सप्तचत्वारिंशोऽध्यायः
राजोवाच
अवश्यं मुनिशार्दूल करिष्ये वचनं तव ।
करवाण्यन्यथा चेन्मे शपथोऽस्ति हरस्य ह
॥१॥गृत्समद उवाच
एवं तेन सर्व जनाः काशिस्थाः स्ववशीकृताः ।
त्यक्त्वा सर्वाणि कर्माणि तमेव परिसेविरे
॥२॥भूतं भव्यं विप्रकृष्टं भविष्यं च विवृण्वता ।
ततो विष्णुर्बौद्धरूपी पञ्चक्रोशाद् बहिः स्थितः
॥३॥आगत्य मायया मोहं जनयन् सर्व देहिनाम् ।
श्रुतिस्मतिविरुद्धं सोऽपाठीद् धर्मवृषं द्विषन्
॥४॥सोऽपि स्ववचनात् सर्वान् वशे चक्रे महाजनान् ।
साकारभजनं सर्वं दूषयामास सादरम्
॥५॥किमर्थं पार्थिवीं मूर्तिरर्च्यते तैजसीरपि ।
सर्वो जनो मूढमनाः परात्मनि हृदि स्थिते
॥६॥वृक्षाणां जीवतां छेदः पशूनामपि हिंसनम् ।
कुरुते स्वस्य वित्तानि परस्मै यः प्रयच्छति
॥७॥नष्टे देहेतु भूतानि लीयन्ते पञ्च पञ्चसु ।
स्वयमेव हि भोक्तव्यं पक्वान्नं सघृतं मुदा
॥८॥देहात्मा परिपूज्योऽसौ नानाभोगैर्यथासुखम् ।
ततः सर्वे जनाः स्वं स्वं मार्ग मुक्त्वा तथाऽभवन्
॥९॥ब्राह्मणानपि सन्त्यज्य बुभुजुर्भोगमुत्तमम् ।
तत्पत्नी कमला नाम पूरयन्ती मनोरथान्
॥१०॥स्थिता वाराणसीवासिस्त्रियःसर्वाव्यमोहयत् ।
बोधयामास यत्नेन दुष्टमार्गं दिनेदिने
॥११॥भिद्यन्ते बुद्धयस्तेषां पुरग्रामनिवासिनाम् ।
स्वदेहे भर्तृदेहे योन्यस्य देहे स एव तु
॥१२॥न भिद्यते पुमान् यद्वन् मुखनासाकरादिभिः ।
तथात्मा नैव भिद्येत देहैरेतैश्चतुर्विधैः ।
एवं प्रलोभिताः कान्ताः पुंसोऽन्यानपि भेजिरे
॥१३॥ब्राह्मणा अग्निहोत्रेषु यज्ञेषु शिथिलादराः ।
व्रते दाने च होमे च देव ब्राह्मणपूजने
॥१४॥पशूनां यज्ञियानां च छेदने संशयं दधुः ।
परस्परं गृहेऽर्चन्तो बुभुजुर्भोगमुत्तमम्
॥१५॥स्वयमेव बुभुजिरे श्राद्धानि च व्रतानि च ।
एवं च धर्मलोपोऽभूदेनसो वृद्धिरेव च
॥१६॥ततो बौद्धो जगामाशु दिवोदासस्य मन्दिरम् ।
पूजितः परया भक्त्या स तेन स्वासने शुभे
॥१७॥तत ऊचे दिवोदासं वाक्यं वाक्य विशारदः ।
बौद्ध उवाच ।
शृणु राजन् हितं वच्मि श्रुत्वा तत्कुरु सादरम्
॥१८॥इयं वाराणसी शूलभृता निर्मायि तेजसा ।
प्रलयेऽपि त्रिशूलाग्रे ध्रियते सर्व जन्तुभिः
॥१९॥पुण्यवद्भिरिह स्थेयं मृतौ मोक्षमभीप्सुभिः ।
पापात्मानो भैरवेण क्रियन्ते बहिरेव च
॥२०॥रक्षणं पुण्यकर्तॄणां क्रियते तेन तेन च ।
तव पुण्यं स्थितं यावत् तावदत्र स्थितो भवान्
॥२१॥काश्यां राज्यं प्रकुर्वाण इदानीं न तथा भवान् ।
पापञ्च सम्प्रवृत्तं ते राज्ये नरककृन्नृपः
॥२२॥नृप उवाच
सम्यगुक्तं त्वया मह्यं करिष्ये वचनं तव ।
ज्योतिर्विदा ढुण्ढिना च प्रोक्तं तत्सत्यमेव तत्
॥२३॥वद मे त्वं च कश्चासि मद्धितार्थमिहागतः ।
यदि वेत्तुंया शक्यं तत्त्वन्ते पुरुषोत्तम
॥२४॥क उवाच
ततः स करुणाविष्टो दर्शयामास तं नृपम् ।
निजं चतुर्भुजं रूपं शङ्खचक्रगदाधरम्
॥२५॥समष्टिव्यष्टिरूपेण चिद्रूपञ्च प्रदर्शितम् ॥
धन्योऽहमिति तं प्राह पितृभ्यां सहितोऽनघ
॥२७॥पूर्वं राज्यं परित्यज्य तपस्तप्तं मया बहु ।
ब्रह्मणेदं बलान्मह्यं दत्तं राज्यमनुत्तमम्
॥२८॥त्वद्दर्शनाज्जन्ममृती गते मे नात्र संशयः ।
इदमेव परं याचे त्वमहं शरणं गतः
॥२९॥मुनिरुवाच
इत्युक्तः परमात्माऽसौ प्रोक्तवान् नृपसत्तमम् ।
विश्वेश्वर प्रसादाच्च तवापि राजसत्तम
॥३०॥भविता परमा मुक्तिस्त्यक्त्वा राज्यं सुखी भव ।
भैरवो दण्डपाणिश्च बहिः कुर्यादतोऽन्यथा
॥३१॥एवमाकर्ण्य तद्वाक्यं चिन्तां परमिकां ययौ ।
ध्यात्वा विचार्य तद्धेतुं बुबोध सर्वमेव सः
॥३२॥ज्योतिर्विदं गणेशं च बौद्धं मायाविनं हरिम् ।
प्रणम्य शिरसा भक्त्या कोऽसीति निजगाद तम्
॥३३॥सोऽपि बुद्धवा महाविष्णुर्निजं रूपं समास्थितः ।
चतुर्भुजं शङ्खचक्रगदापद्मधरं विभुम्
॥३४॥पीताम्बरसमायुक्तं सर्वलोकाश्रयं परम् ।
उवाच तं नृपः पूज्य धन्योऽहं मम पूर्वजाः
॥३५॥यन्मोक्षदं पदयुगं दृष्टं पुण्यप्रभावतः ।
देहि मे परमां मुक्तिं मुद्रामेतां गृहाण च
॥३६॥बलाद्दत्तं ब्रह्मणा मे शास्तु राज्यं शिवो निजम् ।
ततो जगाद तं विष्णुः शिवो मुक्तिं प्रदास्यति
॥३७॥क उवाच
एवमुक्त्वा दिवोदासं महायोगेश्वरो हरिः ।
अन्तर्हितः पुनर्यायाद् बौद्धरूपी निजाश्रमम्
॥३८॥प्रेषयामास दूतं स शिवागमनहेतवे ।
दिवोदासस्य राज्ये मेऽधर्मवृद्धिः कृता बहुः
॥३९॥ज्योतिर्विदा गणेशेन त्यक्तं राज्यं नृपेण ते ।
शीघ्रमायाहि विश्वेश निजां वाराणसीं पुरीम्
॥४०॥ततो राजा राजचिन्हं त्यक्त्वा तेपे परन्तपः ।
प्रासादे परमे स्थाप्य शिवलिङ्गं सुविश्रुतम्
॥४१॥स्वनाम्ना मोक्षदं पुंसां सकामानां तु कामदम् ।
प्रतीक्षन् दर्शनं तस्य शङ्करस्यार्थदायिनः
॥४२॥इति श्रीगणेशपुराणे क्रीडाखण्डे दिवोदासराज्यत्यागो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥