मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 111

3
क्रीडाखण्डः · 111

विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः

क उवाच

प्रायात्सभां महारम्यां द्वारपालनिवेदितः ।

नन्दी ननन्द तं दृष्ट्वा दैत्यं सिन्धु सभागतम्

॥१॥

महावीरैः परिवृतं नानाशस्त्रेषु पाणिभिः ।

वाराङ्गनानृत्यरतं वीज्यमानं नृभिर्मुदा

॥२॥

वाद्यत्सु सर्ववाद्येषु नादनादितदिक्षु च ।

दृष्ट्वा तं नन्दिनं केचिन्मेनिरे रविमागतम्

॥३॥

महाकायं महावीरं वीक्ष्य केचिच्चकम्पिरे ।

जगर्जुरपरे तत्र भीषयन्तो बलादमुम्

॥४॥

न बिभेति महाधैर्यान्नन्दी स्वबलगर्वितः ।

करसंज्ञार्पितं नन्दी भेजे आसनमुत्तमम्

॥५॥

सर्वे तटस्थतां याताश्चित्रगा इव पुत्तलाः ।

बुद्ध्वा तदिङ्गितं प्राह नन्दी वाचस्पतिः परः

॥६॥

नानासभा दृष्टपूर्वा नेदृशास्तासु मूढकाः ।

यूयं सर्वेतिबलिनः श्रिया परमशोभिताः

॥७॥

सुन्दराः कामसदृशा बुद्ध्या हीना वृका इव ।

सभायामागतः साधुरसाधुर्दुर्बलो बली

॥८॥

प्रष्टव्यो माननीयश्च नीतिरेषा सनातनी ।

न सा दृष्टा सभामध्ये ह्यतो मे विस्मितं मनः

॥९॥

वृथा सभासदः सवें वृथाऽमात्याश्च नागराः ।

नायं धर्मो राज्ञ एव सभ्यानां कृत्यमेव तत्

॥१०॥

क उवाच

इति तद्वचनं श्रुत्वा सिन्धुः प्रोवाच नन्दिनम् ।

पद्मयोनेरिव तव मतिर्दृष्टा गुणाकर

॥११॥

कस्य त्वं कुत आयातः किमर्थं वा वृषेश्वर ।

तेजसा वह्निसदृशः पञ्चास्य इव विक्रमे

॥१२॥

नन्द्युवाच

सुरभेः कामरूपाया अपत्यं नन्दिनामकम् ।

विद्धि मां गिरिजानाथवाहं ब्रह्माण्डभेदिनम्

॥१३॥

मयूरेशो धराभारहरो दुष्टनिबर्हणः ।

अवतीर्णः शिवगृहे बाल्यात् प्रभृति दैत्यहा

॥१४॥

शेषो मूकोऽभवत् तस्य प्रतापवर्णनेऽब्जजः ।

समुद्रमथनाद् यद्वद् रत्नजातं बहिर्ययौ

॥१५॥

तद्वन्नीतिं विमथ्याऽद्य कार्यसिद्धिं विचारय ।

आज्ञां श‍ृणु मयूरेशप्रेषितां बलवत्तराम्

॥१६॥

आज्ञाभङ्गे तस्य भवद् विनाशो यस्य कस्यचित् ।

यतः स सृजते विश्वं पाति हन्ति चराचरम्

॥१७॥

त्वया विनिहिताः कारागृहे देवगणा बलात् ।

पदानि तेषां लब्धानि भाग्यं स्यात् किमतः परम्

॥१८॥

इदानीं वैरनिर्मोकं विचार्य कर्तुमर्हसि ।

मोचयाशु सुरान् सर्वानाज्ञया स्वामिनो मम

॥१९॥

त्रिपुरेण कृतं वरं शिवेन सह तत्क्षणात् ।

हिरण्यकशिपुं स्तम्भेऽवतीर्य हतवान् हरिः

॥२०॥

तारकेण जिता देवा अतिष्ठत् तत्पदे स्वयम् ।

स्कन्देन निहतो युद्धे क्षणेन तारको बलात्

॥२१॥

अतो दत्त्वा सुरान्मह्यं तिष्ठ स्थाने सुखं चिरम् ।

क उवाच ।

एवं नन्दिवचः श्रुत्वा चुक्रोध सिन्धुदैत्यराट्

॥२२॥

उवाच रक्तनयनो वमन्निव हुताशनम् ।

सिन्धुरुवाच ।

चातुर्यं बहुधा दृष्टं त्वदीयं वृषनन्दन

॥२३॥

प्रसङ्गं नैव जानासि यतो वाचस्पतेरपि ।

अज्ञानात् प्रकृतार्थस्य वचो याति वृथार्थताम्

॥२४॥

बालस्य तव वाक्येन स्वामिनस्तेऽपि वाक्यतः ।

मोचयेयं कथं देवान् यावत्सोऽपि न निर्जितः

॥२५॥

प्रमाणं किन्नु ते वाक्यं तृणादवनचारिणः ।

क्व ते गिरीशस्तत्पुत्रो वृथा भीतिः प्रदर्श्यते

॥२६॥

लाङ्गले योजयाम्यद्य दौत्येन नागतो यदि ।

यदि मे वक्रतां यायाद् भृकुटी क्रोधतो वृष

॥२७॥

तदा त्रिभुवनं नश्येत् का तत्र गणना तयोः ।

रुष्टः श‍ृगालः किं कुर्यादप्रियं सिंहनागयोः

॥२८॥

क उवाच

एवं शब्दशरैर्विद्धो नन्दी क्रोधादथाब्रवीत् ।

नन्द्युवाच ।

विपरीतां मतिं तेऽद्य लक्षयाम्य सुराधम

॥२९॥

सन्निपातीव विकलं वल्गसे मरणोन्मुखः ।

पूर्वं साम प्रयोक्तव्यमिति तेनाहमीरितः

॥३०॥

त्वयि नीतिर्वृथा जाता ह्युपदेशो यथा खले ।

यदि निन्दा प्रयुक्ता ते मयूरेशे शिवेऽपि च

॥३१॥

क्षीयमायुस्तया तेऽद्य न युद्धे जयमेष्यसि ।

इदानीं हन्मि त्वां मूढ नाज्ञाऽस्ति स्वामिनो मम

॥३२॥

नायकेन न हन्तव्यो दूतस्तेनापि नायकः ।

इत्युक्त्वा पातयन् दैत्यान् नन्दी निश्वासवायुना

॥३३॥

क्रोधेन तमपृष्ट्वैव प्रतस्थे हर्षनिर्भरः ।

सान्निध्यं प्राप्य देवस्य मयूरेशस्य तत्क्षणात्

॥३४॥

दूराद् ददर्श देवोऽपि प्राह नन्दी समागतः ।

प्रणिपत्याब्रवीद् देवं वृत्तान्तं सर्वमादितः

॥३५॥

नन्द्युवाच

बहुधा बोधितो दैत्यो न स्वीचक्रे वचो मम ।

निर्भर्त्सितो बहुविधं तेनाहं च मया च सः

॥३६॥

न्युब्जे घटे यथा बिन्दुस्तस्मिन्सर्वं वृथा भवेत् ।

क उवाच ।

इति तद्वचनं श्रुत्वा प्रयातस्य यथागतम्

॥३७॥

जहर्ष स मयूरेशो दैत्यमर्दनलालसः ।

आज्ञापयत्स युद्धाय प्रमथादीदान् गणांस्तथा

॥३८॥

इदानीं सिन्धुनगरे युद्धं कर्तुं समुत्सुकाः ।

गर्जन्तु वीरशब्दैश्च मोचितुं बन्धनात् सुरान्

॥३९॥

हत्वा सिन्धुं च सबलं मोचितुं चाखिलान्सुरान् ।

मुनीनां त्वरमाणानां गन्तुं स्वाश्रममण्डलम्

॥४०॥

इति श्रीगणेशपुराणे क्रीडाखण्डे विचारवर्णनं नामैकादशाधिकशततमोऽध्यायः ॥ १११ ॥