मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 22

3
क्रीडाखण्डः · 22

बालचरिते द्वाविंशतितमोऽध्यायः

क उवाच

अपरस्मिन् दिने राजा प्रातःस्नानकृतोद्यमः ।

पौराः सर्वे वितर्क्यैवं नायं देवो न मानुषः

॥१॥

न देवश्चेत् कथं पञ्च महान्तो देवदुर्धराः ।

अजेयाः शक्रहरिभिर्हता दैत्या महाबलाः

॥२॥

देव एव भवेद् बालमध्येऽयं क्रीडते लघु ।

इति तर्क्य ततस्तावदागता राजदर्शनम्

॥३॥

राजाऽपि भद्रमगमदुवाच सकलान् प्रति ।

निरूपयन्तु यत्कार्यं तद् वः सिद्धिं प्रयास्यति

॥४॥

किमर्थं प्रातरेवेह पौरा यूयं समागताः ।

त ऊचुर्न रहस्यं यत् स्वाभिप्रेतमृते वचः

॥५॥

त्वयाऽयं हि समानीतो मुनिपुत्रो विनायकः ।

नास्य दास्यमभून्नो हि किञ्चित् क्वापि कदाचन

॥६॥

त्वया तु पूजितोऽनेकवारं स्वशरणे स्थितः ।

यद् यत् तव गृहे याति तत् तन्नः प्रेषयस्यहो

॥७॥

अयं तु न कथं राजन् प्रेषितो नु विनायकः ।

राजोवाच ।

सम्यगुक्तं यत्र जना विभज्य भुज्यते तु यत्

॥८॥

अमृतं याति च विषं विषमन्यद् भवेत्तु तत् ।

अस्मिन्यस्य भवेद् भक्तिर्देवे वा मानुषेऽपि वा

॥९॥

स एनं स्वगृहे नीत्वा पूजयेद् भोजयेदपि ।

जनास्तु त्रिविधाः पौरा रजःसत्त्वतमो गुणैः

॥१०॥

परीक्षन्तेऽनरा दुष्टाः पुण्यवन्तो भजन्त्यपि ।

केचिदेनं विनिन्दन्ति प्रशंसन्ति च केचन

॥११॥

यस्य स्वभावो यादृक् स्यात् तथा वर्तते नरः ।

न जहाति घृष्यमाणश्चन्दनः स्वसुगन्धिताम्

॥१२॥

कस्तुरीकर्दमयुतः पलाण्डुर्वा निजं गुणम् ।

भवतां यदि भक्तिश्चेदनन्याऽस्मिन्सुते मुनेः

॥१३॥

नीयतां पूजयन्त्वाशु भोजनाय प्रियाय च ।

परीक्षार्थं न नेयोऽसौ जनको जननी मम

॥१४॥

मया कथं नरा वाच्या नीत्वैनं पूजयन्त्विति ।

अस्य शक्तिं दृढां दृष्ट्वा मम भक्तिर्विशिष्यते

॥१५॥

नायं चेन्मत्पुरी क्वत्या कृतो यूयं क्व चाप्यहम् ।

इति राजवचः श्रुत्वा पुनरूचुश्च नागराः

॥१६॥

यथा वदसि कल्याण तत्तथा न तदन्यथा ।

अस्माकं कार्यसिद्धिर्या तां कुरुष्व जनाधिप

॥१७॥

नीत्वेमं स्वगृहे बालं पूजयामो यथार्हतः ।

एतस्मिन्नन्तरे बालोऽवदत् तान् सदसि स्थितान्

॥१८॥

जानन्नन्तर्गतं तेषां सर्वसाक्षी जगद्गुरुः ।

विनायक उवाच ।

किमर्थं मां प्रार्थयन्तो भवन्तोऽतिमहत्तराः

॥१९॥

अहं बालो मुनिसुतो मत्पूजनफलं नु किम् ।

भविष्यति न जानेऽहं भवतां व्ययकारिणाम्

॥२०॥

विवाहो व्रतबन्धो वा यज्ञो वाऽन्यो महोत्सवः ।

तदा भवद्गृहं यास्ये हव्यं कव्यं यदा भवेत्

॥२१॥

असङ्ख्याता भवन्तो हि कथमेको गृहं व्रजे ।

वकेशिनीं किमर्थं वा गां धोक्ष्यथ भवद्विधाः

॥२२॥

वाञ्छितार्थी कथं याचेत् त्यक्त्वा कल्पद्रुमं द्रुमम् ।

अन्यत् क्षुद्रं वाञ्छितं वा तद्वद् यूयं समुत्सुकाः

॥२३॥

क उवाच

विनायक वचः श्रुत्वा श्रेणीमुख्या जगुः पुनः ।

अस्मिन्विवाहे सम्पन्ने न स्थास्यति क्षणं भवान्

॥२४॥

राज्ञः प्रसादाद् दृष्टोऽसि भक्तिं न सफलीकुरू ।

अवाप्तकामस्य च ते सृष्टि स्थित्यन्तकारिणः

॥२५॥

सर्वान्तर्यामिणः सर्वचित्तवृत्तीर्विजानतः ।

कर्तुं वाप्यन्यथाकर्तुमकर्तुं वा क्षमस्य ह

॥२६॥

चिदानन्दस्य नैवाऽस्ति पूजाभिर्नः प्रयोजनम् ।

भक्तिप्रियो देव इति निगमं न वृथा कुरू

॥२७॥

निशम्येति वचस्तेषां तानूचेऽथ विनायकः ।

एवं चेद्भवतां भक्तिस्तदा यास्ये नृपाज्ञया

॥२८॥

एवमाकर्ण्य तद्वाक्यं सर्वेऽपि स्वगृहान् ययुः ।

मण्डपान् विदधुः केचित् केचिद्वस्त्रगृहाणि च

॥२९॥

तोरणान् विदधुर्भक्त्याऽऽदर्शशोभाद्भुतानि च ।

भाजनानि महार्हाणि सुगन्धचन्दनानि च

॥३०॥

द्रव्याणि च सुगन्धीनि मृगनाभिभवानि च ।

फलानि च विचित्राणि वासांस्याभरणानि च

॥३१॥

पक्वान्नानि विचित्राणि पञ्चामृतयुतानि च ।

स्थापिता मूर्तयो नानामुक्तामालाविभूषिताः

॥३२॥

एवं गृहे गृहे सर्वे सामग्रीं चक्रुरुत्सुकाः ।

एकोऽभून्नगरप्रान्ते ब्राह्मणो वेदशास्त्रवित्

॥३३॥

शुक्लनाम्ना शुक्लवृत्तिः शान्तो दान्तः क्षमान्वितः ।

श्रौतस्मार्तकर्मनिधिर्ब्रह्मनिष्ठोऽतिथिप्रियः

॥३४॥

यस्य पत्नी महाभागा विद्रुमा नाम नामतः ।

निस्पृहा ज्ञानसम्पन्ना सर्वावयवसुन्दरा

॥३५॥

दरिद्रा ज्ञाननिष्ठा सा पतिप्राणा पतिव्रता ।

तस्या गृहगतं दृश्यं नभस्ताराङ्कितं स्फुटम्

॥३६॥

न स्वर्णं राजतं ताम्रं भाजनं रीतिजं न च ।

गौरा वल्कलसंवीता तेजोज्वाला सुशोभना

॥३७॥

यदङ्गतेजसा व्याप्तं दृश्यमानं न दृश्यते ।

तेन वृत्तेन तुष्टा सा गृहशोभाविधायिनी

॥३८॥

तस्यास्तोषेण तुष्टोऽभूद् विनयेन च सेवया ।

स्वस्थःस्थितो ज्ञाननिष्ठस्तिष्ठत्यकृतभोजनः

॥३९॥

कदाचिद् भिक्षितुं यातो वारितस्तु गृहेगृहे ।

महोत्सवं प्रकुर्वद्भिर्विनायककृते जनैः

॥४०॥

यल्लब्धं तेन तुष्टोऽसौ भार्यामेत्याऽब्रवीदिदम् ।

श्रूयतां पत्नि नगरे वारितोऽहं गृहेगृहे

॥४१॥

आयास्यति प्रतिगृहं पूजार्थं स विनायकः ।

योऽवतीर्णो मनिगृहं भूभार हरणोद्यतः

॥४२॥

आयास्यति गृहं चेत् स पूजार्थे यत्नमाचर ।

साऽब्रवीन् महतीं पूजां त्यक्त्वाऽन्नं विविधन्तथा

॥४३॥

भवतां सोऽकिञ्चनानां कथं वा गृहमेष्यति ।

गन्धपुष्पं पर्युषितं पक्वं कन्दफलं मुने

॥४४॥

भविष्यति कृतं सम्यगसम्यक् स्वल्पमप्यहो ।

किं वा प्रयोजनं तस्य गृहेण भवतां प्रभो

॥४५॥

इति प्रियावचः श्रुत्वा पुनरूचे मुनिः प्रियाम् ।

स मां भक्तं विजानाति दीनानाथ प्रभुः प्रभुः

॥४६॥

भक्तिप्रिऽयोस्ति देवोऽयं न लोभवशगो विभुः ।

अर्णसा च पलाशेन पुष्पेण प्रीयते हि सः

॥४७॥

सुवर्णानिचयैर्वापि न हि दम्भात् समर्पितैः ।

इत्याकर्ण्य वचस्तस्य विद्रुमा पुनरब्रवीत्

॥४८॥

एवं चेत् तर्हि यत् सिद्धं तदेतस्मै निवेद्यताम् ।

ततोऽष्टादशधान्यानां कृत्वा पिष्टं पपाच सा

॥४९॥

ओदनश्च कृतो जीर्णतन्दुलानां जलाधिकः ।

मुष्टिपिष्टं पर्णपुटे पक्त्वा भुङ्क्ते दिनेदिने

॥५०॥

तत्तेन दियमानेन द्रव्येण चैलमानयत् ।

गन्धाक्षतं च पुष्पाणि धूपं दीपं महार्तिके

॥५१॥

वन्यं फलं वल्कलं च स्थापयामास चैकतः ।

शुष्कामलकखण्डानि मुखवासार्थमेव च

॥५२॥

प्रसार्य दर्भनिचयं सुसिक्ते स्वाङ्गणे ध्वजम् ।

चकार कशिपू नासौ ध्याननिष्ठोऽभवन् मुनिः

॥५३॥

(चकारकशिपुञ्चासौ?) नैवेद्यं वैश्वदेवं च कृत्वा पूर्वं प्रयत्नतः

॥५४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विद्रुमाशुक्लनिष्ठगणेशभक्तिनिरुपणं नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥