मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 8

3
क्रीडाखण्डः · 8

नक्रमोक्षणं नाम अष्टमोऽध्यायः

क उवाच

विरजां निहतां श्रुत्वा राक्षसीं बलवत्तराम् ।

उद्धतो धुन्धुरश्चापि राक्षसौ बलवत्तरौ

॥१॥

आगतावाश्रमपदं कश्यपस्य महात्मनः ।

शुकरूपधरौ बालो दृष्ट्वा प्रोचेऽदितिं तदा

॥२॥

त्यक्त्वा स्तनं दीयतां मे उभौ रन्तुं शुकाविमौ ।

सोचे तं खगमौ शक्यौ भूगया न स्त्रिया क्वचित्

॥३॥

अथापि धर्तुं याता चेदुड्डीयैतौ गमिष्यतः ।

कटेरुत्तीर्य जग्राह बालस्तौ श्येनवत्तदा

॥४॥

पक्षाघातेन चञ्च्वा च जघ्नतुस्तौ भृशं च तम् ।

तावदास्फालयत् सोऽपि तौ बलेन धरातले

॥५॥

जहतुस्तौ तदा प्राणान् निजरूपधरावुभौ ।

तद्देहभारभीत्या भूर्भृशं विव्हलिताऽभवत्

॥६॥

भग्नवृक्षौ सनिनदौ देहौ निपतितौ तयोः ।

गव्यूतिमात्रं तौ दृष्टवाऽदितिस्तं पुनरग्रहीत्

॥७॥

शरीरे ददृशे तेन मुनिना विस्तृते तयोः ।

छित्त्वा ददाह तौ लोकः काष्ठसञ्चययोगतः

॥८॥

चकाराद्भुतशान्तिं च बालकाभ्युदयेच्छया ।

आश्चर्यं परमं चक्रे शिशोर्दष्ट्वा पराक्रमम्

॥९॥

उवाच परमप्रीतोऽदितिं पुत्रयुतां तदा ।

यौ न देवेन शक्रेण न हतौ राक्षसेश्वरौ

॥१०॥

शुकरूपधरावेतौ लीलया शिशुना हतौ ।

अदितिं च चुकोपाऽसौ किमर्थं मोचितस्त्वया

॥११॥

रक्षितो जगदीशेन क्वायुष्यं नास्य विद्महे ।

अविस्मरो रक्षणीयो बालोऽयं यत्नतःसति

॥१२॥

कथं च निहतावेतौ गिरिसारौ निशाचरौ ।

निशाचरस्थलमिदं कथं जीवेच्छिशुर्मम

॥१३॥

क उवाच

उक्त्वा परस्परं तौ तु स्नाप्य बालं तथाविधम् ।

स्नात्वा सुषुपतुस्तत्र दम्पत्ती विस्मयान्वितौ

॥१४॥

ततश्चतुर्थे वर्षे स स्वाश्रमात् परतो ययौ ।

कासारं जलजैर्युक्तं नक्रमत्स्यगणैर्युतम्

॥१५॥

तमालवृक्षसरलजम्ब्वाम्रपनसान्वितम् ।

नानावृक्षलताकीर्णं फलपुष्पसुशोभितम्

॥१६॥

नानापक्षिगणाकीर्णं नानामुनिगणान्वितम् ।

अति स्वच्छजलं रम्यं सुजनस्येव मानसम्

॥१७॥

व्यतीपाते सोमवत्यां स्नातुं तत्रादितिर्ययौ ।

उपवेश्य स्वकं बालमाकण्ठं जलगाऽभवत्

॥१८॥

बाल उड्डीय तां गन्तुं जलमध्ये पपात ह ।

चिक्रीड स जले यावत् तावन्नक्रो दधार तम्

॥१९॥

धाव धावेति जननी चुक्रोश जलमध्यगा ।

आगत्य जननी बालं गृहीतुं नैव चाशकत्

॥२०॥

आकृष्यते जले तेन जनन्याः बहिरेव सः ।

स नक्रो बालसहितां दूरे दूरे चकर्ष ह

॥२१॥

बालोऽवदत् ततस्तां स न मोच्योऽहं सुतस्त्वया ।

सह त्वया सहैवाऽहं मरिष्ये न बलं मम

॥२२॥

दृष्ट्वा स बालामाकण्ठमग्नां तां विव्हलां भृशम् ।

निष्कासितुं बलाच्छिष्या उड्डीय पतिता वने

॥२३॥

तस्माद्बलवतो नक्रात् तेऽपि शक्ता न चाभवन् ।

ततोऽत्यन्तं बलं तस्य दर्शयामास बालकः

॥२४॥

लीलयैव तदा नक्रं पृथिव्यां जलतोऽक्षिपत् ।

वायुर्यथा फलं पक्वं ग्रावाणं बालको यथा

॥२५॥

शरीरं दृश्यते तस्य विशीर्णं पतितं भुवि ।

गतचेष्टं गतप्राणं योजनायतमद्भुतम्

॥२६॥

सबाला सह शिष्यैः सा मुदं प्राप्ताऽदितिस्तदा ।

ततो दिव्यवपुश्चित्रगन्धर्वस्तमुवाच ह

॥२७॥

अहमासं पुरा राजा गन्धर्वाणां गजानन ।

विवाहे सर्वगन्धर्वा मम गेहमुपागताः

॥२८॥

पूजिताः परया भक्त्या न भृगुः पूजितो मया ।

वैवाहिकानि कार्याणि कुर्वता कुपितो मुनिः

॥२९॥

शशाप मां नक्रवरो भविष्यसि सरोगतः ।

समाकर्ण्य मुनेः शापमुपशापं तमर्थयम्

॥३०॥

ततो भृगुरुवाचेत्थं यदा कश्यपनन्दनः ।

गजाननः स्पृशेत् त्वान्तु तदा स्वं वपुराप्स्यसि

॥३१॥

इदानीमसि विज्ञातो बालरूपी गजाननः ।

त्वमेव जगतां नाथः कर्ता पाताऽपहारकः

॥३२॥

निर्गुणो निरहङ्कारः सदसत्कारणं परम् ।

नानावतारैर्भक्तानां पालको दुष्टनाशनः

॥३३॥

सर्वव्यापी पूर्णकामोऽनेकब्रह्माण्डनायकः ।

मुनीनामप्यगम्यस्त्वं मनोवागनिरूपितः

॥३४॥

इति स्तुत्वा च नत्वा च सम्पूज्य बालरूपिणम् ।

गजाननं प्रयातोऽसौ कृत्वा प्रदक्षिणां मुहुः

॥३५॥

अदितिर्बालकं गृह्य लालयित्वा स्तनं ददौ ।

आश्चर्यमानसा याता प्रसन्ना निजमन्दिरम्

॥३६॥

प्रणम्य कश्यपं सर्व वृत्तान्तं समभाषत ।

स विस्मितोऽब्रवीच्चैनामयन्त्तु परमेश्वरः

॥३७॥

लीलाविग्रहवान् मन्ये मानुषं देहमाश्रितः ।

अत्यद्भुतानि चान्यानि कर्माण्येष करिष्यति

॥३८॥

देवासुरैरशक्यानि द्रष्टव्यानि प्रसादतः ।

अस्मिन् भक्तिर्दृढा कार्या जनैरात्महितेप्सुभिः

॥३९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नक्रमोक्षणं नाम अष्टमोऽध्यायः ॥ ८ ॥