मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 12

3
क्रीडाखण्डः · 12

निशाचरवधो नाम द्वादशोऽध्यायः

क उवाच

ततस्तु सप्तमे वर्षे प्रवृत्तेऽसौ विनायकः ।

स्नात्वा नित्यविधिं कृत्वा मुकुटभ्राजि मस्तकः

॥१॥

आयुधानि च चत्वारि सिंहारूढो दधार सः ।

अङ्कुशं परशुं पद्मं पाशं सर्वभयापहम्

॥२॥

दण्डाजिने कुण्डले च काञ्चने रत्नसंयुते ।

बिभ्रत् कमण्डलुं दर्भान् कौशेयं पीतमुत्तमम्

॥३॥

कस्तूरीतिलकं चन्द्रं ललाटे क्षीणतेजसम् ।

मुक्ताफलमयीं मालां कण्ठे नाभौ फणीश्वरम्

॥४॥

रोदसी कम्पयन्नुच्चैर्जगर्जाऽसौ स्वलीलया ।

मेघस्वन इति भ्रान्त्या चातका व्याददुर्मुखम्

॥५॥

उत्छलन्त्यो महानद्यः सिषिचुर्व्योममण्डलम् ।

तदाननन्दतुरुभावदितिः कश्यपोऽपि च

॥६॥

धन्या वयं पूर्वजा न इत्यात्मानं प्रशंसतुः ।

एतस्मिन्समये काशीराजोऽप्याश्रममभ्यगात्

॥७॥

परस्परालिङ्गनेन मुमुदुस्तेऽखिलास्तदा ।

न्यविशन्ताऽऽसने सर्वे नमस्कृत्य परस्परम्

॥८॥

स्वाद्वन्नं भोजयामास मुनिस्तं षड्रसैर्नृपम् ।

विश्रान्तं परिपप्रच्छ किमागमनकारणम्

॥९॥

श्रीमतां दर्शनं नोऽद्य जातं पुण्यवशान्नृप ।

पुरोहितस्य मे न त्वं वृत्तान्तं किं गृहीतवान्

॥१०॥

क उवाच

एवं मुनिवचः श्रुत्वा जगाद नृपसत्तमः ।

क्षमापराधं मे ब्रह्मन् राज्याकुलित चेतसः

॥११॥

पुत्रस्य मे विवाहोऽस्ति त्वामाकारयितुं प्रभो ।

आगतोऽहं मुने जातः कृतार्थस्तव दर्शनात्

॥१२॥

चल शीघ्र विवाहं त्वं सम्पाद्य पुनरेव हि ।

न श्लाघ्यो लोकवर्येषु विना चैवागमं तव

॥१३॥

अहमेव समायातोऽतस्त्वां नेतुं महामुने ।

मुनिरुवाच ।

नाहमेष्ये नृपश्रेष्ठ चातुर्मास्यरतोऽधुना

॥१४॥

पुत्रं नय समर्थं मे यदीच्छसि जनाधिप ।

राजोवाच ।

पुत्रामाज्ञापय मुने गमिष्यावो जवान्वितौ

॥१५॥

एवं नृपवचः श्रुत्वा मुनिः पुत्रमथाब्रवीत् ।

वचोऽनुरोधाद्राज्ञोऽस्य प्रेषये त्वां विनायक

॥१६॥

विद्यमानेतु महति दुःखे विरहजे तव ।

धृत्वाज्ञां शिरसा वन्द्य चरणावुभयोरपि

॥१७॥

मातापित्रोर्बहिरगाद् राज्ञा चारोऽपितो रथे ।

सोऽपि नत्वा तयोः पादौ स्वयमारुरुहे रथम्

॥१८॥

आजगामादितिस्तं च प्रावदन् नृपसत्तमम् ।

अयं मे बालको राजन् रक्षणीयो निरन्तरम्

॥१९॥

उत्पातो जायते तत्र यत्र मे बालको भवेत् ।

अतोऽयं यत्नतो रक्ष्यः पक्ष्मणीव कनीनिकाम्

॥२०॥

यथा नयसि पुत्रं मे तथाऽत्र त्वं समानय ।

ओमित्युक्त्वाऽदितिं राजा प्रणिपत्य विसृज्य ताम्

॥२१॥

सह तेन ययौ शीघ्रं रथेनाऽनिलरं हसा ।

गच्छता रथमार्गेण राज्ञा प्राप्ता महाटवी

॥२२॥

नरान्तक पितृव्यस्य स्थानं तच्चातिसुन्दरम् ।

रौद्रकेतोर्बली भ्राता धूम्राक्षो नाम नामतः

॥२३॥

दशवर्षसहस्रं स तरस्तेपे सुदारुणम् ।

सहस्रकिरणं नित्यं नित्यमाराधयन्मुदा

॥२४॥

प्रार्थयन् सर्वसंहारकरमायुधमुत्तमम् ।

त्रयाणां भुवनानां स इच्छन् वश्यत्वमात्मनः

॥२५॥

वृक्षस्कन्धालम्बिपादोऽधोमुखो धूममापिबन् ।

एवं बहुगते कालेऽमोघं शस्त्रमुपस्थितम्

॥२६॥

प्रेषितं भानुना तस्मै राक्षसाय तपस्यते ।

व्योमव्यापी यस्य तेजो ददर्श स विनायकः

॥२७॥

शीघ्रमुड्डीय जग्राह गरुत्मानिव पन्नगम् ।

तदा विस्मयमापेदे काशिराजो महामनाः

॥२८॥

तर्कयामास मनसि लाभे हानौ च जीवने ।

नास्ति दैवातिरेकेण निमित्तं भुवनत्रये

॥२९॥

मम नैवाऽभवत्प्राप्तिः सहसा तस्य तस्य या ।

ज्ञातुं तदस्त्रसामर्थ्यं तोलयित्वाऽक्षिपच्च सः

॥३०॥

ऊर्ध्वं गतं तदैवाशु रवं कृत्वा भयानकम् ।

धूम्राक्षे पतितं तत्तु स तदैव द्विधाऽभवत्

॥३१॥

गण्डशैला द्रुमास्ताभ्यां खण्डाभ्यां चूर्णिता भृशम् ।

धनुः पञ्चशतं पृथ्वी पतद्भ्यां व्यापिता तदा

॥३२॥

ततस्तस्य सुतौ ख्यातौ जघनो मनुरेव च ।

शुश्रूषायां रतौ तस्य पितरं वीक्ष्य तादृशम्

॥३३॥

क्रोधाविष्टौ ददृशतुस्तं विनायकमन्तिके ।

दुद्रुवतुः प्रसार्यैवं वक्त्रं कालान्तकोपमम्

॥३४॥

बटुमानीय पितरं कथं घातितवानसि ।

इत्यूचतुः काशिराजं रोषाविष्टौ निशाचरौ

॥३५॥

रक्षितोऽसि पुरा पित्रा मम पूर्वं नरान्तकात् ।

तं मारयित्वा यत्नेन कथं जीवसि रे नृप

॥३६॥

क उवाच

इत्याकर्ण्य नृपो वाक्यं च कम्पे भृशविव्हलः ।

तर्कयामास मनसि कथमानीतवानहम्

॥३७॥

नन्दन कश्यपस्यैनमपस्मारमिव स्थितम् ।

क्रुद्धो नरान्तकश्चेन्मे बलाद् राज्यं ग्रहीष्यति

॥३८॥

तदा मे रक्षिता कः स्यात् ततः शपथमारभत् ।

नृप उवाच ।

एतदर्थं मयाऽनीतो नैवायमर्भकः क्वचित्

॥३९॥

ब्राह्मणेश्वरयोरत्र शपथो मे निशाचरौ ।

पुरोहितस्य पुत्रोऽयं विवाहार्थं समाहृतः

॥४०॥

न विघ्नं कुरुतं तत्र नीयतां बालकोह्ययम् ।

इत्यस्य वचन्ताते स मुनिपुत्रो जगाद तम्

॥४१॥

कथं बद्ध्वा शत्रुहस्ते शिशुं मां त्वं प्रयच्छसि ।

अदितिं कश्यपं वापि वदिष्यसि किमुत्तरम्

॥४२॥

क्रुद्धश्चेत् कश्यपस्त्वां हि कुर्याद्भस्म न संशयः ।

एवं वदति तस्मिन्स्तु बालके मुनिनन्दने

॥४३॥

भक्षितुं तं समायातौ बिडालौ मूषकं यथा ।

प्रसार्य वदनं बालो घोरं शब्दमथाकरोत्

॥४४॥

च कम्पे च त्रिभुवनं तौ च निश्वासयोगतः ।

सम्प्राप्तौ मेघपटलं वात्ययैव यथा तृणम्

॥४५॥

मूहूर्त्तद्वितये जाते व्यस्तौ द्वौ तौ निपेततु ।

नरान्तकस्य नगरे जघनो मनुरेव च

॥४६॥

गिरिशीर्षे गण्डशैलौ महावातेरितौ यथा ।

पतद्भ्यां तच्छरीराभ्यां चूर्णितानि गृहाणि च

॥४७॥

मुखहस्तरवा आसन् हाहाकारो महानभूत् ।

किमिदं किमिदं दूता धावमाना ययुस्तदा

॥४८॥

मृतौ धूम्राक्षतनयौ श्रुत्वा सम्यग् व्यलोकयन् ।

सचेतनौ च तौ दृष्ट्वा सावधानावकुर्वत

॥४९॥

दूताँस्तां वूचतुः सर्वं वृत्तान्तमनुपूर्वशः ।

वधं पितुः काश्यपेयात् तस्य श्वासान्निपातनम्

॥५०॥

स गच्छति स्यन्दनेन काशीराजेन संयुतः ।

एवं दूता निशम्यैनं नरान्तकमथाब्रुवन्

॥५१॥

पितृव्यं निहतं श्रुत्वा सापराधं नरान्तकः ।

ऋषिपुत्रं तथा यान्तं काशीराजेन संयुतम्

॥५२॥

क्रोधेनारक्तनयनः पुरः पश्यन्निशाचरान् ।

अज्ञापयात् तमानेतुं सहस्रप्रमितांस्तदा

॥५३॥

धृत्वाऽनेयो मुनेः पुत्रो युद्धकृच्चेत् स हन्यताम् ।

काशीराजरथो वापि शीघ्रं गच्छन्तु राक्षसाः

॥५४॥

आज्ञामात्रेण ते जग्मुस्त्वरया वातरंहसः ।

काश्यपेयं च नृपतिं ददृशस्ते च तौ च तान्

॥५५॥

ततो विनायकश्चक्रे भीमशब्दं भयावहम् ।

ततो निशाचराः पेतुस्त्यक्त्वा प्राणांस्तु केचन

॥५६॥

केचित् पलायिताः केचिद् भग्नपादाः प्रपेदिरे ।

केषाच्चिन् मस्तका भिन्नाः केचिच्छीर्णोदराः शरैः

॥५७॥

भग्नास्या भग्ननेत्राश्च भग्नोरुबाहवः परे ।

प्रपलाय्य गता ये तु ह्यागतास्ते नरान्तकम्

॥५८॥

उदन्त सर्वमाचख्युर्विनायककृतं तदा

॥५९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते निशाचरवधो नाम द्वादशोऽध्यायः ॥ १२ ॥