मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 66

3
क्रीडाखण्डः · 66

सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः

क उवाच

शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुतम् ।

एकाकिनं निरीक्ष्यैनं समालिङ्ग्य समूचतुः

॥१॥

आच्छादयन्तं वदनं व्रीडितं भृशविव्हलम् ।

अभाषमाणं कम्पन्तं वातयुक्तमिव द्रुमम्

॥२॥

पितोवाच

किमर्थं वदसे नैव स्वामवस्थां तु मूकवत् ।

ईप्सितं साधयिष्यामि यत्नात् त्रैलोक्यदुर्लभम्

॥३॥

क उवाच

पीत्वा वागमृतं तस्य सावधानमनाः सुतः ।

उवाच पितरं मातुर्निकटे निर्विशङ्कया

॥४॥

पुत्र उवाच

भवदाज्ञां गृहीत्वैव योद्धुं यातो विनायकम् ।

शरैराशीविषाकारैरसङ्ख्यर्नाशिताः सुराः

॥५॥

प्रवर्तिता असृङ्नद्यो भग्ना सेना तु काश्यपी ।

तत एका महाकृत्या दरीवक्त्रा नभःस्पृशी

॥६॥

करालकेशी पातालचरणा पर्वतस्तना ।

आगता देवसेनाया रक्षणार्थं ममान्तिकम्

॥७॥

खड्गेन निहता सा तु विव्यथे नैव किञ्चन ।

निक्षिप्ता सर्वसेना मे तया तात दरीभगे

॥८॥

भक्षयन्त्येव सर्वाणि शस्त्राणि शरसञ्चयान् ।

सा मां भगे विनिक्ष्यिप्य याता देवं विनायकम्

॥९॥

स्निग्धत्वात्तद्भगस्याहं चलितः पतितो भुवि ।

महान्धकारे न ज्ञातः पलाय्य गृहमागतः

॥१०॥

स्नात्वा नदीजले तात व्रीडितोऽधोमुखस्ततः ।

क उवाच ।

एवं पुत्रवचः श्रुत्वा रौद्रकेतुर्जगाद तम्

॥११॥

उपायं ते वदाम्येकं न चिन्तां कर्तुमर्हसि ।

ततो मुहूर्तमालोक्य ददौ तस्मै महामनुम्

॥१२॥

अघोरस्य सबीजं तमुवाच जनकः पुनः ।

शिवं ध्यात्वा च सम्पूज्य कुर्वनुष्ठानमुत्तमम्

॥१३॥

होमं च तर्पणं विप्रभोजनं च दशांशतः ।

शिवे प्रसन्ने कुण्डाद्धि तुरङ्गो निःसरिष्यति

॥१४॥

तमारुह्य व्रज रणं जयं प्राप्स्यसि निश्चितम् ।

क उवाच ।

एवं पितुर्वचः श्रुत्वा प्राह पुत्रो मुदा च तम्

॥१५॥

उपदेशः कृतः सम्यग्विधिमस्य ब्रवीतु मे ।

ततो लोकं निवार्यैव जग्मतुर्गृहमध्यतः

॥१६॥

उभावारक्तवसनौ रक्तचन्दनचर्चितौ ।

रक्तपुष्पाणि सन्नीय शिवं पुपूजतुस्तदा

॥१७॥

अनुष्ठानं बहुदिनं चक्रतुः परमादरात् ।

अनुष्ठाने समाप्ते तु कुण्डं चक्रतुरादरात्

॥१८॥

षट्कोणं लक्षणैर्युक्तं मेखलायोनिसंयुतम् ।

तत्राग्निं विधिवत्स्थाप्य पात्राणि च यथाविधि

॥१९॥

पञ्चप्रेतासनगतौ जहुवुस्तौ हविस्तदा ।

स्वजानुभागमांसानि छित्त्वा छित्त्वा च भक्तितः

॥२०॥

असृग्घृतेन मांसेन तप्तोऽभूत् पावकस्तदा ।

दशांशहोमे जाते तु पुपूजे वह्निदेवताम्

॥२१॥

बलिदानं चकाराशु छित्त्वा पुत्रशिरस्तदा ।

तेन पूर्णाहुतिं चक्रे विससर्जाथ पावकम्

॥२२॥

ईश्वरस्य प्रसादेन पुत्रोऽस्य पूर्ववद् बभौ ।

ब्राह्मणान्भोजयामास तर्पणान्ते यथाविधि

॥२३॥

ततो रात्र्यां व्यतीतायामुदिते च दिवाकरे ।

ददर्श तुरगं कृष्णं स्निग्धाङ्गं बलवत्तरम्

॥२४॥

मनोजवं हेषितेन कम्पयन्तं जगत्त्रयम् ।

पुपूज परया भक्त्या नीराज्यैनं यथाविधि

॥२५॥

अलङ्कृत्यालङ्करणैर्मणिमुक्तामयैः शुभैः ।

नमस्कृत्य द्विजान् सम्यक् पितरं परिगृह्य च

॥२६॥

आशिषोऽथ समारुह्य तमश्वं स सुरान्तकः ।

शेषसेनां समादाय ययौ शेषं प्रकम्पयन्

॥२७॥

शस्त्रास्त्रैः कवचैः शूलैर्भाति सेना धनुःशरैः ।

आससाद रणस्तम्भं तया सह सुरान्तकः

॥२८॥

क्रन्दत्सु सर्वसैन्येषु संत्रस्ता देववाहिनी ।

व्याप्ते तु राजसा व्योम्नि न प्राज्ञायत किञ्चन

॥२९॥

पुनरप्यागतो दैत्यः सद्यः सेनाविघातकः ।

सिद्धिसेनाचराश्चैव प्राद्रवन् दुःखिता भृशम्

॥३०॥

दृष्ट्वा रणागतं तं तु सिद्धिसेना समुत्थिता ।

हेषाभिःसिंहनादैश्च नादयन्ती दिगन्तरम्

॥३१॥

ततः शत्रप्रहारैश्च विजघ्नुरितरेतरम् ।

सहस्व प्रहरामीति प्रबोध्य जघ्नुरोजसा

॥३२॥

भुवि जानुं विनिक्षिप्य शरानाशीविषोमपान् ।

आकर्णं धनुराकृष्य युयधुस्ते परस्परम्

॥३३॥

खेटानि चान्तरे कृत्वा युयुधुश्चापरे तदा ।

स्मृत्वा पूर्वप्रहारं च परिजघ्नुश्च केचन

॥३४॥

पूर्ववैरमनुस्मृत्य रिपुंश्चक्रे विरूपिणः ।

कोऽपि वीरश्रिया युक्तो रिपुं केशेषु चाग्रहीत्

॥३५॥

पार्ष्णिघातैर्मुष्टिघातैः पातयामास भूतले ।

कौचिन्मत्तौ शिरोघातं जघ्नतुरितरेतरम्

॥३६॥

ततो भग्नां दैत्यसेनां दृष्ट्वा स तु सुरान्तकः ।

अश्वं सम्प्रेषयामास सेनां सिद्धिविनिर्मिताम्

॥३७॥

अश्वहेषां समाकर्ण्य केचिन्मूर्छागता भुवि ।

पतिता अश्वचरणैश्चूर्णिताश्चापरेसुराः

॥३८॥

त्रिशूलेन हताश्चान्ये खड्गेन च तथा परे ।

बाणजालैरनेकैश्च पातयामास वै सुरान्

॥३९॥

सर्वस्मिन् हन्यमाने तु स्वसैन्ये सिद्धयस्तदा ।

पलायनं समालम्ब्य ययुः सर्वा विनायकम्

॥४०॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥