``विश्वरूपदर्शनन्नाम'' अष्टमोऽध्यायः
८ पञ्चचत्वारिंशादधिकशततमोऽध्यायः ।
वरेण्य उवाच ।
भगवन्नारदो मह्यं तव नानाविभूतयः ।
उक्तवांस्ता अहं वेद न सर्वाःसोऽपि वेत्ति ताः
॥१॥त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन ॥
निजं रूपमिदानीं मे व्यापकं चारु दर्शय
॥२॥श्री गजानन उवाच
एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् ॥
नानाश्चर्याणि दिव्यानि पुरा दृष्टानि केनचित्
॥३॥ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ॥
चर्मचक्षुःकथं पश्येन्मां विभुमजमव्ययम्
॥४॥व्यास उवाच
ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।
ईशितुः परमं रूपं गजास्यस्य महाद्भुतम्
॥५॥असङ्ख्यवक्त्रं ललितमसङ्ख्याङ्घ्रिकरं महत् ।
अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम्
॥६॥असङ्ख्यनयनं कोटिसूर्यरश्मिधृतायुधम् ।
तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः
॥७॥दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् ।
वरेण्य उवाच ।
वीक्षेऽहं तव देहेऽस्मिन् देवानृषिगणान्पितॄन् ॥
पातालानां समुद्राणां द्वीपानां चैव भूभृताम्
॥८॥महर्षीणां सप्तकं च नानार्थैः सङ्कुलं विभो ॥
भुवोऽन्नरिक्षं स्वर्गांश्च मनुष्योरगराक्षसान्
॥९॥ब्रह्मविष्णुमहेशेन्द्रान् देवान् जन्तूननेकधा ॥
अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम्
॥१०॥प्रदीप्तानलसङ्काशमप्रमेयं पुरातनम् ॥
किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम्
॥११॥एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ॥
सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः
॥१२॥नृत्यद्भिरप्सरोभिश्च गन्धवैर्गानतत्परैः ॥
वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः
॥१३॥सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ।
वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम्
॥१४॥पातालानि दिशः स्वर्गान् भुवं व्याप्याखिलं स्थितम् ॥
भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम्
॥१५॥नाना दंष्ट्राकरालं च नानाविद्याविशारदम् ॥
प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् ॥
दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम्
॥१६॥देवा मनुष्या नागाद्याःखलास्त्वदुदरेशयाः ॥
नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च
॥१७॥अब्धेरुत्पद्यमानास्ते यथा जीमूतबिन्दवः ॥
त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत्
॥१८॥गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ॥
नमामि त्वामतः स्वामिन्प्रसादं कुरु मे धुना
॥१९॥दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् ।
को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया
॥२०॥अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् ।
ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम
॥२१॥श्रीगजानन उवाच
नेदं रूपं महाबाहो मम पश्यन्ति योगिनः ।
सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात्
॥२३॥चतुर्वेदार्थतत्त्वज्ञाश्चतुःशास्त्रविशारदाः ।
यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते
॥२४॥शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।
त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम्
॥२५॥मद्भक्तो मत्परः सर्वसङ्गहीनो मदर्थकृत् ।
निष्क्रोधः सर्वभूतेषु समो मामेति भुभूज
॥२६॥ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``विश्वरूपदर्शनं नाम'' अष्टमोऽध्यायः
॥८॥इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम पञ्चचत्वारिंशादधिकशततमोऽध्यायः ॥ १४५ ॥