मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 19

3
क्रीडाखण्डः · 19

कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः

क उवाच

बालकेन हतं श्रुत्वा ब्राह्मणं वेषधारिणम् ।

नरान्तको महादैत्यो कूपकं कन्दरासुरम्

॥१॥

प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।

दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च

॥२॥

दैत्य उवाच

गच्छ तं सुमुहूर्तेन हन्तुं बालं तमाशुच ।

नानोपायैर्मारितानां कुरूतं निष्कृतिं बलात्

॥३॥

क उवाच

एवं तेन समाज्ञप्तावसुरौ कूपकन्दरौ ।

सेनया चतुरङ्गिण्या गव्यूतिं सम्प्रतस्थतुः

॥४॥

निर्वर्त्य सेनां च तत ईयतुर्भृशहर्षितौ ।

विचारं चक्रतुर्मार्गे कूपोऽहं कूपतामियाम्

॥५॥

बालो भव क्रीडमानं मयि तं क्षिप यत्नतः ।

मण्डूकरूपः कूपस्थो भक्षयिष्यामितत्क्षणात्

॥६॥

अन्तर्धानं करिष्यावः कृत्वा कार्यं महत्तरम् ।

एवं तौ निश्चितमती काशिराजपुरं महत्

॥७॥

प्रापतुरभवत् कूपो महान्नृप नृपाजिरे ।

कन्दरो बालरूपोऽभूद् रन्तुं तेषु मनो दधे

॥८॥

राजाऽथ ददृशे कूपं सुजलं तं जहर्ष च ।

यावत् पश्यति मध्येऽसौ मण्डूकं तं ददर्श ह

॥९॥

नदन्तं मञ्जुलां वाणीं पीतवर्णं भयानकम् ।

कन्दरो बालमध्यस्थो जगाद तं विनायकम्

॥१०॥

बहिर्याहि महाबाहो पश्य कूपं मनोहरम् ।

ददर्श कूपं बालैः स बहिरागत्य तत्क्षणात्

॥११॥

अत्यन्तं सुन्दरं दृष्ट्वा तं कूपं बालकैः सह ।

चिक्रीडे विविधैर्भावैर्नानानिलयनैरपि

॥१२॥

मध्यान्हे जलमध्यस्थाः सिषिचुस्ते परस्परम् ।

मज्जनोन्मज्जनं चक्रुः कारयन्तः परस्परम्

॥१३॥

उड्डानं जलमध्ये ते दूरादागत्य चक्रिरे ।

एवं रमित्वा ते तत्र गृहान् गन्तुं समुद्यताः

॥१४॥

तावद् विनायकोऽपश्यज्जलमध्ये निजं वपुः ।

जानंन् तर्तुं जले सर्वान् पश्यन्नासीद् बहिः पुरा

॥१५॥

तावन्नुनोद तं दुष्टो जलमध्ये स कन्दरः ।

अगाधं तज्जलं ज्ञात्वा लोडयामास लीलया

॥१६॥

स्वेच्छया रमणो लक्ष्म्या क्षीराब्धिमिव वाडवः ।

अधो याति मुहूर्तं स उपरिष्टात्तथैव च

॥१७॥

मायामास्थाय स गणो मज्जितुं समजायत ।

चरणौ हस्तकमले चिक्षेप बहुधा शिशुः

॥१८॥

लुलुपुः सर्वशो बालास्तावत्तेन धृतो बलात् ।

चरणे कन्दरो नीतस्ततत्कूपतलमादरात्

॥१९॥

अमज्जयद् बलात् तं च मुञ्च मुञ्चेति सोऽब्रवीत् ।

विनायकोऽपि तं प्रोचे मुञ्च मुञ्चेति मामपि

॥२०॥

उभौ समबलौ तौ तु मज्जनोन्मज्जने रतौ ।

हिरण्यकशिपुर्लक्ष्मीनृसिंहाविव दुर्धरौ

॥२१॥

अधस्थाद् बहुकालं तौ गतौ ज्ञात्वाऽखिलार्भकाः ।

चक्रुरार्तस्वरं दुष्टं मृतो बाल इतिस्फुटम्

॥२२॥

अपशब्दं तथा श्रुत्वा ययुःस्त्रीवृद्धबालकाः ।

काशिराजोऽपि चुक्रोश किं कार्यमिति चाब्रवीत्

॥२३॥

अगाधनीरे कूपेऽस्मिन् कथं जीवेत् स बालकः ।

कोऽप्यूचे चापरः प्राह शीघ्रं निःसारितो यदि

॥२४॥

उपायो भविता कश्चिज्जीवनायास्य निश्चितम् ।

येन यत्प्रार्थ्यते दास्ये तदस्मै जीवितं स्वकम्

॥२५॥

निष्काश्यतां बहिर्बालो वेगेन च बलेन च ।

इति राजवचः श्रुत्वा कूपमध्ये गतास्त्रयः

॥२६॥

मग्नास्ते दैत्यकृतया मायया नापरो जनः ।

अवतर्तुं मनश्चक्रे ततो राजा शुशोच तम्

॥२७॥

राजो वाच

किं मयाऽकारि दुरितं येन मे दुःखमीदृशम् ।

कथं बालो मया नीतः सुखार्थं दुःखदोऽभवत्

॥२८॥

दर्शयिष्ये कथं तस्य पितृभ्यां मुखमेव च ।

जनाय वा कथमिदं कथमस्य मृतिर्भवेत्

॥२९॥

निरस्तान्यत् अरिष्टानि महान्ति बालकेन ह ।

कथमस्म वशं यातो न जाने देवचेष्टितम्

॥३०॥

एवं सर्वेषु शोचत्सु स्त्रीवृद्धबालकेषु च ।

मण्डूकरूपी कूपस्थो व्यादाय मुखमास्थितः

॥३१॥

तावदेवागतो बालो नोदितःकन्दरेण सः ।

तेनापि नोदितो दैत्यो दैत्यास्ये न्यपतत् खलः

॥३२॥

भक्षयामास कूपस्तं मत्स्यो मत्स्यमिवालघुः ।

गिलितो बाल इति स निजरूपं समास्थितः

॥३३॥

कूपोऽपि गगनस्पर्धां चक्रे श्लाघ्यां यथोर्जिताम् ।

सर्वेषामेव दैत्यानामानृण्यं गतवानहम्

॥३४॥

इत्युज्जहर्ष मनसा मत्वा देवमविक्रमम् ।

कन्दरस्तु रूषाविष्टो विदार्यास्य महोदरम्

॥३५॥

निर्गम्य वेगमास्थाय स बालोऽन्तर्हितः क्षणात् ।

विदारितं मे जठरमिति कूपोऽपि कन्दरम्

॥३६॥

अदशत् कण्ठदेशे स जीवग्राहं रूषा तदा ।

एवं परस्पर वधात् पतितौ विव्हलौ भृशम्

॥३७॥

पादहस्तावमर्दैन चूर्णितं नगरं कियत् ।

यथा सुन्दोपसुन्दौ तु परस्परवधान्मृतौ

॥३८॥

परस्परवधात् तद्वन्मृतौ तौ कूपकन्दरौ ।

राजभृत्यैरपाकृष्य त्यक्तौ तौ नगराद् बहिः

॥३९॥

तत्क्षणादजिरे कूपो पिदधे स विनायकः ।

ददृशे पूर्ववत् क्रीडन् सर्वबालयुतो जनैः

॥४०॥

आश्चर्यं मेनिरे तत्र बाला राजा जना अपि ।

ऊचुः परस्परं केचित् कापट्यं येन युज्यते

॥४१॥

आमूलान्नश्यते सोऽथ स्वयमेव न संशयः ।

पतङ्गो दीपनाशार्थमायाति नश्यते यथा

॥४२॥

अस्य चालयितुं शक्तो न स्यात् कालोऽपि रोम च ।

दृष्टं बहुविधं चास्य सामर्थ्यमवतारिणः

॥४३॥

जेतुमीशं गतः कामः स्वयं भस्मत्वमागतः ।

काशिराजस्तु तत् श्रुत्वा सत्यं सत्यमिति ब्रुवन्

॥४४॥

ददौ दानानि विप्रेभ्यो विससर्ज प्रपूज्य तान् ।

विनायकं नमस्कृत्य गता लोका निजान् गृहान्

॥४५॥

केचिदालिङ्ग्य तं बालं ययू राज्ञा प्रपूजितम् ।

देवाश्च पुष्पवर्षाणि मुमुचुस्तुष्टुवुर्जनाः

॥४६॥

क उवाच

एवं न ज्ञायते ब्रह्मन् कार्याकार्यं मरुद्बलम् ।

मायास्वरूपं पुंभाग्यं राक्षसाचरणं मुने

॥४७॥

अवतारगुणा वापि न ज्ञेया परमात्मनः

॥४८॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कूपकन्दरवधोनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥