सप्तसप्ततितमोऽध्यायः
क उवाच
इति तद्वचनं श्रुत्वा क्रोधाद् वह्निकणान्वमन् ।
यथा सिंहो गजानीकं याति तद्वद् ययौ सुरान्
॥१॥सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् ।
पपात स धरापृष्ठे वाताहत इव द्रुमः
॥२॥भालदेशे कुबेरं च हनौ च वरुणं यमम् ।
पृष्ठ देशे जघानासौ चक्राघातेन दैत्यराट्
॥३॥तालुदेशे पावकं च मन्मथं लत्तयाऽहनत् ।
अनिलं पादघातेन शनैश्चरमपोथयत्
॥४॥सोमं भौमं भ्रामयित्वा तत्याज भूतले बलात् ।
पृष्ठभागेऽहनच्चैव सनकं च सनन्दनम्
॥५॥नासत्यौ नारदश्चापि कुत्रापि च पलायिताः ।
ततः पलायिताः सर्वे दृष्ट्वा वीर्यं सुरास्तदा
॥६॥पतिता मूर्छिताः केचिद्दैत्यश्चक्रेण माधवम् ।
मुष्टिदेशे जघानासौ चक्रं तस्यापतद्भुवि
॥७॥माधवो गदया मूर्ध्नि दैत्येशं तमताडयत् ।
वञ्चयित्वा च शतधा गदां स्वां च व्यचिक्षिपत्
॥८॥ज्ञात्वा पराक्रमं तस्य प्रोचे तं मधुसूदनः ।
वरयस्व वरं दैत्य यत्ते मनसि वर्तते
॥९॥नेतादृशो मयाऽदर्शि पुरुषार्थोऽसुरे क्वचित् ।
ततोऽब्रवीद्देत्यपतिः परमाल्हादसंयुतः
॥१०॥यदितुष्टोऽसि देवेश यदि देयो वरो मम ।
गण्डकी नगरे मे त्वं परिवारयुतो हरे
॥११॥सार्वकालं वसनिभो नान्यं याचे वरं परम् ।
तत ऊचे महाविष्णु स्थास्यामिनगरे तव
॥१२॥दत्तो वरो यतो नूनं ततोऽस्मि वशगस्तव ।
ततः स सत्य लोकेच कैलासे वैष्णवे पदे
॥१३॥आस्थापद् दैत्यपतीन् स्वयं शाक्रे पदेऽवसत् ।
तत्राप्यन्यं स्थापयित्वा रमापतियुतः स्वयम्
॥१४॥वाद्यदुन्दुभिनिर्घोषैः स्वपुरीं गण्डकीं ययौ ।
नुवन्ति बन्दिनस्तं तु नेदृशोऽभूत्पुमान्क्वचित्
॥१५॥येन विष्णुर्गृहं स्वीयं जित्वाऽनायि सुरान्बहून् ।
ददृशुर्नागरास्तस्य समीपे वरुणं हरिम्
॥१६॥कुबेरं देवमुख्यांश्च ततः स्वभवनं ययुः ।
ततः प्रोचे हरि दैत्यो गण्डकीनगरे सुखम्
॥१७॥विहरस्वामरैः सार्द्धं ततः सोऽपि तथाऽकरोत् ।
परितो दूरतो दैत्यो दैत्यानन्यान् न्यवेशयत्
॥१८॥ततो देवा हरिं प्रोचुः किं कृतं गरुडध्वज ।
त्यक्त्वा स्वविक्रमं किन्त्वं स्थितोऽत्यानन्दनिर्भरः
॥१९॥कथं कारागृहे प्राप्ता मृत्युलोकं गताः कथम् ।
कथमन्तो भवेदस्य भोगस्य जगदीश्वर
॥२०॥तत ऊचे हरिः सर्वान् कालोहि दुरतिक्रमः ।
कालेन जायते सर्वं ह्रसते वर्धतेऽपि वा
॥२१॥तस्मात्कालं प्रतीक्षध्वं काल एनं ग्रसिष्यति ।
एवं जित्वा त्रिलोकीं स महाबलपराक्रमः
॥२२॥ततो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुद्रा ।
आशिषं ददतुस्तौ च ज्ञात्वा पौरुषमस्य ह
॥२३॥ततो दैत्यो दुष्टमतिर्भूतले समघोषयत् ।
देवद्विजगवामर्चा क्रियते येन केनचित्
॥२४॥स हन्तव्योऽथवा साधुरानेयो मम सन्निधौ ।
प्रतिमा यत्र यत्र स्यात् तां भङ्क्त्वा निक्षिपेज्जले
॥२५॥ममैव प्रतिमां कृत्वा पूजयन्तु गृहे गृहे ।
प्राबोधयन् सिन्धुवचो दूता एवं स्थले स्थले
॥२६॥भङ्क्त्वा प्रासादमूर्तीश्च तोऽयेगाधे च चिक्षिपुः ।
सिन्धोश्च प्रतिमां कृत्वाऽस्थापयन् परमादरात्
॥२७॥पूजार्थं राक्षसाश्चापि ततो याता निजं पतिम् ।
ऊचुर्वैनायकहरहरिभानुरमादिकाः
॥२८॥प्रतिमाः प्रविभज्याशु क्षिप्ताः सर्वा महाजले ।
तवैव प्रतिमास्तत्र स्थापिता राक्षसा अपि
॥२९॥पूजार्थं स्थापिताः स्वामिन् आगताश्च तवान्तिकम् ।
एवं धर्मस्य सर्वस्य विच्छित्तिः समजायत
॥३०॥यज्ञदानस्वधास्वाहावषट्कारान् चाकरोत् ॥
देवद्विजगुरुणाञ्च पूजनं क्वापि नाऽभवत्
॥३१॥मेरु याता ऋषिगणाः केचिद् भ्रंशमुपागताः ।
एवं त्रैलोक्यप्रबला दैत्या जाताश्च राक्षसाः
॥३२॥विलीना निधनं प्राप्ताः साधवो देवतागणाः ।
यथा देवगणा मोक्षं सिन्धोः प्राप्ताः शृणुष्व तत्
॥३३॥इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुदुःशासनवर्णनं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥