच
तथेति शिव ऊचे तान्गणराजोऽभवत्तु सः ।
नत्वा शिवं गणेशं च गणेशजननीमपि
॥४२॥प्रशंसयित्वा देवेशं मयूरेशं तथाविधम् ।
गर्जन्तोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम्
॥४३॥इति श्रीगणेशपुराणे क्रीडाखण्डे शिवललाटगतचन्द्रहरणं नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥