बालचरिते एकादशोऽध्यायः
कश्यप उवाच
अयं तु मद्गृहे कोऽपि ह्यवतीर्णः परः पुमान् ।
अनिर्वाच्यगुणो हीनो गुणैस्त्रिभिरनावृतः
॥१॥एतद्विरोधं यः कुर्यात् स पदभ्रंशतामियात् ।
एतस्याद्भुतकर्माणि शृणु मे गदतः सुर
॥२॥विरजा राक्षसी घोरा हन्तुमेनं समागता ।
सा हता तेन बालेन पतिता हि द्वियोजना
॥३॥उद्धतश्चैव धुन्धुश्च दैत्यो परमदुर्मदौ ।
शुकरूपधरावेनं निहन्तुं समुपागतौ
॥४॥पक्षे धृत्वा पोथितौ तौ शिलायां गतजीवितौ ।
निपेततुर्धरापृष्ठे विशालौ सर्वदृग्गतौ
॥५॥तथैव चित्रगन्धर्वो जले नक्रत्वमागतः ।
एतस्य स्पर्शमात्रेण गतो दिव्यशरीरताम्
॥६॥हाहाहूहूतुम्बुरूणां सत्त्वसंशोधनाय सः ।
जहार पञ्चायतनं पञ्चधा स्वयमप्यभूत्
॥७॥सर्वेषां च समक्षं वो निहताः पञ्च राक्षसाः ।
एवं मुनिवचः श्रुत्वा बभाण बलवृत्रहा
॥८॥इन्द्र उवाच
न दृष्टोऽस्य गुणोत्कर्षस्तावन्मान्यो भवेत्कथम् ।
क उवाच ।
ततो दिदेश वायुं स नयैनं व्योममण्डलम्
॥९॥तस्यानुज्ञापदं वायुर्युगान्त सदृशो ववौ ।
आन्दोलयन्सर्वलोकं भ्रामयन् कुधरान्भृशम्
॥१०॥अकालः प्रलयः किं नु प्रारब्धो लोकनाशनः ।
इत्येवं भृशसंविग्ना ऋषयश्च च कम्पिरे
॥११॥बटुं नेतुं समायातो महाशक्त्या प्रभञ्जनः ।
न चासनं त्वस्य चलं रोम वा समपद्यत
॥१२॥भग्ने वायौ तु सम्प्राह शुष्माणं पाकशासनः ।
दहैनं त्वं बटुं शीघ्रं द्रष्टव्या शक्तिरद्य ते
॥१३॥तदाज्ञां शिरसा गृह्य जगाम तमुषर्बुधः ।
निर्दहन्निव त्रीन् लोकान् प्रलयानलसन्निभः
॥१४॥भस्मीकर्तुं द्रुमान् सर्वान् शोषयन् सर्वसागरान् ।
तं दहन्तं जनान् सर्वान् दृष्ट्वा कश्यपनन्दनः
॥१५॥तत्क्षणादगिलद् रोगी भेषजं गुटिकामिव ।
गिलिते तादृशे वह्नौ क्रोधसंरक्तलोचनः
॥१६॥सहस्रलोचनो लोकांल्लोचनैः सर्वलोचनैः ।
तावद् ददर्श तं तत्र सहस्राधिकलोचनम्
॥१७॥असङ्ख्यशीर्षमुकुटमनन्तश्रोत्रसंयुतम् ।
अनन्तहस्तचरणमनन्तोदारविक्रमम्
॥१८॥शशिसूर्याग्निनयनं शिखाव्याप्तनभस्तलम् ।
सप्तपातालचरणं सप्तलोकैकमस्तकम्
॥१९॥असङ्ख्यसूर्यसङ्काशमसङ्ख्येन्द्रसुसेवितम् ।
असङ्ख्यकेशसंयुक्तं नानाब्रह्माण्डरोमकम्
॥२०॥आमूलाग्राद्यथा वृक्षे भवन्त्यौदुम्बराणि वै ।
औदुम्बरे वा मशकाः सङ्ख्यातीता भवन्ति हि
॥२॥तथैवैकैकरोमाञ्चं सङ्ख्यातीताण्ड संयुतम् ।
पश्यंस्तत्रैवैकतरं भ्रान्तःशक्रो विवेश ह
॥२२॥पश्यति स्म स तन्मध्ये त्रैलोक्यं सचराचरम् ।
अरण्यकदलीकोशपत्रे पत्रे यथा फलम्
॥२३॥असङ्ख्यातं जगत् तत्र पश्यति स्म शचीपतिः ।
बभ्राम भ्रान्तचित्तोऽसौ नालभन् निर्गमं ततः
॥२४॥ततो ननाम मूर्ध्नाऽसावेदं भग्नमनोरथः ।
प्रार्थयामास देवेशं तदाशक्रो गजाननम्
॥२५॥शक्र उवाच
भूभारहरणार्थं यो जातः कश्यपनन्दनः ।
अचिन्त्यो महिमा यस्य किमु वर्ण्यो भवेन्मम
॥२६॥निर्गमं देहि देवेश कुक्षेरत्यन्तविस्तरात् ।
अदृष्टपाराद् वर्षाणि द्वादश भ्रमता मया
॥२७॥तव कुक्षौ मयाऽदर्शि भुवनानि चतुर्दश ।
स्थाने स्थाने विभक्तानि प्रतिरोमाञ्चमेकराट्
॥२८॥समष्टिव्यष्टिरूपाणि महाविस्तारवन्ति च ।
दृष्टानि तव रूपाणि सुसौम्यानीतराणि च
॥२९॥अद्भुतान्यप्यसङ्ख्यानि वक्त्राणि नयनानि च ।
दृष्ट्वा दुर्दर्शरूपाणि जगत्क्षोभकराणि ते
॥३०॥दैत्यदानवपूर्णानि सुरमानववन्ति च ।
यक्षरक्षः पिशाचादिचतुराकरवन्ति च
॥३१॥विकरालमहोरूपमुपसंहर विश्वकृत् ।
गतो मोहं स्मृतिर्लब्धा प्रसादान्निखिलेश्वर
॥३२॥कायेन मनसा बुद्ध्या वाचा त्वां शरणं गतः ।
प्राकृतं दर्शय विभो रूपं ते भक्तवत्सल
॥३३॥क उवाच
एवं यावत् प्रार्थयते स्वात्मानं तावदेव सः ।
सभामध्यगतं तं च ददर्शब्रह्मचारिणम्
॥३४॥पश्यतां सर्वलोकानां साष्टाङ्ग प्रणनाम तम् ।
अतिविस्मितचित्तोऽसौ लज्जाहर्षसमन्वितः
॥३५॥शृण्वस्तु सर्वदेवेषु नुनाव ब्रह्मचारिणम् ।
जातं मुनिगृहे शान्तं क्रीडामानुषरूपिणम्
॥३६॥शक्र उवाच
जाने न त्वाऽनन्तशक्ति परेशं विश्वात्मानं विश्वबीजं गुणेशम् ।
विश्वाभासं विश्ववन्द्यं त्रिसत्यं त्रेधाभूतं जन्मरक्षार्तिहेतुम्
॥३७॥एकं नित्यं सच्चिदानन्दनरूपं सर्वाध्यक्षं कारणातीतमीशम् ।
चेष्टाहेतुं स्थावरे जङ्गमे च वाञ्छापूरं सर्वगं त्वाऽभिवन्दे
॥३८॥सर्वेशानं सर्वविद्यानिधानं सर्वात्मानं सर्वबोधावभासम् ।
सर्वातीतं वाङमनोगोचरं त्वां सर्वावासं सर्वविज्ञानमीडे
॥३९॥क उवाच
एवं स्तुत्वा च नत्वा च सम्पूज्य स्वाङ्कुशं ददौ ।
कल्पवृक्षं ज दास्यौ द्वे विनायक इति स्फुटम्
॥४०॥चकार नाम शक्रोऽथ स्मरणात् सर्वसिद्धिदम् ।
जयशब्दैर्नमः शब्दैर्वाद्यशब्दैरनेकधा
॥४१॥गन्धर्वगीतनिनदैरप्सरोनृत्यनिस्वनैः ।
व्याप्तमासीत् पुष्पवर्षैस्तदा व्योम धरातलम्
॥४२॥प्रतिकूलवहा नद्य आसन् पूर्ववहाः शुभाः ।
प्रसन्नमासीद् दिक्चक्रं ववुर्वाताः सुखावहाः
॥४३॥प्रदक्षिणार्चिषः शान्ता आसन् सर्वत्र वह्नयः ।
ततः प्रसन्नः शक्राय ददावभयमेकराट्
॥४४॥भविता न भयं क्वापि तव शक्र रणाजिरे ।
पठस्व स्तोत्रमेतत्वं त्रिसन्ध्यं भक्तितत्परः
॥४५॥अन्योऽपि यः पठेद् भक्त्या श्लोकत्रयमिदं नरः ।
स सर्वानाप्नुयात् कामान् सर्वत्र विजयी भवेत्
॥४६॥ततः शक्रो नमस्कृत्य वरं प्राप्य शुभावहम् ।
ततः सर्वे नमस्कृत्य स्वं स्वं स्थानं ययुर्मुदा
॥४७॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते इन्द्रगर्वहरणं नामैकादशोऽध्यायः ॥ ११ ॥