राजस्वानन्दप्राप्तिवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः
ब्रह्मोवाच
पपुरिक्षुरसं पुण्यनिचैयर्लभ्यमञ्जसा ।
तन्मध्ये पद्मिनी श्वेता सहस्रदलपद्मयुक्
॥१॥सहस्रकिरणप्रख्यं तस्यां यत्पद्ममुत्तमम् ।
तन्मध्ये तस्य देवस्य पर्यङ्कोतिमनोहरः
॥२॥दिव्यास्तरणसम्पन्नो दिव्यधूपैः सुधूपितः ।
दिव्यनानाकुसुमवान् स्वप्रभै रत्नसञ्चयैः
॥३॥भासयन्प्रभया सर्वा दिशो विदिश एव च ।
व्यजनैर्वीज्यमानं स तत्र शेते विनायकः
॥४॥कोटिचन्द्रनिभो नानालङ्कारो नागभूषणः ।
रम्भास्तम्भनिभं शुण्डादण्डं रदनसुन्दरम्
॥५॥दधद्दिव्याम्बरच्छन्नो भालनेत्रः किरीटवान् ।
कुण्डले चाङ्गदे मुद्रां कटिसूत्रं महाधनम्
॥६॥सिद्धिबुद्धी सिद्धिहेतू पादौ संवहतोऽस्य ह ।
अणिमागरिमाश्वेतचामरैर्वीजितः स्म ह
॥७॥ज्वालिनी तेजिनी दीप्यमाने चोभयतः स्थिते ।
दिव्यगन्धेन लिप्ताङ्गो दिव्यमालाविभूषितः
॥८॥महिमा प्रथिमादाय स्थिते दृष्टिसमीपतः ।
जलं गण्डूषपात्रं च छत्रं काञ्चनरत्नयुक्
॥९॥ततो दूतौ करे धृत्वा तं नृपं पुरतोऽस्य तु ।
ईक्षेते वागवसरं ततो देवोऽन्वबुध्यत
॥१०॥तौ दूतावूचतुर्देवमानीतोऽयं तवाज्ञया ।
प्रणम्य च स्थितौ दूरं तदाज्ञापेक्षकावुभौ
॥११॥तस्मिन्प्रबुद्धे राजा स प्रणनाम कृतां जलिः ।
उवाच परमप्रीत्या धन्यो वंशो ममाद्य ह
॥१२॥पितरौ जन्म विद्या च तपो दृष्टिः सुतादयः ।
येन मे दर्शितं ब्रह्म ध्येयं पदयुगं तव
॥१३॥न ब्रह्मलोके कैलासे शक्रलोकेऽपि वैभवः ।
एतादृशोऽदर्शि मया नान्यलोकेऽपि कश्चन
॥१४॥दूतावूच आस्यतां स ततस्तौ च निषेदतुः ।
तत्तोऽपश्यद् बालरूपं द्विभुजं स विनायकम्
॥१५॥येन तौ निहतौ दैत्यो देवान्तकनरान्तकौ ।
अतिगौरं कोमलाङ्गं हिमकर्पूरसन्निभम्
॥१६॥न शशाक तदा वक्तुं बाष्परुद्धमहागलः ।
आनन्दाश्रुनदीपूरैरासिञ्चंस्तत्पदद्वयम्
॥१७॥विज्ञाय तन्महाभक्तिमुत्थाप्यालिङ्ग्य विघ्नराट् ।
मूर्ध्न्याघ्रातश्च पितृवद् बहुकालगतः सुतः
॥१८॥देवोऽपि बाष्पकण्ठोऽभूदुभौ रोमाञ्चसंयुतौ ।
उभौ सुखाब्धि संमग्नौ देहातीतौ यथा मुनी
॥१९॥उवाच वचनं पश्चाद्बालरूपी विनायकः ।
त्वद्गृहेऽनेकधा तात क्रीडता यत्कृतं मया
॥२०॥तत्क्षान्तं हि त्वया सर्वं शुभं वा यदि वाऽशुभम् ।
निहता बहवो दैत्या धराभारश्च संहृतः
॥२१॥पालिताः साधुलोकाश्च स्थापिता धर्मसेतवः ।
तवाज्ञया पुनर्यातः कश्यपं सृष्टिकारकम्
॥२२॥प्रणम्य तं निजं लोकं प्राप्तोऽमुं सर्ववैभवम् ।
त्वामेव परिचिन्त्याहं विश्रान्तिं न लभे क्वचित
॥२३॥तवादिभावं ज्ञात्वाऽहं मुदगलं मुनिपुङ्गवम् ।
अप्रेषयं तव गृहं तदनुग्रहतस्त्वया
॥२४॥प्राप्तं स्थानं मुद्गलेन भक्तेनेदं त्वयाऽपि च ।
यदगम्यं सदा देवैर्ब्रह्माद्यैर्मुनिपुङ्गवैः
॥२५॥क उवाच
पीत्वा वागमृतं तस्य नृपो नत्वा पुनःपुनः ।
उवाच धैर्यमालम्ब्य तुष्टाव च यथामति
॥२६॥नृप उवाच
नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय ।
यत्पद्मपाशासिपरश्वधादिसुचिन्हितं विघ्नहरं निजानाम्
॥२७॥यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च ।
अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि
॥२८॥नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् ।
कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति
॥२९॥नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसङ्घम् ।
अनेकभक्ताभयदं सुरेश संसारकूपोत्तरणावलम्बम्
॥३०॥त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य ।
तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश
॥३१॥यः शुद्धचेता भजतेनिशं त्वामाक्रम्य विघ्नान् परिधावसि त्वम् ।
स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम्
॥३२॥येऽन्ये भजन्तः समवाप्य तापान् संसारचक्रे बहुधा भ्रमन्तः ।
कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि
॥३३॥धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां च धाराः ।
नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः
॥३४॥निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् ।
गुणप्रपञ्चः प्रकृतेर्विलासो जनस्य भोगश्च तथा कथं स्यात्
॥३५॥सत्सङ्गतिश्चेत्सदनुग्रहः स्यात्सकर्मनिष्ठा सदनुस्मृतिश्च ।
चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात्
॥३६॥क उवाच
इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः ।
उवाच काशीराजं स वरं वृणु हृदि स्थितम्
॥३७॥नृप उवाच
जातं वरस्य कृत्यं मे यत्राहंहि समागतः ।
इतः पुनर्जन्ममृती न स्यातां तद्विधीयताम्
॥३८॥क उवाच
स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् ।
स्थापयामास निकटे कल्पकोटियुगावधि
॥३९॥मुने स्तोत्रं मया तस्मात्प्राप्तं तस्य प्रसादतः ।
नारदाय मया प्रोक्तं नारदो गौतमाय च
॥४०॥प्राह सोऽपि मुनीन्सर्वान्सर्वकामफलप्रदम् ।
ज्ञानदं मोक्षदं विघ्ननाशनं पावनं परम्
॥४१॥यः पठेत्स लभेद्भक्तिं गणेशसन्निधौ नरः ।
विद्याकामो लभेद् विद्यां त्रिसन्ध्यं यः पठेन्नरः
॥४२॥पुत्रकामो लभेत्पुत्रान् जयकामो लभेज्जयम् ।
एवं सर्वं समाख्यातं यद् यद् पृष्टं त्वया मुने
॥४३॥आख्यानं काशिराजस्य किमन्यच्छ्रोतुमिच्छसि ।
भृगुरुवाच ।
इति श्रुत्वा ब्रह्मवाक्यं व्यासो निःसंशयो गिरम्
॥४४॥पुनः पप्रच्छ सुमतिर्विस्तरेण कथान्तरम् ।
व्यास उवाच ।
शुक्लस्यातिदरिद्रस्य हृतं दारिद्र्यमादरात्
॥४५॥भुक्त्वा कदन्नं तद्गेहे काशिराजं समेत्य च ।
किं चकार स देवोऽपि काशिराजश्च तद्वद
॥४६॥कथं तौ निहतौ दैत्यौ भूभारश्च कथं हृतः ।
स्थापितश्च कथं धर्मस्तन्मे शंस यथाविधि
॥४७॥क उवाच
कथयामि समासेन चरितं बालरूपिणः ।
हृत्वा शुक्लस्य दारिद्रयं यद्यतेन कृतं मुने
॥४८॥इति श्रीगणेशपुराणे क्रीडाखण्डे काशिराजस्य स्वानन्दप्राप्तिवर्णनं (स्वानन्दप्राप्तस्य काशिराजस्य श्रीगणेशदर्हनं) नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥