मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 137

3
क्रीडाखण्डः · 137

वरेण्योपदेशो नाम सप्तत्रिशदधिकशततमोऽध्यायः

क उवाच

तं दृष्ट्वा बालकं प्राह सिन्दूरो मदगर्वितः ।

लज्जा मे जायते मन्द युध्यतो बालकेन ह

॥१॥

याहि शीघ्रं गृहं बाल पिब मातुः स्तनं मुदा ।

वृथा मच्छरपातेन सद्यो मृत्युमुपैष्यसि

॥२॥

पलायन्ते हि मां दृष्ट्वा केशाद्यास्त्रिदिवौकसः ।

मृते त्वयि तव स्नेहात्पितरौ ते मरिष्यतः

॥३॥

अतो गच्छ न मे स्वास्यं दर्शयस्व किशोरक ।

यस्य मे तलघातेन ब्रह्माण्डं शतधा भवेत्

॥४॥

देव उवाच

सत्यमुक्तं त्वया दुष्ट न चेतसि विचारितम् ।

न ज्ञातं मम सामर्थ्यं रूपं वा विविधं त्वया

॥५॥

यस्य मे क्रोधदृष्टयैव भ्रष्टाः स्युः सुरनायकाः ।

स्वेच्छयाऽहं सृजे भावैस्त्रिभिरेव हरामि च

॥६॥

विश्वं चराचरं नानारूपवांस्तु युगे युगे ।

भूमिभारं महाघोरं हरामि दुष्टनाशनात्

॥७॥

न लघुर्लघुतामेति पराक्रमयुतोऽपि चेत् ।

अणुमात्रो दहेद्वह्निः सकलं नगरं महत्

॥८॥

जिजीविषुश्चेद् गच्छ त्वं नत्वा मां निजमन्दिरम् ।

मानिनो नैव निघ्नन्ति नतं च शरणागतम्

॥९॥

नो चेन्मच्छस्त्रपातेन स्वर्गलोकं गमिष्यसि ।

हते त्वयि सुखं यास्ये त्वया यत्पीडितं जगत्

॥१०॥

ब्रह्मणो वरदानेन मा गर्वं कुरु दैत्यराट् ।

विपरीतं भवेत्सर्वं विपरीतं यथा पुरा

॥११॥

स्तम्भेऽवतीर्णो न्यहनत् हिरण्यकशिपुं विभुः ।

सुग्रीवेण हतो बन्धू राममाश्रित्य कालतः

॥१२॥

विपरीता मतिर्जाता तवापि कालयोगतः ।

अतिस्थूलो लघुतरो भाससे मम साम्प्रतम्

॥१३॥

धृत्वा धैर्यं च लज्जां च युद्धं कुरु मया सह ।

क उवाच ।

एवमुक्त्वा दधाराशु विराङ्रूपं गजाननः

॥१४॥

ब्रह्माण्डदूर्ध्वमगमन्मस्तकश्चरणौ तथा ।

पातालानि च सप्तानि भित्त्वा यातौ श्रुती दिशः

॥१५॥

पश्यति स्म यदा दैत्यो बालं तं विश्वरूपिणम् ।

सहस्रशिरसं देवं सहस्राक्षं दिवो भुवम्

॥१६॥

सहस्रपादं व्याप्याशु स्थितं व्याप्य दिशोदश ।

दिव्याम्बरं दिव्यगन्धं दिव्यालङ्कारभूषितम्

॥१७॥

असङ्ख्यसूर्यसदृशमसङ्ख्यरूपिणं विभुम् ।

एवं दृष्ट्वा विराङ् रूपं च कम्पे दैत्यमानसम्

॥१८॥

धृत्वा धैर्यं पुनर्दैत्यो ययौ देवस्य सन्निधौ ।

जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च

॥१९॥

उद्यम्य खड्गं सहसा देवं हन्तुमियेष सः ।

ययौ तत्पुरतः क्रोधात्पतङ्गो ज्वलनं यथा

॥२०॥

देव उवाच

नायं मूढो विजानीते स्वरूपं मम दुर्लभम् ।

अहमेव विमोक्ष्यामीत्युक्त्वा कण्ठे दधार तम्

॥२१॥

ममर्द सिन्दुरं तं स कराभ्यां बलवत्तरम् ।

ततस्तदसृजाङ्गानि विलिलिम्पारुणेन सः

॥२२॥

ततः सिन्दूरवदनः सिन्दूरप्रिय एव च ।

अभवज्जगतीख्यातो भक्तकामप्रपूरकः

॥२३॥

सिन्दूरे निहते देवा मुदा पुष्पाण्यवाकिरन् ।

अवाद्यञ्जयवाद्यानि ननृतुश्चाप्सरोगणाः

॥२४॥

आययुस्तत्र मुनयो वसिष्ठप्रमुखाः सुराः ।

ब्रह्माद्याः सकलाः शक्रपुरोगा वस्तुपाणयः

॥२५॥

जयशब्दैर्नमः शब्दैः पूरयन्तो दिशो दश ।

ततः सर्वे भूमिपाला ययुस्तत्र मुदान्विताः

॥२६॥

षोडशैरुपचारैस्तमानर्चुः परमेश्वरम् ।

गजाननं चतुर्बाहुं सर्वाभरणभूषितम्

॥२७॥

दिव्याम्बरं दिव्यगन्धमाखुवाहनमीश्वरम् ।

प्रार्थयामासुरिन्द्राद्याः स्तोतुं त्वां न हि शक्नुमः

॥२८॥

यत्र कुण्ठाश्चतुर्वेदा ब्रह्माद्याश्च मुनीश्वराः ।

त्वं कर्ता कारणं कार्यं रक्षकः पोषकोऽपि च

॥२९॥

संहर्ता मोहनश्चास्य विश्वस्य ज्ञानदः क्वचित् ।

सरितः सागरा वृक्षाः पर्वताः पशवोऽखिलाः

॥३०॥

वायुराकाशपृथिवी वह्निर्वारि त्वमेव च ।

ब्रह्मा विष्णुः शिवः शक्रो मरुतो मुनयोऽपि च

॥३१॥

गन्धर्वाश्चारणाः सिद्धा यक्षराक्षसपन्नगाः ।

अप्सरकिन्नरा देव त्वमेव स चराचरम्

॥३२॥

वयं धन्या यतो दृष्टः प्रत्यक्षं मोक्षसाधनः ।

सिन्दूरे तु हते देव सुखं प्राप्ता सुरोत्तमाः

॥३३॥

राजानो मुनयो लोकाः स्वस्वकार्ये मुदा रताः ।

भविष्यन्ति स्वधास्वाहावषट्काराश्रिताः क्रियाः

॥३४॥

नानावतारैः कुरुषे पालनं त्वं विशेषतः ।

दुष्टानां नाशनं सद्यो भक्तानां कामपूरकः

॥३५॥

क उवाच

एवमुक्त्वा सुरास्तं तु व्यदधुः सर्व एव ते ।

प्रासादं रम्यशिखरं स्थापयित्वा गजाननम्

॥३६॥

यस्य दर्शनमात्रेण मुच्यते पातकाज्जनः ।

कुलानि तारयेत्सप्त स्मरणादस्य मानवः

॥३७॥

पूजयित्वा प्रणम्यैनं परितृप्तिं ययुः सुराः ।

ततस्तं मुनयः सर्वे पुपूजुः परमादरात्

॥३८॥

सिन्दूरहेति नामास्य चक्रुः सिन्दूरनाशनात् ।

अतिसन्तुष्टमनसो नत्वा जग्मुः स्वमाश्रमम्

॥३९॥

ततः सर्वे मुनिवरा नत्वा देवं सुभक्तितः ।

पुपूजः परमात्मानं नानाद्रव्यैरनेकशः

॥४०॥

राजसदनमिति ते क्षेत्रं ख्यातिमुपैष्यति ।

वरेण्यस्तं विलोक्यैव निजपुत्रमबुध्यत

॥४१॥

यतो राज्ञां पदान्याशु हत्वा दैत्यं सुदारुणम् ।

दत्तानि भवता नाथसिन्दूरं लोककण्टकम्

॥४२॥

दैत्यविमर्दन इति नाम ख्यातिमुपैष्यति ।

पुपूज तनयं स्नेहात् तदा दृष्टपराक्रमम्

॥४३॥

मुमोच स्नेहजं चाश्रु न शशाक प्रभाषितुम् ।

अतिगद्गदकण्ठत्वाद्रुरोद भृशदुःखितः

॥४४॥

वरेण्य उवाच

मूढभावेन सन्त्यक्तो विघ्नभीतेन पापिना ।

यं त्वां पुजयितुं याता ब्रह्मशक्रपुरोगमाः

॥४५॥

अनन्तकोटिब्रह्माण्डनायकं त्वां न विद्महे ।

कामधेनुं निधिं कल्पवृक्षं मूढो यथा त्यजेत्

॥४६॥

मायया मोहितस्तेऽहमत्यजं त्वां तथा गृहात् ।

क उवाच ।

इति तच्छुचमाकर्ण्य कृपया परमेश्वरः

॥४७॥

आलिलिङ्ग वरेण्यं तं चतुर्बाहुभिरादरात् ।

उवाच परया भक्त्या वरेण्यनृपतिं विभुः

॥४८॥

देव उवाच

पुराकल्पे महारण्ये तपस्तप्तं सुदारुणम् ।

उभाभ्यां पक्वपर्णानि भक्षयित्वा वटस्य ह

॥४९॥

दिव्यवर्षसहस्रेण प्रसन्नोऽहं तदाभवम् ॥

भवद्भ्यांहि वृतः पुत्रो न मोक्षो मूढभावतः

॥५०॥

सोऽहं पुत्रत्वमापन्नो भूभारहरणायच ॥

सिन्दूरस्य वधं कर्त्तुं साधूनां पालनं तथा

॥५१॥

अन्यथा न शरीरं मे निराकारस्य साक्षिणः ।

वचनं तु कृतं सत्यं त्रैलोक्यस्यापि तोषणम्

॥५२॥

यास्येऽधुना निजं धाम न त्वं शोके मनः कृथाः ।

वरेण्य उवाच ।

संसारे बहुदुःखानि दृष्टानि दुःसहानि च

॥५३॥

इदानीं मोक्षमार्गं मे कृपया दिश दुःखहन् ।

साक्षात्कारे कथं बन्धस्तव स्याद् द्विरदानन

॥५४॥

मुक्तिं येनोपदेशेन यास्यामि तद्वदस्व मे ।

योगं तं येन सन्त्यक्ष्ये कामं क्रोधं मृतेर्भयम्

॥५५॥

क उवाच

एवमाकर्ण्य तद्वाक्यं कृपया स गजाननः ।

उपवेश्य स्वासने तं हस्तं शिरसि चादधत्

॥५६॥

गणेशगीतां तस्मै स उपदेष्टं प्रचक्रमे ।

निरस्य सर्वसन्देहान् विश्वरूपं प्रदर्श्य च

॥५७॥

गीतासारं स बुध्वैवः गणेशस्योपदेशतः ।

स्थाप्य राज्यममात्येषु तपसे वनमाययौ

॥५८॥

अतिवैराग्यसंयुक्तो दध्यौ तं च गजाननम् ।

आवर्तयत् सदा गीतामनन्य विषयःकृती

॥५९॥

यथा जलं जले क्षिप्तं जलमेव हि जायते ।

तथा तद्ध्यानतः सोऽपि तन्मयत्वमुपाययौ

॥६०॥

मुनिरुवाच

चतुरानन देवेश कृपया परया वद

॥४॥

गीतां तां तु गणेशस्य सर्वाऽज्ञानविनाशनीम्

॥६१॥

इति श्रीगणेशपुराणे क्रीडाखण्डे वरेण्योपदेशो नाम सप्तत्रिशदधिकशततमोऽध्यायः ॥ १३७ ॥